क्षारपाक (kSArapAka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritक्षारपाक सुश्रुतोक्ते क्षारद्रव्यस्य पाकमेदे तत्र क्षारभेदस्य गुणप्रयोगादिकमुक्त्वा तत्पाकविधिरुक्तो यथा“अथातः क्षारपाकविधिमध्याय व्याख्यास्यामः । शस्त्रा-नुशस्त्रेभ्यः क्षारः प्रधानतमश्छेद्यभेद्यलेखकरणात्त्रिदोष-घ्नत्वाद्विशेषक्रियावचारणाच्च । तत्र क्षरणात् क्षणनाद्वाक्षारः । नानौषधिसमवायात्त्रिदोषन्नः शुक्लत्वात्सौम्यस्तस्यसौम्यस्यापि सतो दहनपचनदारणादिशक्तिरविरुद्धा सखल्वाग्नेयौषधिगणभूयिष्ठत्वात् कटुक उष्णस्तीक्ष्रः पा-चनो विलयनः शोधनो रोपणः शोषणः स्तम्भनो लेखनःकृम्यामयकफकुष्ठविषमेदस मुपहन्तापुंस्त्वस्य चातिसेवितः ।स द्विविधः प्रतिसारणीयः पानीयश्च । तत्र प्रतिसारणीयःकुष्ठकिटिभदद्रुकिलासमण्डलभगन्दरार्बुददुष्टव्रणनाडीच-र्म्मकीलतिलकालकव्यङ्गमशकवाद्व्यविद्रधिकृभिविषार्शःसू-पदिश्यते सप्तसु च मुखरोगेपूपजिह्वाधिजिह्वोपकु-शदन्तवैदर्भेषु तिसृषु च रोहिणीष्वेतेषु चैवानुशस्त्र-प्रणिधानमुक्तम् । पानीयस्तु गरगुल्मोदराग्निशूलाजी-र्ण्णारोचकानाहशर्कराश्मर्य्याभ्यन्तरविद्रविकृमिविषार्शःसूप-युज्यते । अहितस्तु रक्तपित्तज्वरितपित्तप्रकृतिवालवृद्ध-दुर्बलभ्रममदमूर्द्व्यातिमिरपरीतेभ्योऽन्येभ्यश्चैवंबिधेभ्यः । त-ञ्चेतरक्षारवदृध्वा परिस्रावयेत्तस्य विस्तारोऽन्यत्र । सचत्रिविधोमृदुर्मध्यस्तीक्ष्णश्च । तं चिकीर्षुः शरदि गिरिसा-नुजं शुचिरुपोष्य प्रशस्तेऽहनि प्रशस्तदेशजातमनुपहतंमध्यमवयसं महान्तमसितमुष्ककमधिवास्यापरेद्युः पाट-यित्वाभिमन्त्य्रानेन मन्त्रेण । अग्निवीर्य्य! महावीर्य्य!मा ते वीर्य्यं प्रणश्यतु । इहैव तिष्ठ कल्याण! ममकार्य्यं करिष्यसि । मम कार्य्ये कृते पश्वात् स्वर्गलो-कं गमिष्यसि । श्वेतपुष्परक्तपुष्पसहस्रं ज्रहुयात् । ख-ण्डशः प्रकल्प्याथ निर्व्वाते देशे निचितं कृत्वा सुधाश-र्कराश्च प्रक्षिप्य तिलनालैरादीपयेदथोपशान्तेऽग्नौ तद्भत्मपृथग्गृह्लीयाद्भस्मशकर्राश्च । अथानेनैव विधानेन कुष्टज-पलाशाश्वकर्ण्णपारिभद्रकविभीतकारग्बधविल्वकार्क्कस्नुह्य-पामार्गपाटलानक्तमालवृषकदलीचित्रकपूतीकेन्द्रदृक्षास्फो-ताश्वमारकसप्तच्छदाग्निमन्थान् गुञ्जाथतस्रश्च कोशातकीः समूलफलपत्रशाखा दहेत् । ततः क्षारद्रोणमुदकद्रोणैःषड्भिरालोड्य मूत्रैर्वा यथोक्तैरेकविंशतिवारान् विस्राव्य-महति कटाहे शनैर्दर्व्या विवट्टयन् बिपचेत् । स यदाभवत्यच्छो रक्तस्तीक्ष्णः पिच्छिलश्च तमादाय महति वस्त्रेपरिस्राव्येतरं विसृज्य च पुसरग्नावधिश्रयेत् । ततएव च क्षारोदकात् कुडवमध्यर्द्धं वाऽपनयेत् । ततः कट-शर्कराभस्मशर्कराक्षीरपाकशङ्खनाभीर ग्नवर्ण्णा । कृत्याऽऽयसेपात्रे तस्मिन्नेव क्षारोदके निषिच्य पिष्ट्वा तेनैव द्विद्रोणेऽष्टपलसंमितं शङ्खनाभ्यादीनां प्रमाणं प्रतिवाप्य सत-तमप्रमत्तश्चैनमवघट्टयन् विपचेत् । स यथा नातिसान्द्रीनातिद्रवश्च भवति तथा प्रयतेन । अथैनमवगतपाकमव-तार्य्यानुगुप्तमायसे कुम्मे संवृतमुखे निदध्यादेष मध्यमः ।एष एवाप्रतीवापः पक्वः संव्यूहितो मृदुः । प्रतिवापे य-थालाभं दन्तीद्रवन्तीचित्रकलाङ्गलकीपूतिकाप्रबालतालपत्रीविडमुवर्चिकाकनकक्षीरीहिङ्गुवचाविषाः समाः श्लक्ष्णचू-र्ण्णाः शुक्तिप्रमाणाः प्रतिवापः । स एव सप्रतिवापः पक्वःपाक्यस्तीक्ष्णस्तेषां यथाव्याधिवलमुपयोगः । क्षीणबले तुक्षारोदकमावपेद्धलरक्षणार्थं । भवतश्चात्र । नैवातितीक्ष्णोन मृदुः शुक्लः श्लक्ष्णोऽथ पिच्छिलः । अभिघ्यन्दी शिवःशीघ्रः क्षारो ह्यष्टगुणः स्मृतः । अतिमार्दवशैत्यौष्ण्यतै-क्ष्ण्यपैच्छिल्यसर्पिताः । सान्द्रताऽपक्वता हीनद्रव्यतादोष उच्यते । तत्र क्षरसाध्यव्याधिव्याधितमुपवेश्य निर्वाते देशेऽसम्बाधे ऽग्रोपहरणीयोक्तेन विधानेनोपस-म्भृतसम्भारं ततोऽस्य तमवकाशं निरीक्ष्यावघृष्यावलिख्यपिच्छलयिता शलाकया क्षारं पातयित्वा वाक् शतमात्रमुपक्षिपेत् । तस्मिन्निपतिते व्याधौ कृष्णता दग्धलक्षणम् ।तत्राम्लवर्गः शमनः सर्पिर्म्मधुकसंयुतः । अथ चेत् स्थि-रमूलत्वात् क्षारं दग्धं न शीर्य्यते । इदमालेपनं तत्र स-मग्रमवचारयेत् । अम्लकाञ्जिकवीजानि तिलान्मधुकमे-व च । प्रपिष्य समभागानि तेनैवमनुलेपवेत् । तिलकल्कःसमधूको घृताक्तो व्रणरोपणः । रसेनाम्लेन तीक्ष्णेन वी-र्य्योष्णेन च योजितः । आग्नेयेनाग्निना तुल्यः कथंक्षारः प्रशाम्यति । एवं चेत्मन्यसे वत्स! प्रोच्यमानं नि-बोध मे । अम्लवर्जान् रसान् क्षारे सर्वानेव विभावयेत् ।कटुकस्तत्र भूयिष्ठो लवणानुरसस्तथा । अम्लेन सह सं-युक्तः स तीक्ष्णलवणी रसः । माधुर्य्यं भजतेऽत्यर्थं ती-क्ष्णभावं विमुञ्चति । माधुर्य्याच्छममाप्नोति वह्निरद्भिरि-वाप्लुतः । तत्र सम्यग्दग्धे विकारोपशमो लाघवमनाम्रा-बश्च । हीनदग्धे तोदकण्डूजाद्ध्यानि व्याधिवृद्धिश्च ।अतिदग्धे दाहपाकरागसावाङ्गमर्दक्लमपिपासामूर्च्छादुर्म्मरणं वा । क्षारदग्धव्रणन्तु यथादोषं यथाव्याधिचोपक्रमेत् । तथा नैतेषु क्षारकृत्याः । तद्यथा दुर्बलबालस्थविरभीगसर्वाङ्गशूनोदरिरक्तपित्तिगर्भिण्यृतुमतीप्रवृ-द्धज्वरिप्रमेहीरःक्षतक्षीणतृष्णामूर्च्छोपद्रुतक्लीवापवृत्तोद्वृ-त्तफलयोनयः । तथां मर्म्मशिरास्नायुधमनीसन्धितरुणा-स्थिसेवनीगलनाभीनखान्तरशोफस्रोतःस्वल्पमांसेपुच प्रदे-शेष्वक्ष्णोश्च न दद्यादन्यत्र वर्त्मरोगात् । तत्र क्षारसा-ध्येष्वपि व्याधिषु शूनगात्रभस्थिशूलिनमन्नद्वेषिणं हृद-यसन्धिपीडोपद्रुतं क्षारो न साधयति” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
