| YouTube Channel

क्षारतैलं (kSAratailaM)

 
शब्दकल्पद्रुमः
Sanskrit
क्षारतैलं,
क्ली,
(क्षारयुतं क्षाराख्यं वा तैलम् ।) पक्व-तैलविशेषः यथा, --“शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।शतपुष्पी वचा कुष्ठं दारु शिग्रु रसाञ्जनम्
सौवर्च्चलं यवक्षारं सामुद्र सैन्धवन्तथा ।भुजग्रन्थि विडं मुस्तं मधु शुक्लं चतुर्गुणम्
मातुलुङ्गरसञ्चैव कदलीरसमेव ।तैलमेभिर्व्विपक्तव्यं कर्णशूलापहं परम्
बाधिर्य्यं कर्णनादश्च पूयस्रावश्च दारुणः ।पूरणादस्य तैलस्य कृमयः कर्णयोः खिलाः
क्षिप्रं विनाशमायान्ति शशाङ्ककृतशेखर ! ।क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम्”
इति गरुडे १९८ अध्यायः