| YouTube Channel

क्षारगुड (kSAraguDa)

 
वाचस्पत्यम्
Sanskrit
क्षारगुड
पु०
क्षरेण पक्वः गुडः शा० त० च० द० उक्तेक्षारपक्वे गुडभेदे यथा“पञ्चमूलं त्रिफलामर्कमूलं शतावरीम् दन्तीं चित्रक-मास्फोतां रास्नां पाठां सुधां शठीम् पृथग्दशपलान्भागान् दग्ध्वा भस्म समावपेत् त्रिःसप्तकृत्वस्तद्भस्म ज-लद्रोणेन गालयेत् तद्रसं साधयेदरनौ चतुर्भागावशेषि-तम् ततो गुडतुलां दत्त्वा साधयेन्मृदुनाग्निना सिद्धंगुडन्तु विज्ञाय चूर्णानीमानि दापयेत् वृश्चिकालीं द्वि-काकल्यौ यवक्षारं समां घचाम् एतत् पञ्चपला मागाःपृथक् पञ्च पलानि हरीतकीं त्रिकटुक सर्जिकांचित्रकां वचाम् हिङ्ग्वम्लवेतसाभ्याञ्च द्वे पले तत्रदापयेत् अक्षप्रमाणां गुटिकां कृत्वा खादेद्यथाबलम् ।अजीर्णं जरयत्येष जीर्ण्णे सन्दीपयत्यपि भुक्तं भुक्तञ्चजीर्य्येत पाण्डुत्वमपकर्षति प्लीहार्शःश्वयथञ्चैव श्लेष्म-कासमरोचकम् मन्दाग्निविषमाग्नीनां कफे कण्ठोरसिस्थिते कुषठानि प्रमेहश्चां गुलमञ्चाशु नियच्छति ।ख्यातः क्षारगुडो ह्येष रोगयुक्ते प्रयोजयेत्”