| YouTube Channel

क्षामवतीष्टिः (kSAmavatISTiH)

 
शब्दकल्पद्रुमः
Sanskrit
क्षामवतीष्टिः
स्त्री,
(क्षामं दोषक्षयः साध्यतया-स्त्यस्या मतुप् मस्य वत्वम् स्त्रियांङीप् पक्षे कर्म्मधारयः ।) यागविशेषः ।यथा, भविष्ये ।“क्षामवत्यादिना यद्वत् कर्म्मणा पृतनापते ! ।दैवदोषादकरणे जाते दोषकदम्बके ।होमेनैकेन दोषाणां सर्व्वेषां क्षयमादिशेत्
एवञ्च एकप्रायश्चित्तेनानेकदोषक्षयाय क्षाम-वतीष्टिः सर्व्वत्र दृष्टान्तः” इति प्रायश्चित्त-तत्त्वम्