| YouTube Channel

क्षयज (kSayaja)

 
Monier Williams Cologne
English
क्षय—ज
mfn.
produced by consumption (as cough),
Suśr.
Shabdartha Kaustubha
Kannada
क्षयज
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕ್ಷಯರೋಗದ ಕೆಮ್ಮಲು /ಕ್ಷಯರೋಗ ಸಂಬಂಧವಾದ ಕೆಮ್ಮಲು
निष्पत्तिः - > जनी (प्रादुर्भावे) - "डः" (३-२-९८)
व्युत्पत्तिः - > क्षयात् जायते
वाचस्पत्यम्
Sanskrit
क्षयज
पु०
क्षयात् जायते जन--ड कासभेदे यथा“विषमासात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात् घृणि-नां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः कुपिताःक्षयजं कासं कुर्य्युर्देहक्षयप्रदम् गात्रशूलज्वरदा-हमोहान् प्राणक्षयञ्चोपलभेत कासी शुष्यन् विनिष्ठीवति दुर्ब्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम् तं सर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति ।वृद्धत्वमासाद्य भवत्यथोवै याप्यन्तमाहुर्भिषजस्तु कासम्”“क्षयजे क्षयमासाद्य कर्त्तव्यो वृंहणोविधिः” इति चसुश्रुतः क्षयात् कासः क्षयकासोऽप्यत्र