क्षयः (kSayaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishक्षयः [kṣayḥ], [क्षि-अच्]
A house, residence, abode
यातनाश्च यमक्षये 6.61
निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह
Loss, decline, waste, wane, decay, diminution
आयुषः क्षयः 3.69
धनक्षये वर्धति जाठराग्निः 2.186
so चन्द्रक्षयः, क्षयपक्षः
Destruction, end, termination
निशाक्षये याति ह्रियैव पाण्डुताम् 1.9
6.
Pecuniary loss
8.41.
Fall (as of prices.)
Removal.
Universal destruction (प्रलय).
Consumption.
A disease in general.
The negative sign or quantity, minus (in algebra).
Family, race.
The house of Yama.
A part of the elephant's knee (गजजानुभागविशेषः)
Mātaṅga 5.15.
Power (क्षी क्षयैश्वर्ययोरित्यैश्वर्यार्थस्य क्षिधातो रूपम् on * 12.33.2)
उपपद्यति संयोगाद् गुणैः सह गुणक्षयात् -यम् of the last year in the sixty years cycle. -उपशमः complete annihilation of the desire of being active (Jaina). -कर (also क्षयंकर)a. causing decay or destruction, ruinous.
कालः time of universal destruction.
the period of decline.-कासः consumptive cough. -तिथिः, -क्षयाहः the lunar day not beginning with the sun-rise, hence omitted in the calendar. -पक्षः the dark fortnight. क्षयपक्ष इवैन्दवीः कलाः सकला हन्ति स शक्तिसंपदः 2.37.
a fortnight of 13 days. -मासः the month in which two संक्रान्तिs occur and which is omitted in the adjustment of the lunar-solar calender. -युक्तिः , -योगः an opportunity of destroying
2.9. -रोगः consumption. -वायुः the wind that is to blow at the destruction of the world. -संपद् total loss, ruin.
Apte 1890
Englishक्षयः [क्षि-अच्] 1 A house, residence, abode
यातनाश्च यमक्षये Ms. 6. 61
निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह Mb.
2 Loss, decline, waste, wane, decay, diminution
आयुषः क्षयः R. 3. 69
धनक्षये वर्धति जाठराग्निः Pt. 2. 178
so चंद्रक्षयः, क्षयपक्षः &c.
3 Destruction, end, termination
निशाक्षये याति ह्रियैव पांडुतां Rs. 1. 9
Amaru. 60.
4 Pecuniary loss
Ms. 8. 401.
5 Fall (as of prices.)
6 Removal.
7 Universal destruction (प्रलय).
8 Consumption.
9 A disease in general.
10 The negative sign or quantity, minus (in algebra).
11 Family, race.
12 The house of Yama.
Comp.
कर (also क्षयंकर) a. causing decay or destruction, ruinous.
कालः {1} time of universal destruction. {2} the period of decline.
कासः consumptive cough.
पक्षः the dark fortnight.
युक्तिः f.,
योगः an opportunity of destroying.
रोगः consumption.
वायुः the wind that is to blow at the destruction of the world.
संपद् f. total loss, ruin.
Apte Hindi
Hindiक्षयः
- क्षि + अच्
"घर, निवास, आवास"
क्षयः
- क्षि + अच्
"हानि, ह्रास, छीजन, घटाव, पतन, न्य़ूनता"
क्षयः
- क्षि + अच्
"विनाश, अंत, समाप्ति"
क्षयः
- क्षि + अच्
आर्थिक क्षति
क्षयः
- क्षि + अच्
गिरना
क्षयः
- क्षि + अच्
हटाना
क्षयः
- क्षि + अच्
प्रलय
क्षयः
- क्षि + अच्
तपेदिक
क्षयः
- क्षि + अच्
रोग
क्षयः
- क्षि + अच्
"निर्गुणता, ऋण"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit क्षतिः, अपचयः, क्षयः, हानिः
कस्यापि भोग्यस्य वस्तुनः भ्रंशनेन नाशनेन वा जायमाना असुविधा।
"गृहस्य भित्त्यां भवता यद् क्षतिः कृता तस्य अपचितिः भवता एव करणीया।"
अपक्षयः, अपचयः, उपक्षयः, क्षयः, क्षीणता, भ्रंशः, विनाशः, शीर्णता, शीर्णत्वम्, अवसादः, क्षामता
वायुगुणादीनां प्रभावेण वस्त्वादिषु जायमानं वैकल्यम्।
"कालानुसारेण भवनानाम् अपि अपक्षयः भवति।"
ह्रासः, क्षयः, अपचयः
सः नाशः यः मन्दगत्या भवति।
"वृद्धावस्थायां स्मरणशक्तेः ह्रासः भवति।"
विनाशः, नाशः, ध्वंसः, प्रध्वंसः, विध्वंसः, क्षयः, लोपः, विलोपः, विलोपनम्, प्रणाशः, सादनम्, सूदनम्, प्रलयः, संहारः, अपायः, अत्ययः, लोपः, समुच्छेदः
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
"विनाशे काले बुद्धिः विपरीता भवति।"
क्षयः, व्ययः, हानिः, अपायः, क्षतिः, अपचयः, नाशः, अपचितिः, उपक्षयः, परिक्षयः, संक्षयः, क्षिया, अत्ययः
व्यापारे अर्थस्य अपागमः।
"अस्मिन् व्यापारे व्ययः जातः।"
प्रलयः, युगान्तः, कल्पः, कल्पान्तः, लयः, प्रतिसर्गः, क्षयः, प्रक्षयः, संवर्तः, संक्षयः, विलयः, प्रत्सञ्चरः
हिन्दूनां जगद्विलयस्य अवधारणाविशेषः। युगानाम् अन्तः यत्र युगानाम् अन्तो वा यस्मिन् जगद् प्रलीयते।
"ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि प्रलयः प्रतिसर्गोऽयं काल-चिन्तापरैर्-द्वजैः।"
विरामः, विरतिः, व्यनधानम्, अवरतिः, उपरतिः, निवृत्तिः, विनिवृत्तिः, निर्वृत्तिः, निवर्त्तनम्, निर्वर्त्तनम्, छेदः, विच्छेदः, उपशमः, अपशमः, क्षयः
समुपस्थितायाम् अथवा प्रवर्तमानायाम् क्रियायाम् सन्ततिच्छेदः।
"कर्तुः वृथा विरामात् कालक्षेपः भवति।"
क्षयः
संवत्सरविशेषः ।
"क्षयः इति बृहस्पतेः षष्टिसंवत्सरेषु अन्तिमः संवत्सरः अस्ति"
क्षयः
एकः राजपुत्रः ।
"क्षयस्य वर्णनं वायुपुराणे वर्तते"
Tamil
Tamilக்ஷய: : நாசம், அழிவு, நஷ்டம், வீழ்ச்சி, காசநோய்.
शब्दकल्पद्रुमः
Sanskritक्षयः, (क्षि क्षये । “नन्दिग्रहिपचादिभ्यः” । ३ । १ । १३४ ।इति अच् ।) नीतिवेदिनां त्रिवर्गान्तर्गतप्रथम-वर्गः । स तु राज्ञामष्टवर्गस्यापचयः । यथा, --“क्षयः स्थानञ्च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्” ॥
इत्यमरः ३ । १ । १३४ ॥
नीतिवेदिनां नीतिशास्त्र-ज्ञानां क्षयादिभिस्त्रिवर्गः अन्येषान्तु धर्म्मकामाथःपूर्व्वमुक्तः । अष्टवर्गस्यापचयः क्षयः । तस्यैवोपचयोवृद्धिः । तस्य नोपचयो नाप्यपचवः स्थानम् ।अष्टवर्गो यथा, --“ऋषिर्व्वणिक्पथो दुर्गं सेतुकुञ्जरबन्धनम् ।कन्याकरबलादानं सैन्यानाञ्च निवेशनम् ॥
अष्टवर्गः स्मृतो राज्ञां” । इति तट्टीकायां भरतः ॥
लयः । तत्पर्य्यायः । सम्बर्त्तः २ प्रलयः ३ कल्पः ४कल्पान्तः ५ ॥
अपचयः । तत्पर्य्यायः । क्षिया २ ॥
निलयः । तत्पर्य्यायः गृहशब्दे द्रष्टव्यः ॥
काशरोग-विशेषः । तत्पर्य्यायः । यक्ष्मा २ शोषः ३ । इत्य-मरः ॥
राजयक्ष्मा ४ रोगराजः ५ गदाग्रणीः ६उष्मा ७ अतिरोगः ८ रोगाधीशः ९ नृपामयः१० । इति राजनिर्घण्टः ॥
(लक्षणाणि चिकित्सितञ्च यथा, --“शृणुत गुणगरिष्ठा व्याधिघोरं नराणांभवति रहितचेष्टो वातुलः प्राणिनां वै ।चिरनिरयकरोऽयं प्राकृतैः कर्म्मपाकै-रिह परिभवकारी मानुषस्य क्षयोऽयम् ॥
देवानां प्रकरोति भङ्गमथवा भ्रूणस्य सम्पातनंगोपृथ्वीधरविप्रबालहननञ्चावासविध्वंसनम् ।योऽयं स्थानविनाशनञ्च कुरुते स्त्रीणांवधो यो नर-स्तस्यैतैर्गुरुकर्म्मभिः क्षयगदो देहार्थहारी महान् ॥
देवानां दमतो धनञ्च दहतो भ्रूणप्रपातेऽपि चदेवत्वं हरतो विषञ्च ददत आरामकं निघ्नतः ।तेनासौ नियमेन सम्भवति वै नॄणाञ्च तीव्रा रुजाधातूनां क्षयकारिणी च मनुजस्यात्मापहा दारुणाक्षयो दशविधश्चैव विज्ञातव्यो भिषग्वरैः ॥
श्रान्त्या भाराद्विषमशयनैर्दीर्घमार्गाक्रमैर्व्वाभुक्तेर्दोषादतिशयरतेः सेवनाद्वै नरश्च ।ज्वरेणातिक्रान्तो विषमशयनात् कूटनपरैःजाता रोगा मनुजवपुषः क्षीणतां संनयन्ति ।रोगाक्रान्तो विषमशयनात्तस्य मन्दज्वराद्वा ।श्लेष्मा पित्तं मरुदथशयनैर्यातिदेहक्षयं वा ।रसरक्तमांसमेदश्चास्थिमज्जानि शुक्रतः ॥
एवं दशविधा ज्ञेयाः क्षया नॄणां वपुःषु च ।पुनश्च लक्षणन्त्वेषां वक्ष्यते शृणु साम्प्रतम् ।अतिस्वेदातिघर्म्मेण चिन्ताशोषभयादिना ॥
वाताद्यैः सेवितैश्चापि जायते मारुतक्षयः ।तेन तन्द्राङ्गदाहश्च पिपासारुचिवेपथुः ॥
तमः क्लमो भ्रमश्चैव भवेच्च मारुतक्षये ।तस्मादिमानि सेव्यानि रसानि पललानि च ॥
रसोनादिककल्कञ्च सेवयेद्वातवर्द्धनम् ।पित्तक्षयेऽग्निमान्द्यञ्च जायतेऽरुचिजाड्यता ॥
कासहृल्लासशोफश्च जायते मन्दचेष्टता ।स्वेदाभ्यङ्गान्नि पानानि दीपनानि प्रयोजयेत् ॥
जाङ्गलानि रसान्नानि सेवयेत् पित्तकृत्क्षये ।व्यायामे च व्यवाये च रूक्षानाहारसेवनैः ॥
सन्तापक्रोधनैश्चापि जायते कफसंक्षयः ।तेनदाहोऽथवा पाण्डुः शोषो निःश्वसनं भ्रमः ॥
विनिद्रता क्षुत् तृष्णा च स्त्रीसङ्गे नाभिनन्दति ।तस्य शीतान्नपानानि कन्दशाकादिकैरसैः ॥
आनूपैर्दधिदुग्धैर्वा सेवनं न समीहितम् ।त्रिभिर्दोषैः क्षयं प्राप्तैस्तदा हि मरणं ध्रुवम् ॥
तस्य क्रिया प्रयोक्तव्या साधारण्या महामते ! ॥
अथ धातुः क्षयं वक्ष्ये हारीत ! शृणु साम्प्रतम् ।रसरक्तमांसमेदः प्रत्येकं क्षयलक्षणम् ॥
रसक्षयेऽतिशोषश्च मम्दाग्नित्वञ्च वेपथुः ।शिरोरुक् मन्दचेष्टत्वं जायते च क्लमो भ्रमः ॥
रक्तक्षये क्षयः पाण्डु र्मम्दचेष्टो भवेन्नरः ।श्वासनिष्ठीवनं शोषो मन्दाग्नित्वञ्च जायते ॥
मांसक्षयेऽतिकृशता चेष्टनञ्चाङ्गभङ्गता ।निद्रानाशोऽतिनिद्रास्य विसंज्ञो लघुविक्रमः ॥
मेदः क्षये मन्दबलो विसंज्ञताचाङ्गस्य भङ्गो वमनं परूषता ।श्वासाभिकासोऽरुचिताग्निमन्दताविशेषकम्पो वपुषश्च शुष्कता ॥
अस्थिक्षये स्यात् अतिमन्दचेष्टताभन्दञ्च वीर्य्यं खलु मेदसः क्षये ।विसंज्ञता स्यात् कृशता च कम्पनंअङ्गस्य भङ्गो वमनं परूषता ॥
शोषश्च देहे सदनञ्च शोफिताविकम्पनं शोषरुजा च जायते ।भिषग्वरस्तत् परिवेदलक्षणंमज्जक्षये कम्पनमेव जायते ॥
भ्रमः क्लमः स्यादतिमन्दचेष्टःशोफो निशाजागरणञ्च तन्त्रा ॥
मन्दज्वरः शोषसमो मनुष्येशुक्रक्षये चाल्प विचेष्टितानि ।रूक्षं भ्रमः कम्पनशोषरोधःस्त्रीद्वेषितादीनि विरूपता च ॥
इदानीं संप्रवक्ष्यामि भेषजानि यथाक्रमम् ।स्नेहनं रूक्षणञ्चैव तथा विम्लापनं हितम् ।जाङ्गलानि च मांसानि भोजनानि च सेवयेत् ॥
गुडूची शृङ्गवेरञ्च यवानी क्वथितं जलम् ।मरिचैः क्वथितं दुग्धं पाने रात्रौ प्रशस्यते ॥
रसानां तेन वृद्धिः स्यात् शीघ्रं तस्माद्विमुच्यते ॥
रसानां वृद्धिकरणं गोधूमयवशालिभिः ।क्वथितानि भिषक् श्रेष्टैर्जाङ्गलानि विशेषतः ॥
घृतदुग्धसिताक्षौद्रमरिचानि च पिप्पली ।पानं शस्तं मनुष्याणां रक्तवृद्धिकरं मतम्” ॥
इति रसरक्तवृद्धिकरम् ॥
* ॥
“आनूपानि च धान्यानि लघुनामानि कल्पयेत् ।कल्यांश्च घृतदुग्धादीन् सेवयेन्मधुराणि च ॥
रसाश्च जाङ्गलानि स्युः सेवनार्थे भिषग्वर ! ।सितोपलादिकं चूर्णं अजाक्षीरं सकोलकम् ॥
हितं पानं क्षये चैव कल्पमप्रातराशने” ।इति मांसमेदोवृद्धिकरम् ॥
* ॥
“घृतानि च मुपक्वानि क्षीराणि विविधानि च ।चन्दनानि च द्राक्षादि-चूर्णानि च भिषग्वर ! ॥
जाङ्गलानि च सर्व्वाणि सेवनीयानि पुत्त्रक ! ।अम्लानि मधुराणीह सर्व्वाणि च प्रयोजयेत्” ॥
इत्यस्थिवृद्धिकरणम् ॥
* ॥
“शुक्रक्षये प्रपाकानि रसानि च विशेषतः ।नवनीतं तथा क्षीरं मधुराणि च सेवयेत् ॥
कर्क्कटी मूलपयसा विदारी कन्दशाल्मली ।सिताढ्यञ्च हितं पानं शस्यन्ते भधुराणि च” ॥
इति शुक्रक्षयवृद्धिकरणम् ॥
* ॥
“बला विदारी लघुपञ्चमूलीक्षीरद्रुमत्वक् च ततः प्रयोज्या ।पुनर्नवा मेघतुगारजन्यःसञ्जीवनीयैर्मधुकैः समांशैः ॥
अक्षप्रमाणानि समानि तानिसर्व्वाणि चैतान्यपि चूर्णयित्वा ।विमिश्रयेत् तत्र कणाशतानियवान्नगोधूमयवांश्च पिष्ट्वा ॥
तुगासमांशा सिततण्डुलानांपेयं तु शृङ्गाटकमिश्रितञ्च ।प्रकीर्णकार्द्धेन वियोजनीयंसर्व्वांशकेनापि सिता प्रयोज्या ॥
विभावयेच्चामलकीरसेनवारत्रयं गोपयसा विभाव्य ।ततोऽस्य सर्व्वैः सह शर्कराभिर्धृतेन चैवं पुनरेव भाव्यम् ।तं भक्षयेत् क्षौद्रयुतं पलार्द्धजीर्णे च भोज्यं कटुकाम्लवर्ज्ज्यम् ॥
क्षीरं घृतं वा सितशर्करां वायवान्नगोधूमकशालिभक्षान् ।ज्ञात्वाग्निपाकं जठरे नरस्यदेयो विधिज्ञैः क्षयरोगशान्त्यै ।पथ्यक्षये श्रान्तचिरामिताप-संपीडितानाञ्च तथाशिरोऽर्त्तौ ॥
“पित्तातुराणां रुधिरक्षयाणांश्रमाध्वसंपीडितकामलानाम् ।श्वासातुराणां मधुमेहिनाञ्चक्षीणेन्द्रियाणां बलकारिशस्तम्” ॥
इति बालादि बूर्णम् ॥
* ॥
“पिप्पली वर्द्धमानन्तु ज्वरे जीर्णे प्रशस्यते ।मन्दाग्नौ पीतमेवाथ गुदजे वा तथा पुनः” ॥
इति पिप्पलीवर्द्धमानम् ॥
* ॥
“द्वे पले मार्कवं धातु साक्षकञ्च पुनर्नवा ।तुगा पृक्का शालिपर्णी वासकञ्च दुरालभा ॥
चूर्णार्द्धेन समं योज्यं त्रिगन्धं मरिचानि च ।तालीशं मगधा चैव तदर्द्धेन शिलोद्भवम् ॥
शिलाभेदन्तदर्द्धेन सर्व्वञ्चैकत्र मिश्रयेत् ।समेन तिलचूर्णन्तु शर्कराभिः समायुतम् ॥
तेन क्षयो राजयक्ष्मा कामला च विनश्यति ।अपस्मारं जयत्याशु बलवीर्य्याधिको भवेत् ॥
शाम्यन्ति च महारोगाः शुक्राढ्यो जायते नरः” ॥
इति शिलाजतुचूर्णम् ॥
* ॥
“बलाश्वद्दंष्ट्रा वृहतीद्वयञ्चपर्णोद्वयं गोक्षुरकं स्थिरा च ।पटोलनिम्बस्य दलानि मुस्तम्सत्रायमाणा सदुरालभा च ॥
कृत्वा कषायञ्च पदावशेषंपूते ततश्चूर्णमिदं प्रयुञ्ज्यात् ।द्राक्षा शठी पुष्करमूलधात्रीदुग्धं समं तामलकीकषायम् ॥
सर्पिः प्रयक्तं नवनीतकञ्चसर्पिस्तदर्द्धेन वियोजनीयम् ।सिद्धं घृतं पानमथैव वस्तौनस्ये तथाभ्यञ्जनभोजने च ॥
स पाण्डुकाशक्षयकापलानाम्राजक्षये क्षीणवलेन्द्रियाणाम् ।क्षतेषु शोफेषु व्रणेषु शस्तंशिरोऽर्त्तिपार्श्वार्त्तिगुदामयघ्नम्” ॥
इति बलाद्यं घृतम् ॥
* ॥
“चन्दनं सरलं दारु पक्षैला बालकं शठी ।नलशैलेयकं पृक्का पद्मकं नागकेशरम् ॥
कक्कोलकं सुरामांसी शैलेयं द्वे हरीतकी ।रेणुकात्वक् कुङ्कुमञ्च शारिवे द्वे निशागुरु ॥
वला द्राक्षा च नलिका कषायं सुपरिस्रुतम् ।तैलमस्तु तथा लाक्षा रसेन समभागिकम् ॥
मन्दाग्निना पचेत्तैलं सिद्धं पाने च वस्तिषु ।नस्ये चाभ्यञ्जने चैव योजयेत्तद्भिषग्वरः ॥
हन्ति पाण्डु क्षयं कासं ग्रहघ्नं बलवर्णकृत् ।मन्दज्वरमपस्मारकुष्ठपाम हरेत् पुनः ।करोति बलपुष्ट्योजःप्रज्ञायुर्बलवर्द्धनम् ॥
रूपसौभाग्यदं पुण्यं सर्व्वभूतयशस्करम्” ॥
इति चन्दनाद्यं तैलम् ॥
इति क्षयरोगचिकित्सा ॥
इति हारीते चिकि-त्सितस्थाने दशमेऽध्याये ॥
* ॥
“त्रिकटु त्रिफलैलाभिर्जातीफललवङ्गकैः ।नवभागोन्मितं तुल्यं लौहं पारदसिन्दुरम् ।मधुना क्षयरोगाणां हन्तायं क्षयकेशरी” ॥
इति क्षयकेशरी रसः ॥
इति वैद्यकरसेन्द्रसारसंग्रहे यक्ष्माधिकारे ॥
* ॥
)अस्य अन्यत् निदानादि यक्ष्मशब्दे द्रष्टव्यम् ।तस्यौषधान्तरं यथा, --“श्वेतकोकिलाक्षमूलं छागीक्षीरेण संयुतम् ।त्रिसप्ताहेन वै पीतं क्षयरोगं क्षयं नयेत्” ॥
इति गारुडे १९३ अध्यायः ॥
(क्षयत्यस्मादनेन वाक्षि + क्षये + अप् । क्षयति विनाशयति इति ।अन्तर्भूतणिच् ततोऽच् ।) रोगमात्रम् । इतिराजनिर्घण्टः ॥
कृदन्तरूपमाला
Sanskrit1 {@“क्षि क्षये”@} 2 ‘क्षये क्षयति, हिंसायां क्षिणातीति षितो भवेत्।।
निवासगत्योः क्षियति, क्षिणोत्यावगुणे क्षिणोः।’ 3 इति देवः।
‘औ = उविकरणे अगुणे = ‘संज्ञापूर्वको विधिरनित्यः’ 4 इति गुणाभावे च सति, ‘क्षणु हिंसायाम्, क्षिणु च’ इति मैत्रेयरक्षिता- द्युक्तस्य धातोः क्षिणोतीति भवति।’ इति पुरुषकारे कृष्णलीलाशुकमुनिः।
5 6 क्षायकः-यिका, 7 क्षायकः-यिका, 8 चिक्षीषकः-षिका, 9 चेक्षीयकः-यिका
10 क्षेता-त्री, क्षाययिता-त्री, चिक्षीषिता-त्री, चेक्षीयिता-त्री
11 क्षयन्-न्ती, क्षाययन्-न्ती, चिक्षीषन्-न्ती
-- क्षेष्यन्-न्ती-ती, क्षाययिष्यन्-न्ती-ती, चिक्षीषिष्यन्-न्ती-ती
-- -- क्षाययमाणः, क्षाययिष्यमाणः, -- चेक्षीयमाणः, चेक्षीयिष्यमाणः
12 प्रक्षित्-प्रक्षितौ-प्रक्षितः, 13 महीक्षित्
-- -- 14 क्षितम्-क्षितः-क्षितवान्, 15 क्षीणः- 16 क्षीणवान्, 17 प्रक्षीणः-आक्षीणः
परिक्षीणः, 18 क्षितायुः-क्षीणायुः 19, क्षीणः क्षितो वा 20, क्षायितम्-तः, चिक्षीषितः, चेक्षीयितः-तवान्
21 22 क्षयः, 23 क्षयी, 24 क्षयिष्णुः, क्षायः, चिक्षीषुः, 25 चेक्षियः
क्षेतव्यम्, क्षाययितव्यम्, चिक्षीषितव्यम्, चेक्षीयितव्यम्
क्षयणीयम्, क्षायणीयम्, चिक्षीषणीयम्, चेक्षीयणीयम्
26 क्षय्यम्-क्षेयम्, क्षाय्यम्, चिक्षीष्यम्, चेक्षीय्यम्
ईषत्क्षयः-दुःक्षयः-सुक्षयः
-- -- -- 27 क्षीयमाणः, क्षाय्यमाणः, चिक्षीष्यमाणः, चेक्षीय्यमाणः
क्षयः, क्षायः, चिक्षीषः, चेक्षीयः
क्षेतुम्, क्षाययितुम्, चिक्षीषितुम्, चेक्षीयितुम्
28 क्षिया, क्षायणा, चिक्षीषा, चेक्षीया
क्षयणम्, क्षायणम्, चिक्षीषणम्, चेक्षीयणम्
क्षित्वा, क्षाययित्वा, चिक्षीषित्वा, चेक्षीयित्वा
29 प्रक्षीय, प्रक्षाय्य, प्रचिक्षीष्य, प्रचेक्षीय्य
क्षायम् २, क्षित्वा २, क्षायम् २, क्षाययित्वा २, चिक्षीषम् २, चिक्षीषित्वा २, चेक्षीयम्
चेक्षीयित्वा।
01 (३०२)
02 (१-भ्वादिः-२३६। अक। अनि। पर।)
03 (श्लो। १२-१३)
04 (परिभाषा-९५)
05 [पृष्ठम्०३१६+ २४]
06 [[१। ‘अचो ञ्णिति’ (७-२-११५) इतीकारस्य वृद्धौ, आयादेशः।]]
07 [[२। ण्यन्ताण्ण्वुलि णिनिमित्तकवृद्धौ सत्यां, ‘णेरनिटि’ (६-४-५१) इति णिलोपे आयादेशे च रूपम्। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
08 [[३। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। ‘इको झल्’ (१-२-९) इति सनः कित्त्वम्। तेन गुणो न। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
09 [[४। यङन्तात्, ‘अकृतत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः। ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासस्य गुणः।]]
10 [[५। अस्य धातोरनुदात्तत्वादिडागमो न भवति। एवं स्यादिप्रत्ययेष्वपि बोध्यम्।]]
11 [[६। ‘कर्तरि शप्’ (३-१-६८) इति शप्प्रत्यये गुणायादेशौ भवतः।]]
12 [[७। क्विपि, ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्।]]
13 [[८। क्षीरस्वामी भ्वादावेवान्यत्र ‘क्षि ऐश्वर्ये’ इति पठति। तन्मते मह्यां क्षयति = ईष्टे इति महीक्षित् = राजा इति शब्दनिष्पत्तिर्ज्ञेया।]]
14 [[९। ‘निष्ठायामण्यदर्थे’ (६-४-६०) इत्यत्र ‘अण्यदर्थे’ इत्युक्तत्वात् भावकर्मवाचिनि निष्ठाप्रत्यये दीर्घो न भवति।]]
15 [[१०। कर्तरि निष्ठायाम्, ‘निष्ठायामण्यदर्थे’ (६-४-६०) इति दीर्घे, ‘क्षियो दीर्घात्’ (८-२-४६) इति निष्ठानत्वे, ‘अट्कुप्वाङ्नुम्--’ (८-४-२) इति णत्वे च रूपम्।]]
16 [[आ। ‘विस्फूर्जदक्षीणघनाघनोपमक्षीजा लजन्तस्त्रिदशानलाञ्जितान्। लाजादिहोतृष्वपि लञ्जनप्रदा यस्मिन् विनेशुर्जजनेषु दानवाः।।’ धा। का। १-३२।]]
17 [[११। ‘आदिकर्मणि क्तः कर्तरि च’ (३-४-७१) इति कर्तरि क्तः।]]
18 [[१२। ‘वाऽऽक्रोशदैन्ययोः’ (६-४-६१) इति दीर्घविकल्पः। दीर्घपक्षे निष्ठानत्वम्। दीर्घाभावे निष्ठानत्वाभावः।]]
19 [वा भव]
20 [तपस्वी]
21 [पृष्ठम्०३१७+ २४]
22 [[आ। ‘भयसंहृष्टरोमाणः ततस्तेऽपचितद्विषः। क्षणेन क्षीणविकान्ताः कपिनाऽनेषत क्षयम्।।’ भ। का। ९-२२।]]
23 [[१। ‘जिदृक्षिविश्रीण्--’ (३-२-१५७) इत्यादिना तच्छीलादिषु कर्तृषु इनिः।]]
24 [[२। ‘भुवश्च’ (३-२-१३८) इत्यत्र, अनुक्तसमुच्चयार्थकचकारेणास्यापि इष्णुच् ताच्छीलिकः।]]
25 [[३। यङन्तात् पचाद्यचि (३-१-१३४), ‘यङोऽचि च’ (२-४-७४) इति लुकि, इकारस्य संयोगपूर्वकत्वात् ‘अचि श्नुधातु--’ (६-४-७७) इत्यनेन इयङ्।]]
26 [[४। ‘क्षय्यजय्यौ शक्यार्थे’ (६-१-८१) इत्यनेन यति अयादेशो निपात्यते। शक्या- र्थादन्यत्र यति, गुणे क्षेयम् इत्येव। क्षेयम् = पापम्।]]
27 [[५। यकि, ‘अकृत्सार्वधातुकयोः’ (७-४-२५) इति दीर्घः।]]
28 [[६। भिदादिपाठात् ‘षिद् भिदादिभ्यः--’ (३-३-१०४) इत्यङ्। इयङादेशः।]]
29 [[७। ‘क्षियः’ (६-४-५९) इति ल्यपि दीर्घः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
