| YouTube Channel

क्षम्यमाणः (kSamyamANaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“क्षमू सहने”@} 2 ‘अषितः क्षाम्यति, क्षान्तिः क्षमूषः क्षमते क्षमा’।
3 इति देवः।
अषित्।
शमादिः।
मित्।
4 क्षमकः-मिका, 5 क्षमकः-मिका, 6 चिक्षमिषकः-षिका, चिक्षंसकः-सिका, चङ्क्षमकः-मिका
7 8 क्षमिता-क्षन्ता-त्री, क्षमयिता-त्री, चिक्षमिषिता-चिक्षंसिता-त्री, चङ्क्षमिता-त्री
9 क्षाम्यन्-न्ती, क्षमयन्-न्ती, चिक्षमिषन्-चिक्षंसन्-न्ती
-- क्षमिष्यन्-क्षंस्यन्-न्ती-ती, क्षमयिष्यन्-न्ती-ती, चिक्षमिषिष्यन्-न्ती-ती, चिक्षंसिष्यन्-न्ती-ती
10 व्यतिक्षाम्यमाणः, क्षमयमाणः, -- चङ्क्षम्यमाणः
व्यतिक्षमिष्यमाणः- व्यतिक्षंस्यमानः, क्षमयिष्यमाणः, चङ्क्षमिष्यमाणः
11 विक्षान्-विक्षामौ-विक्षामः
-- -- 12 13 क्षान्तम्-न्तः-क्षान्तवान्, क्षमितः, चिक्षमिषितः-चिक्षंसितः, चङ्क्षमितः-तवान्
क्षमः, 14 क्षमी, 15 द्बन्द्वक्षमा, क्षमः, चिक्षमिषुः-चिक्षंसुः, चङ्क्षमः
क्षमितव्यम्-क्षन्तव्यम्, क्षमयितव्यम्, चिक्षमिषितव्यम्-चिक्षंसितव्यम्, चङ्क्षमितव्यम्
क्षमणीयम्, क्षमणीयम्, चिक्षमिषणीयम्-चिक्षंसनीयम्, चङ्क्षमणीयम्
16 क्षम्यम् 17, क्षम्यम्, चिक्षमिष्यम्-चिक्षंस्यम्, चङ्क्षम्यम्
ईषत्क्षमः-दुःक्षमः-सुक्षमः
-- -- -- क्षम्यमाणः, क्षम्यमाणः, चिक्षमिष्यमाणः-चिक्षंस्यमानः, चङ्क्षम्यमाणः
18 क्षमः, क्षमः, चिक्षमिषः-चिक्षंसः, चङ्क्षमः
क्षमितुम्-क्षन्तुम्, क्षमयितुम्, चिक्षमिषितुम्-चिक्षंसितुम्, चङ्क्षमितुम्
19 क्षान्तिः, क्षमणा, चिक्षमिषा-चिक्षंसा, चङ्क्षमा
क्षमणम्, क्षमणम्, चिक्षमिषणम्-चिक्षंसनम्, चङ्क्षमणम्
क्षमित्वा-क्षान्त्वा, क्षमयित्वा, चिक्षमिषित्वा-चिक्षंसित्वा, चङ्क्षमित्वा
प्रक्षम्य, 20 प्रक्षमय्य, प्रचिक्षमिष्य-प्रचिक्षंस्य, प्रचङ्क्षम्य
क्षमम् २, क्षमित्वा-क्षान्त्वा २, 21 क्षमम्-क्षामम् २, क्षमयित्वा २, चिक्षमिषम् -चिक्षंसम् २, चिक्षमिषित्वा- २, चिक्षंसित्वा २, चङ्क्षमम्
चङ्क्षमित्वा २। 22
प्रासङ्गिक्यः
01
=>
(२९८)
02
=>
(४-दिवादिः-१२०६। सक। वेट्। पर।)
03
=>
(श्लो-१४६)
04
=>
[[१। ‘नोदात्तोपदेशस्य मान्तस्यानाचमेः’ (७-३-३४) इति वृद्धिनिषेधः।]]
05
=>
[[२। ‘अत उपधायाः’ (७-२-११६) इति णौ वृद्धिः। तस्य ‘मितां--’ (६-४-९२) इति ह्रस्वः। ‘जनीजॄष्--’ (गणसूत्रं भ्वादौ) इत्यनेन अमन्तत्वेन मित्त्वम्।]]
06
=>
[[३। ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इति वा इट्।]]
07
=>
[[४। ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इत्यभ्यासस्य नुक्।]]
08
=>
[[५। ऊदित्त्वात् इड्विकल्पः। एवं तव्यदादिषु ज्ञेयम्।]]
09
=>
[[६। ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन्। ‘शमामष्टानां दीर्घः श्यनि’ (७-३-७४) इति दीर्घः।]]
10
=>
[[७। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इत्यात्मनेपदे शानच्। ‘अट्कुप्वाङ्नुम्व्य- बायेऽपि’ (८-४-२) इति णत्वम्।]]
11
=>
[[८। ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६-४-१५) इति दीर्घः। ‘मो नो धातोः’ (८-२-६४) इति नकारः। ‘पदान्तस्य’ (८-४-३७) इति णत्वनिषेधः।]]
12
=>
[पृष्ठम्०३१२+ २२]
13
=>
[[१। ऊदित्त्वेन वैकल्पिकेट्त्वात् ‘यस्य विभाषा’ (७-२-१५) इति निष्ठाया इण्णिषेधः। दीर्घः।]]
14
=>
[[२। ‘शमित्यष्टाभ्यो घिनुण्’ (३-२-१४१) इति ताच्छीलिको घिनुण्।]]
15
=>
[[३। ‘ईक्षिक्षमिभ्यां च’ (वा। ३-२-१) इति कर्मण्युपपदे णः। स्त्रियां टाप्। ‘स्तुतिशीला हरिकामा फलभक्षा कानने व्रताचारा। तदनुप्रहप्रतीक्षा वसति द्वन्द्वक्षमा मुनिश्रेणी।।’ इति प्र। सर्वस्वे।]]
16
=>
[[४। ‘पोरदुपधात्’ (३-१-९८) इति यत्।]]
17
=>
[[आ। ‘अवरिष्टाक्षमक्षम्यं कपिं हन्तुं दशाननः।।’ भ। का। ९-२६।]]
18
=>
[[B। ‘यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च।’ कुमारसंभवे १-१७।]]
19
=>
[[५। ‘तितुत्र--’ (७-२-९) इत्यादिना इण्णिषेधः। दीर्घः।]]
20
=>
[[६। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
21
=>
[[७। ण्यन्ताण्णमुलि ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-१-९३) इति दीर्घो वा।]]
22
=>
[पृष्ठम्०३१३+ २४]