| YouTube Channel

क्षमूष् (kSamUS)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
क्षम्
मूलधातुः:
क्षमूष्
धात्वर्थः:
सहने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
वेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
क्षमते
कृदन्तरूपमाला
Sanskrit
1 {@“क्षमूष् सहने”@} 2 ‘अषितः क्षाम्यति क्षान्तिः, क्षमूषः क्षमते क्षमा।’ 3 इति देवः।
क्षमकः-मिका, क्षमकः-मिका, चिक्षमिषकः-षिका, चिक्षंसकः-सिका, चङ्क्षमकः-मिका
अित्यादीनि सर्वाण्यपि रूपाणि पूर्वलिखितक्षमूधातुवत् 4 ज्ञेयानि।
षित्त्वादस्य धातोः ‘षिद्भिदादिभ्यः-’ 5 इत्यङ् स्त्रियाम्- 6 क्षमा।
अस्यात्मनेपदित्वात् 7 क्षममाणः, क्षमिष्यमाणः, क्षंस्यमानः, क्षमयमाणः, चिक्षमिषमाणः-चिक्षंसमाणः, चिक्षमिषिष्यमाणः, चिक्षंसिष्यमाणः, चङ्क्षम्य- माणः, चङ्क्षमिष्यमाणः इत्यादीनि रूपाणि शानचीति, विशेषः।
‘क्षन्तिः’ इति क्तिचि, ‘न क्तिचि दीर्घश्च’ 8 इति दीर्घनिषेधात्।
अमन्तत्वेन ण्यन्ते मित्त्वम्।
तेन क्षमं -क्षामम् २, इति रूपद्वयम्।
‘चिण्णमुलोः--’ इति 9 दीर्घविकल्पः।
प्रासङ्गिक्यः
01
=>
(२९९)
02
=>
(१-भ्वादिः-४४२। सक। सेट्। आत्म।)
03
=>
(श्लो। १४६)
04
=>
(२९८)
05
=>
(३-३-१०४)
06
=>
[[आ। ‘ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः।’ रघुवंशे--१-२२। ‘पणाय्यरूपाः पनिताकृतीन् ययुः भामिन्य एवाक्षमया स्वकामुकान्।।’ धा। का। १-५७।]]
07
=>
[[१। भौवादिकत्वाद्धातोः ‘कर्तरि शप्’ (३-१-६८) इति शप्।]]
08
=>
(६-४-३९)
09
=>
(६-३-९३)