| YouTube Channel

क्षमूँष् (kSamU~S)

 
धातुप्रदीपः
Sanskrit
क्षमूष् सहने
- क्षमते चक्षते क्षमिता क्षन्ता क्षमा क्षान्तः क्षान्तवान् क्षाम्यतीति दिवादिपाठात् ।। 442 ।।
क्षीरतरङ्गिणी
Sanskrit
क्षमूष् सहने
- क्षमते क्षन्ता, क्षमिता क्षान्तः क्षमा दिवादौ (499) क्षाम्यति क्षान्तिः 429
क्षमूष् सहने
- क्षाम्यति अक्षमत् क्षन्ता क्षमिता (द्र0 7244) क्षान्त्वा क्षमित्वा भ्वादौ (1299) क्षमते, अक्षमिष्ट षित्त्वात् (द्र0 33104) क्षमा बाहुलकात् क्षान्तिः अत एव क्षमू सहन इति सभ्याः 94
धातुवृत्तिः
Sanskrit
क्षमूष् (अर्थः) सहने
( क्षमते चक्षमे चक्षमिषे चक्षंसे चक्षमिध्वे चक्षन्ध्वे चक्षमिवहे चक्षण्वहे चक्षमिमहे चक्षण्महे ) ऊदित्त्वात्सर्वत्र वलाद्यार्द्धधातुक इड्विकल्वः अनिट्पक्षे "म्वोश्च'' इति नत्वे "रषाभ्याम्'7 इति णत्वं, ( क्षमिष्यते क्षंस्यते क्षमताम् अक्षमत क्षमेत आशिषि क्षमिषीष्ट क्षंसीष्ट अक्षमिष्ट अक्षंस्त अक्षमिष्यत् , अक्षंस्यत् ) कर्मादौ ( क्षम्यते अक्षमि ) ( सूत्रम्) नोदात्तोपदेशस्य मान्तस्यानाचमः (इति सूत्रम्) इति चिणि ञ्णिति कृति वृद्धिनिषेधः ( चिक्षमिषते चिक्षंसते चङ्क्षम्यते चङ्क्षन्ति) "नुगतः'' इत्यभ्यासस्य नुक् लुङि "ह्नन्त'' इति वृद्धिनिषेधात् ( अचङक्षमीत् क्षमयति अचिक्षमत् ) "जनीनॄष्क्नसुरञ्जोमन्ताश्च'' इति अमतन्तत्वलक्षणे मित्त्वे "मितां ह्रस्वः'' इत्युपधाया ह्रस्वः (क्षमित्वा क्षान्त्वा ) "यस्य विभाषा''इत्यनिट्त्त्वम् ( क्षमः ) घञ् ( क्षमकः ) ण्वुल् ( अपराधक्षमः अपराधक्षमा ) "ईक्षिक्षमिभ्यां च'' इतृयणोपवादो णः अणि हि ङीप्स्यात् ( क्षमा ) "षिद्भिदादिभ्योङ्'' इति षित्त्वात् स्त्रियामङ् , ण्यन्तस्यास्य "चिण्णमुलोर्दीर्घोन्यतरस्याम्'' इति चिण्णमुल्परे णौ मितामुपधाया दीर्घविकल्पनात् (अक्षमि अक्षामि क्षर्मक्षमम् क्षामंक्षामम् ) इति भवति "आभीक्ष्ण्ये णमुल्'' चकारः क्त्वासमुच्चयार्थः "आभीक्ष्ण्ये द्वे भवत'' इति द्विर्वचनम् पौपःपुन्यमाभीक्ष्ण्यम् स्यादिष्वपि दीर्घविकल्पः चिण्वदिट्पक्षे भवति (क्षामिष्यते क्षमिष्यते अक्षामिषाताम् अक्षमिशाताम् क्षामिषीष्ट क्षामिता क्षमितेत्यादि ) चिण्वदिटोभावे ( क्षमयिष्यते अक्षमिषाताम् क्षमयिषीष्ट क्षमयितेति) लुङ्येकवचने चिण्परो णिरिति पक्षे दीर्घो भवति (अक्षमि, अक्षामीति ) यङ्लुगान्तादपि चिष्णमुलोश्चिण्वदिटि अयंदीर्घविकल्पो द्रष्टव्यः (अचङ्खमि अचङ्क्षमि चङ्क्षामं चङ्क्षमं चङ्क्षम् चङ्क्षामिष्ते चङ्क्षमिष्यते ) इत्यादि अत्राप्यचिण्वत्पक्षे ( चङ्क्षमिष्यते ) इत्यादि अत्र "चिण्णमुलोरन्यतरस्याम्'' इति ह्रस्वविकल्लेनापि सिद्धे दीर्घग्रहणं ण्यन्ताद्यङन्ताच्च णौ चिण्णमुल्परेदीर्घार्थम्, अक्रियमाणेस्मिन् णिलोपाल्लोपयोः परनिमित्तयोः पूर्वस्य हस्व्विकल्पे कर्त्तव्ये स्थानिवत्त्वान्न चिण्णमुल्परे णौ यदङ्गमनन्तरमित्यसौ स्यात्, क्रियमाणे तु दीर्घविधिं प्रति स्थानिवदिति स्थानिवत्त्वं निषिद्धते एवमपि दीर्घे कर्तव्ये ण्यल्लोपयोः "सिद्ध'' इत्यसिद्धत्वात् व्यवधानं दुर्वारम् नैतत् व्याश्रयत्वेनासिद्धत्वाभावात्, तथा वामनः णौ हि णियङोर्लोपः, चिण्णमुल्परे णावङ्गस्येति दीर्घंत्वमिति अयमपि दिवादौ 438