क्षत्त्रियः (kSattriyaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritक्षत्त्रियः, (क्षत्त्रे राष्ट्रे साधुः । क्षत्त्रस्यापत्यं वा ।“क्षत्राद् घः” । ४ । १ । १३८ । इति जातौ घः ।)क्षदति रक्षति जनान् क्षत्त्रः । क्षद संवृतौ सौत्रःततस्त्रासुसिति त्रः । क्षतात् त्रायते इति डेमनीषादित्वात् क्षतान्त्याकारलोपे वा क्षत्त्रः ।क्षत्त्रो द्वितकारः । पुंनपुंसकयोः क्षत्त्रः ।पतिर्म्मम क्षत्त्रमशेषभूभृत् प्रमाभिरामो भर-तश्च जिष्णुरिति राघवपाण्डवीये । क्षत्त्र एवक्षत्त्रियः स्वार्थे इयः । अपत्यार्थे इय इत्यन्ये ।इति भरतः ॥
* ॥
ब्रह्मबाहुजवर्णविशेषः । क्षत्त्री इति भाषा ।(यथा, मनुः । १ । ३१ ।“लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः ।ब्राह्मणं क्षत्त्रियं वैश्यं शूद्रञ्च निरवर्त्तयत्” ॥
)तत्पर्य्यायः । मूर्द्धाभिषिक्तः २ राजन्यः ३ बाहुजः ४विराट् ५ । इत्यमरः । २ । ८ । १ ॥
क्षत्त्रः ६ द्विजलिङ्गी७ राजा ८ नाभिः ९ । इति जटाधरः ॥
नृपः १०मूर्द्धकः ११ । इति शब्दरत्नावली ॥
पार्थिवः १२सार्व्वमौमः १३ । इति राजनिर्घण्टः । ते चसूर्य्यचन्द्रवंशीयराजानः कलेः सहस्रवर्षपर्य्यन्तंआसन् ततः महानन्दिसुतो नन्दः शूद्रायां समु-त्पन्नः शतवर्षं राज्यं चकार तदन्ते चाणक्यनामाब्राह्मणो नन्दं तत्पुत्त्रांश्च हत्वा मुरुवंशजं चन्द्रगुप्तंराजानं कृतबान् कलौ नन्दान्तक्षत्त्रियवंशः ।इति श्रीभागवते १२ स्कन्धे १ अध्यायात् संगृ-हीतम् ॥
* ॥
प्लक्षद्वीपे क्षत्त्रियस्य नाम पतङ्गः ।शाल्मलद्वीपे वीर्य्यधरः । कुशद्बोपे कोविदः ।क्रौञ्चद्वीपे ऋषभः । शाकद्वीपे सत्यव्रतः पुष्करद्वीपेसर्व्वे एकवर्णाः ॥
अस्य शास्त्रनिरूपितधर्म्मास्त्रयः ।अध्ययनं यजनं दानञ्च । प्रजारक्षणं जीविका ।अस्याश्रमास्त्रयः । गार्हस्थ्यं ब्रह्मचर्य्यं वानप्रस्थञ्च ।इति तत्रैव २० अध्यायादितः संगृहीतम् ॥
* ॥
तल्लक्षणं यथा, --“क्षत्त्रजं सेवते कर्म्म वेदाध्ययनसंयुतः ।दानादानवहिर्यस्तु स वै क्षत्त्रिय उच्यते” ॥
तस्य धर्म्मो यथा, --नारद उवाच ।“क्षत्त्रियस्यापि यो धम्मस्तं ते वक्ष्यामि पार्थिव ! ।दद्याद्राजा न याचेत यजेत न च याजयेत् ॥
नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् ।नित्योद्युक्तो दस्युवधे रणे कुर्य्यात् पराक्रमम् ॥
ये तु क्रतुभिरीजानाः श्रुतवन्तश्च पार्थिवाः ।ये तु युद्धे विजेतारस्ते तु लोकजितो नृपाः ॥
अविक्षतशरीरो हि संगराद्यो निवर्त्तते ।क्षत्त्रियस्य तु तत् कर्म्म नोभयत्र यशःप्रदम् ॥
क्षत्त्रियाणामयं धर्म्मो निर्णीतो मुनिभिः परः ।नास्य कृत्यतमं किञ्चिद्राज्ञो दस्युविनिग्रहात् ॥
दानमध्ययनं यज्ञो राज्ञां क्षेमोऽभिधीयते ।तस्माद्राज्ञा महाराज ! योद्धव्यं धर्म्मशीलिना ॥
प्रजाः स्वेषु च धर्म्मेषु स्थापयेत महीपतिः ।धर्म्म्याण्येव हि कर्म्माणि कारयेत् सततं प्रजाः ॥
परमां सिद्धिमाप्नोति नृपतिः परिपालनात् ।कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो राजन्य उच्यते” ॥
इति पाद्मे स्वर्गखण्डे २६ अध्यायः ॥
* ॥
अपि च ।“राजन्यानां करादानं विना तैवाहिकञ्च यः ।प्रतिग्रहः स निन्द्योऽत्रं परत्र चासुखप्रदः ॥
युद्धे पलायनञ्चैव तथा कातरतार्थिषु ।अपालनं प्रजानाञ्च दाने धर्म्मे विरक्तता ॥
अनवेक्षा स्वराष्ट्रस्य ब्राह्मणानामनादरः ।अमात्यानामसम्मानं तेषां कर्म्मानवेक्षणम् ।भृत्यानाञ्च परीहासो निषिद्धः क्षत्त्रजन्मनाम्” ॥
“राजन्यस्तु महाराज ! यथाश्रममवाप्नुयात् ।तत् शृणुष्व तवाख्यास्ये धर्म्मसंग्रहतत्परः ॥
वेदानधीत्य धर्म्मेण राजशास्त्राणि चानघ ! ।सन्तानादीनि कर्म्माणि कृत्वा सोमं निषेव्य च ॥
पालयित्वा प्रजाः सर्व्वा घर्म्मेण जयताम्बर ! ।राजसूयाश्वमेधादीन् मखानन्यांस्तथैव च ॥
आनयित्वा यथापाठं विप्रेभ्यो दत्तदक्षिणः ।संग्रामे विजवं प्राप्य तथाल्पं यदि वा बहु ॥
स्थापयित्वा प्रजापालं पुत्त्रं राज्ये च पार्थिव ! ।अन्यगोत्रं प्रशस्तं वा क्षत्त्रियं क्षत्त्रियर्षभ ! ॥
अर्च्चयित्वा पितॄन् सम्यक् पितृयज्ञे यथाविधि ।देवान् यज्ञैरृषीन् वेदैरर्च्चयित्वां प्रयत्नतः ॥
अन्तकाले च सम्प्राप्ते य इच्छेदाश्रमान्तरम् ।सोऽनुपूर्व्व्याश्रमान्राजन् गत्वा सिद्धिमवाप्नुयात् ॥
राजर्षित्वेन राजेन्द्र ! भैक्षचर्य्याध्वसेवया ।अपेतगृहधर्म्मोऽपि चरेज्जीवितकाम्यया ॥
न चैतन्नैष्ठिकं कर्म्म त्रयाणां भूरिदक्षिणम् ।चतुर्णां राजशार्दूल ! प्राहुराश्रमवासिनाम् ॥
बाह्वायत्तं क्षत्त्रियैर्मानवानांलोकश्रेष्ठं धर्म्ममासेवमानैः ।सर्व्वे धर्म्माः सोपधर्म्मास्त्रयाणांराज्ञो धर्म्मादिति वेदात् शृणोमि ॥
एवं धर्म्मान्राजधर्म्मेषु सर्व्वान्सर्व्वावस्थं सम्प्रलीनान्निबोध ।अल्पश्रमानल्पफलान् वदन्तिधर्म्मानन्यान् वेदविदो मनुष्याः ॥
महाश्रमं बहुकल्याणरूपंक्षात्त्रं धम्मं नेतरं प्राहुरार्य्याः ।सर्व्वे धर्म्मा राजधर्म्मप्रधानाःसर्व्वे धर्म्माः पाल्यमानाश्चरन्ति ॥
सर्व्वत्यागो राजधर्म्मेषु राजं-स्त्यागं धर्म्मञ्चाहुरग्र्यं पुराणम् ।मज्जेत्त्रयी दण्डनीतौ हतायांसर्व्वे धर्म्माः प्रक्षयेयुर्व्विरुद्धाः ॥
सर्व्वे धर्म्माश्चाश्रमाणां हताः स्युःक्षात्त्रे त्यक्ते राजधर्म्मे पुराणे ।सर्व्वे त्यागा राजधर्म्मेषु चोक्ताःसर्व्वा विद्या राजधर्म्मेषु युक्ताः ॥
सर्व्वे लोका राजधर्म्मे प्रविष्टायथा जीवाः प्राकृतैर्व्वध्यमानाः ।धर्म्मश्रुतानामुपपीडनायएवं धर्म्मा राजधर्म्मैर्विमुक्ताः ॥
सञ्चिन्वन्ते नाद्रियन्ते स्वधर्म्मम् ॥
चातुराश्रम्यधर्म्माश्च यतिधर्म्माश्च पार्थिव ! ।लोकवेदोत्तराश्चैव क्षात्त्रे धर्म्मे समाहिताः ॥
सर्व्वाण्येतानि धर्म्माणि क्षात्त्रे राजन्यसत्तम ! ।अप्रत्यक्षं बहुद्वारं धर्म्ममाश्रमवासिनाम् ।क्षात्त्रेणैव हि धर्म्मेण प्रत्यक्षं क्रियते नृप !” ॥
इति पाद्मे स्वर्गखण्डे २८ अध्यायः ॥
* ॥
अपि च ।“द्विजार्च्चनं क्षत्त्रियाणां तथा नारायणार्च्चनम् ।राज्यानां पालनञ्चैव रणे निर्भयता तथा ॥
नित्यं दानं ब्राह्मणेभ्यः शरणागतरक्षणम् ।पुत्त्रतुल्यं प्रजानाञ्च दुःखिनां परिपालनम् ॥
शस्त्रास्त्राणाञ्च नैपुण्यं रणे सौन्दर्य्यमेव च ।तपश्च धर्म्मकृत्यञ्च यत्नतः कुरुते मुदा ॥
पण्डितं नीतिशास्त्रज्ञं नित्यञ्च परिपालयेत् ।नियोजयेत् सभामध्ये नित्यं सद्भिश्च संयुतः ॥
हस्त्यश्वरथपादातं सेनाङ्गञ्च चतुष्टयम् ।पालयेत् यत्नतो नित्यं यशस्वी च प्रतापवान् ॥
रणे निमन्त्रितश्चैव दाने न विमुखो भवेत् ।रणे यो वा त्यजेत् प्राणान् तस्य स्वर्गोयशस्करः” ॥
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८३ अध्यायः ॥
* ॥
अथ सूर्य्यवंशीय क्षत्त्रियविवरणम् ।परमेश्वरात् ब्रह्मा जातः तस्य पुत्त्रो मरीचिस्तस्यकश्यपस्तस्य सूर्य्यस्तस्य वैवस्वतो मनुः । सत्ययुगेमनुरेव राजासीत् । त्रेतायुगे तस्य पुत्त्र इक्ष्वाकुःअयोध्यायां राजा आसीत् । त्रेतायुगे अतिदीर्घा-युषो राजानो बहुकालं राज्यं कृतवन्तः । द्वापरेततः किञ्चित्-न्यूनायुषः । युगस्य प्रथमापेक्षयाउत्तरोत्तरं आयुषो ह्रासः । कलियुगे अल्पमेवायुःशेषे अत्यल्पं भविष्यति । तस्य पुत्त्रो विकुक्षि-स्तस्य ककुत्स्थः तस्य अनेनाः तस्य पृथुः तस्यविश्वगन्धिः तस्य चन्द्रः तस्य युवनाश्वः तस्य श्रावःतस्य वृहदश्वः तस्य धुन्धुमारः तस्य दृढाश्वः तस्यहर्य्यश्वः तस्य निकुम्भः तस्य कृशाश्वः तस्य सेन-जित् तस्य युवनाश्वस्तस्य मान्धाता चक्रवर्त्त्यभूत् ।तस्य पुरुकुत्सः तस्य त्रसदस्युः तस्य अनरण्यःतस्य हर्य्यश्वः तस्य प्रारुणः तस्य त्रिबन्धनः तस्यसत्यव्रतः तस्य त्रिशङ्कुः तस्य हरिश्चन्द्रः यःराजसूयं कृतवान् । तस्य रोहितः तस्य हरितःतस्य चम्पः तस्य सुदेवः तस्य विजय तस्य भरुकःतस्य वृकः तस्य बाहुकः तस्य सगरश्चक्रवर्त्ती ।तस्य असमञ्जाः तस्य अंशुमान् तस्य भगीरथः ।यस्तपः कृत्वा पृथिव्यां गङ्गामानीतवान् । तस्यश्रुतः तस्य नाभः तस्य सिन्धुद्वीपः तस्य अयुतायुःतस्य ऋतुपर्ण्णः तस्य सौदासः तस्य अश्मकः तस्यमूलकः तस्य दशरथः तस्य ऐडविडिः तस्य विश्व-सहः तस्य खठ्वाङ्गश्चक्रवर्त्ती । तस्य दीर्घबाहुःतस्य रघुः तस्य अजः तस्य दशरथः । विष्णुःश्रीरामरूपेण तस्य पुत्त्रत्वं प्राप्तवान् । तस्यानुजाभरतलक्ष्मणशत्रघ्नाः । श्रीरामचरितं बहुविस्तीर्णंवाल्मीकिव्यासादिमुनिभिर्वर्णितम् । असौ त्रेता-द्वापरयोः सन्धौ अवतीर्णः । एते खट्वाङ्गमारभ्यश्रीरामपर्य्यन्ताश्चक्रवर्त्तिनः । द्वापरस्य प्रथमेतस्य पुत्त्रः कुशो जातः । तस्य अतिथिः तस्यनिषधः तस्य नभः तस्य पुण्डरीकः तस्य क्षेसधन्वातस्य देवानीकः तस्य हीनः तस्य पारियात्रः तस्यबलस्थलः तस्य वज्रनाभः तस्य अर्कः तस्य सगणःतस्य विधृतिः तस्य हिरण्यनाभः तस्य पुष्पः तस्यध्रुवसन्धिः तस्य सुदर्शनः तस्य अंग्निवर्णः तस्यशीघ्रः तस्य मरुः यो योगसिद्धः सन् सुभेरु-निकटे कलापग्रामे आस्ते कलेरन्ते नष्टं सूर्य्यवंशंपुनर्भावयिष्यति । मरोः पुत्त्रः प्रसुश्रुतः तस्यसन्धिः तस्य अमर्षणः तस्य महस्वान् तस्य विश्व-बाहुः तस्य प्रसेनजित् तस्य तक्षकः तस्य वृह-द्बलः । असौ युधिष्ठिरस्य समकालीनः भारतयुद्धेअभिमन्युना हतः । तस्य वृहद्रणः तस्य उरु-क्रियः तस्य वत्सवृद्धः तस्य प्रतिव्योमः तस्य भानुःतस्य दिवाकः तस्य सहदेवः तस्य वीरः तस्यवृहदश्वः तस्य भानुमान् तस्य प्रतीकाश्वः तस्यसुप्रतीकः तस्य मरुदेवः तस्य सुनक्षत्रः तस्य पुष्करःतस्य अनारीक्षः तस्य सुतपाः तस्य अमित्रजित्तस्य वृहद्राजः तस्य वर्हिः तस्य कृतञ्जयः तस्यरणञ्जयः तस्य सञ्जयः तस्य शाक्यः तस्य शुद्धोदःतस्य लाङ्गलः तस्य प्रसेनजित् तस्य क्षुद्रकः तस्यसुमित्रः । एते राजानः कलेः सहस्रवत्सरपर्य्यन्तंराज्यं कृतवन्तः । एतत्पर्य्यन्तं सूर्य्यवंशविश्रान्तिःपुन सत्ययुगे सूर्य्यवंशोत्पत्तिर्भविष्यति । इतिश्रीभागवतनवमस्कन्धमतम् ॥
चन्द्रवंशविवरणंचन्द्रवंशशब्दे द्रष्टव्यम्*)क्षत्त्रियाणामन्यतराख्याः कायस्थाः ।यथा प्रथमतः--वेदानाम् आपस्तम्बशाखायाम् ।“बाह्वोश्च क्षत्त्रिया जाताः कायस्था जगतीतले ।चित्रगुप्तः स्थितः स्वर्गे विचित्रो भूमिमण्डले ॥
चैत्ररथः सुतस्तस्य यशस्वी कुलदीपकः ।ऋषिवंशे समुद्भूतो गौतमी नाम सत्तमः ।तस्य शिष्यो महाप्राज्ञश्चित्रकूटाचलाधिपः” ॥
द्वितीयतः, --माण्डव्यशापात् चित्रगुप्तस्य पुत्त्रचैत्ररथस्य क्षत्त्रिय-त्वगते पुनरुपनयनसंस्कारे कृते तेन क्षत्त्रियत्वं प्राप्तंयथा, -- वेदान्ते प्रथमाध्याथे तृतीयपादे ३५ । ३७सूत्रे क्षत्त्रियत्वगते चोत्तरत्र चैत्ररथेन लिङ्गात् तद-भावे निर्द्धारणे च प्रवृत्तेः ॥
तृतीयतः, --“नाम्ना त्वं चित्रगुप्ताऽसि मम कायादभूर्यतः ।तस्मात् कायस्थविख्यातिर्लोके तव भविष्यति ॥
कायस्थः क्षत्त्रियो वर्णो न तु शूद्रः कदाचन ।अतो भवेयुः संस्कारा गर्भाधानादिका दश ॥
गर्भाधानमृतौ कार्य्यं तृतीये मासि पुंस्क्रिया ।मासाष्टमे स्यात् सीमन्त उत्पत्तौ जातकर्म्म च ॥
शताहे नामकरणं पञ्चमे मासि निष्क्रमः ।षष्ठेऽन्नप्राशनं मासि चूडा कार्य्या यथाकुलम् ॥
तथोपनयने भिक्षाव्रह्मचर्य्यव्रतादिकम् ।वासो गुरुकुलेषु स्यात् स्वाध्यायाध्ययनं तथा ॥
कृत्वा तु मातृकापूजां वसोर्धारां विधाय च ।आयुष्याणि च शान्त्यर्थं जपेदत्र समाहितः ॥
कुर्य्यान्नान्दीमुखं श्राद्धं दधिसध्वाज्यसंयुतम् ।ततः प्रधानसंस्काराः कार्य्या एष विधिः स्मृतः” ॥
इत्यादि विज्ञानतन्त्रे ॥
चतुर्थतः, --कायप्रकाशो नाम्ना विद्यानगर्य्यधिपतिः क्षत्त्रवशजःकायस्य आसीत् । यथा, --“विराटकायजो वंशः कायस्थ इति विस्मृतः ।आर्य्याच्छन्दःप्रकाशात् तु आर्य्यावर्त्तः प्रमुच्यते ॥
अयं तु नवमस्तेषां द्वीपसागरसंवृतःयोजनानां सहस्रं तु द्वीपीऽयं दक्षिणोत्तरात्” ॥
इति मेरुतन्त्रे १९९ पटले ।पञ्चमतः, --“राजन् ! ब्रह्मकायसमुद्भूतः कायस्थो वर्म्मसंज्ञकः कलौहि क्षत्त्रियः म चास्त्यधिकारो जपयज्ञेषु” ॥
इति व्योमसंहितायाम् माधवाचार्य्यधृतम् ॥
षष्ठतः, --यदा पृथिवीनिक्षत्त्रियकाले परशुरामस्य भयात्चन्द्रमेनस्य नृपतेभार्य्या मुनेर्दाल्भ्यस्याश्रयं गता तदापरशराम उवाच ।“तवाश्रमे महाभाग । सगर्भा स्त्री समागताचन्द्रसेनस्य राजर्षः क्षत्त्रियस्य महात्मनः ॥
तम्मेवं प्रार्थितं देहि हिंसेयं तां महामुने ! ।ततो दालभ्यः प्रत्युबाच ददामि वरमीप्सितम् ॥
स्त्रियं गर्भममुं बालं तन्मे त्वं दातुमर्हसि ।ततो रामोऽब्रवीद्दाल्भ्यं यदर्थमहमागतः ॥
क्षत्त्रियान्तकरश्चाहं तत्त्वं याचितवानसि ।प्रार्थितश्च त्वया विप्र ! कायस्थो गर्भ उत्तमः ॥
तस्मात् कायस्थ इत्याख्यो भविष्यति शिशूत्तमः ।एवं रामो महाबाहुर्हित्वा तं गर्भमुत्तमम् ॥
निर्जगामाश्रमात्तस्मात् क्षत्त्रियान्तकरः प्रभुः ।कायस्थ एष उत्पन्नः क्षत्त्रिय्यां क्षत्त्रियात्ततः ॥
तद्गर्भजाश्व कायस्था धर्म्मिष्ठाः सत्यवादिनः ।सदाचारपरा नित्यं रता हरिहरार्च्चने ॥
देवविप्रपितॄणाञ्च अतिथीनाञ्च पूजकाः” ॥
इति स्कन्दपुराणे रेणुकामाहात्म्य परशुरामदाल्भ्य-संवादे ॥
॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
