| YouTube Channel

क्षत्त्रबन्धुः (kSattrabandhuH)

 
शब्दकल्पद्रुमः
Sanskrit
क्षत्त्रबन्धुः,
पुं,
(क्षत्त्रियस्य बन्धुरिव ।) निन्दितक्षत्त्रि-यः इत्यमरटीका (यथा, मार्कण्डेये ७४ ।“क्षत्त्रवन्धो ! ममेतां त्वं सदृशीं यज्ञदक्षिणाम् ।मन्यसे यदि तत् क्षिप्रं पश्य त्वं मे बलं परम्”
क्षत्त्रं राज्यं देहो वा बन्धुरिवास्य ।) क्षत्त्रमात्रम् ।(यथा, मनुः ३८ ।“आषोडशात् ब्राह्मणस्य सावित्री नातिवर्त्तते” ।आद्वाविंशात् क्षत्त्रबन्धोराचतुर्विंशतेर्विशः
)