| YouTube Channel

क्षत्त्रधृति (kSattradhRti)

 
वाचस्पत्यम्
Sanskrit
क्षत्त्रधृति
पु०
क्रतुभेदे “क्षत्त्रधृतिः” “तदुभयत एके त्रिष्टोमज्यो-तिष्टोमौ” कात्या० श्रौ० १५ ९१ २४ २५ “ततोमासान्ते श्राव-ण्याम् क्षत्त्रधृतिसंज्ञः क्रतुर्भवति कुर्व्वन्ति एके उप-रिष्टात् अत्र वैशाखामावास्ययां पशुबन्धौ, ज्यैष्ठ-मासपौर्णमास्यां केशबपनीयः, आषाढ्यां व्युष्टिद्वि-रात्रः, श्रावण्यां क्षत्रधृतिः” भाद्रपदाश्वयुजयोस्त्रिष्टोम-ज्यौतिष्ठोमौ, कार्त्तिक्यां सौत्रामणीति” कर्कः