| YouTube Channel

क्षत्त्रधर्म्म (kSattradharmma)

 
शब्दसागरः
English
क्षत्त्रधर्म्म
m.
(-र्म्मः) The duty of a Kshetriya, bravery, military conduct.
E.
क्षत्त्र and धर्म्म duty.
Yates
English
क्षत्त्र-धर्म्म (र्म्मः) 1.
m.
Bravery.
Wilson
English
क्षत्त्रधर्म्म
m.
(-र्म्मः) The duty of a Kṣatriya, bravery,
military conduct.
E.
क्षत्त्र, and धर्म्म duty.
वाचस्पत्यम्
Sanskrit
क्षत्त्रधर्म्म
पु०
त० स्मृत्याद्युक्ते क्षत्त्रियस्य धर्म्मभदे ।यथाह हारीतः“राज्यस्थः क्षत्त्रियश्चापि प्रजा धर्म्मेण पालयन् कुर्य्यादध्ययनं यग्यजेद्यज्ञान् यथाविधि दद्याद्दानं द्वि-जातिभ्योधर्म्मबुद्धिसमन्वितः स्वभार्य्यानिरतेनित्यंषड्भागार्हः सदा नृपः नी तशास्त्रार्थकुशलः सन्धि-विग्रहतत्त्ववित् देवब्राह्मणभक्तश्च पितृकार्य्यपरस्तथा ।धर्म्मेण यजनं कार्य्यमधर्म्मपरिवर्जनम् उत्तमां गति-माप्नोति क्षत्त्रियोऽप्येवमाचरत्” ।“त्रीणि राजन्यस्याध्ययनं शस्त्रेण प्रजापालनंस्वधर्मस्तेन जीवेत्” वशिष्ठः पद्मपु० स्वर्गखण्डे २६ अ०“क्षत्त्रियस्यापि यो धर्म्मस्तं ते वक्ष्यामि पार्थिव! द-द्याद्राजा याचेत यजेत याजयेत् नाध्याप-येदधीयीत प्रजाश्च परिपालयेत् नित्योद्युक्तो दस्यु-वधे रणे कुर्य्यात् पराक्रमम् ये तु क्रतुभिरीजानाः श्रुत-वनश्च पार्थिवाः ये तु युद्धे विजेतारस्ते तु लोक-जितो नृपाः अविक्षतशरीरो हि संगराद्यो निव-र्त्तते क्षत्त्रियस्य तु तत् कर्म्म नोभयत्र यशःप्रदम् क्ष-त्त्रियाणामयं धर्म्मो निर्णीतो मुनिभिः परः नास्यकृत्यतमं किञ्चिद्राज्ञो दस्युविनिग्रहात् दानमध्ययनंयज्ञो राज्ञां श्रेयोऽभिधीयते तस्माद्राज्ञा महाराज!योद्धव्यं धर्म्मशीलिना प्रजाः स्वेषु धर्म्मेषु स्था-पवेत महीपतिः धर्म्म्यास्येव हि कर्म्माणि कारयेत्सपतं प्रजाः परमां सितिमाप्नोति नृपतिः परिपाल-नात् कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो राजन्य उच्यते ।राजन्यानां करादानं विना वैवाहिकञ्च यः प्रतिग्रहःस निन्द्योऽत्र परत्र चासुखप्रदः युद्धे पलायनञ्चैव तथाकातरताऽर्थिषु अपालनं प्रजानाञ्च दाने धर्म्मे विर-क्तता अनवेक्षा स्वराष्ट्रस्य ब्राह्मणानामनादरः अमा-त्यानामसम्मानस्तेषां कर्म्मानवेक्षणम् भृत्यानाञ्च परी-हासो निषिद्धं क्षत्त्रजन्मनाम् राजन्यस्तु महाराज!यथा क्षेममवाप्नुयात् तत् शृणुष्व तवाख्यास्ये धर्म्मसं-ग्रहतत्परः वेदानधीत्य धर्म्मेण राजशास्त्राणि चा-नघ! सत्तानादीनि कर्म्माण कृत्वा सोभं निषेव्य ।पालयित्वा प्रजाः सर्व्वा धर्म्मेण जयतां पर राजसू-याश्वमेधादीन् मखानन्यांस्तथैव आहृत्य यथापाठं विप्रेभ्यो दत्तदक्षिणः संग्रामे विजयं प्राप्यतथाल्पं यदि वा बहु स्थापयित्वा प्रजापालं पुत्त्रंराज्ये पार्थिवः अत्यगोत्रं प्रशस्तं वा क्षत्त्रियंक्षत्त्रियर्षभ! अर्च्चयित्वा पितॄन् सम्यक् पितृयज्ञे यथा-विवि देवान् यज्ञैरृषीन् वेदैरर्च्चयित्वा प्रयत्नतः ।अन्तकाले सम्प्राप्तेय इच्छेदाश्रमान्तरम् सोऽनुपूर्व्या-श्रमानराजन्! गत्वा सिद्धिमवाप्न यात् राजर्षित्वेन रा-न्नेन्द भैक्षचर्य्याध्वसेवया अपेतगृहधर्म्मोऽपि चरेज्जी-वितकाम्यया चनन्नाष्ठकं कर्म्म त्रयाणां भूरिदक्षिणम् ।चतुर्णां राजशार्द्दूल! प्राहुराश्रमवासिनाम् बाह्वायत्तंक्षत्त्रियैर्मानवानां लोकश्रेष्ठं धर्म्ममासेवमानैः सर्व्वेधर्म्माः सोपधर्म्मास्त्रयाणां राज्ञो धर्म्मा दति वेदात्शृणोमि एवं धर्म्मात्राजधर्म्मेषु सर्व्वान् सर्व्वावस्थं सं-प्रलीनान्निबोध अन्यश्रमानल्पफलात् वदन्ति धर्म्मान-न्यान् वेदविदोमनुक्याः महाश्रमः बहुकल्याणरूपंक्षात्त्रं धर्मं नेतरं प्राहुरार्य्याः सर्व्वे धर्माः राजधर्म-प्रधानाः सर्व्वे धर्माः पाल्यमानाश्चरुन्ति सत्यं त्यागोराजधर्म्मेषु राजंस्त्यागं धर्म्मञ्चाहुरग्र्यं पुराणम् ।मज्जेत्त्रयीदण्डनीतौ क्षतायां, सर्व्वे धर्म्माः प्रक्षयेयु-र्व्विरुद्धाः सर्वे धर्म्माश्चाश्रमाणां क्षताः स्वुः क्षात्त्रेत्यक्ते राजधर्म्मे पुराणे सर्वे त्यागा राजघर्म्मेषुचीक्ताः सर्वा विद्या राजधर्म्मेषु युक्ताः सर्वे लोकाराजधर्म्मो प्रविष्टा यथा जीवाः प्राकृतैर्बध्यमानाः ।धर्म्मश्रुतानामुपपीडनाय एवं धर्म्मा राजधर्म्मैर्विमुक्ताः ।चातुराश्रम्यधर्म्माश्च यतिधर्म्माश्च प्रार्थिव! लोकवेदो-त्तरश्चैव क्षात्त्रे धर्म्मे समाहिताः सर्वाण्येतानिधर्माण क्षात्त्रे राजन्यसत्तम! अप्रत्यक्षं बहुद्वारंधर्ममाश्रमवासिनाम् क्षात्रेणैव हि धर्मेण प्रत्यक्षंक्रियते नृप! द्विजार्च्चनं क्षत्त्रियाणां तथा नाराय-णाच्चनम् राज्यानां पालनञ्चैव रणे निर्भयतातथा नित्यं दानं ब्राह्मणेभ्यः शरणागतरक्षणम् ।पुत्त्रतुल्यं प्रजानाञ्च दुःखिनां परिपालनम् शस्त्रा-स्त्राणाञ्च नैपुण्यं रणे शौर्य्यं तयैव तपश्चधर्मकृत्यञ्च यत्नतः कुरुते मुदा पण्डितं नोतिशास्त्रज्ञंनित्यञ्च परिपालयेत् समामध्ये वासयेच्च नित्यं सद्भिश्चसंयुतः हस्त्यश्वरथपादातं सेनाङ्गञ्च चतुष्टयम् ।पालयेत् यत्नतो नित्यं यशस्वी प्रतापवान् ।रणेऽरिमन्त्रितश्चैव दानेनाभिमुखो भवेत् रणे योवा त्यजेत् प्राणान् तस्य स्वर्गो यशस्करः” विस्तरस्तुभा० शा० राजधर्म्मे