| YouTube Channel

क्षतोदर (kSatodara)

 
Spoken Sanskrit
English
क्षतोदर kSatodara
n.
dysentery
क्षतोदर kSatodara
n.
flux
क्षतोदर kSatodara
n.
injury of the bowels by any indigestive substance
Monier Williams Cologne
English
क्षतोदर
n.
injury of the bowels by any indigestive substance, flux, dysentery,
Bhpr.
Shabdartha Kaustubha
Kannada
क्षतोदर
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಅಜೀರ್ಣಾದಿ ದೋಷಗಳಿಂದ ಉಂಟಾದ ಹೊಟ್ಟೆಯೊಳಗಿನ ರೋಗ /ಆಮಶಂಕೆ /ರಕ್ತಾತಿಸಾರ
व्युत्पत्तिः - > क्षतात् उदरं उदररोगः
L R Vaidya
English
kzata-udara {% n. %} dysentery.
शब्दकल्पद्रुमः
Sanskrit
क्षतोदरः,
पुं,
(क्षतं शर्करादिभिन्नं उदरमत्र रोगे ।अथवा क्षतात् स्रुतात् जातं उदरं उदररोग-विशेषो यत्र ।) उदररोगविशेषः तस्य सामा-न्यरूपमाह ।“आध्मानं गमनेऽशक्तिर्द्दौर्ब्बल्यं दुर्ब्बलाग्निना ।शोथः सदनमङ्गानां सङ्गो वातपुरीषयोः ।दाहस्तन्द्रा सर्व्वेषु जठरेषु भवन्ति हि”
सन्निकृष्टनिदानपूर्व्विकां संख्यामाह ।“पृथक्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः ।सम्भवन्त्युदरान्यष्टौ तेषां लिङ्गं पृथक् शृणु”
क्षतोदरमाह ।“शल्यं तथान्नोपहितं यदन्नंभुक्तं भिनत्त्यागतमन्यथा वा ।तस्मात् स्रुतोऽन्त्रात् सलिलप्रकाशःस्रावः स्रवेद्वै गुदतस्तु भूयः
नाभेरधश्चोदरमेति वृद्धिंनिस्तुद्यते दाल्यति चातिमात्रम् ।एतत् परिस्राव्युदरं प्रदिष्टंदकोदरं कीर्त्तयतो निबोध”
शल्यं कण्टककर्क्करादि अन्नोपहितं अन्ननिहितंभुक्तं यत् अन्नं भिनत्ति तथा अन्यथा आगतंभोजनं विना आगतं शरादि तदपि यदन्नं भिनत्तिएतदुपलक्षणम् जृम्भणमत्यशनञ्च अत्र भिनत्ति ।यत उक्तं चरके ।“शर्करातृणकाष्ठास्थिकण्टकैरन्नसंयुतैः ।भिद्येतान्त्रं यदा भुक्तं जृम्भयात्यशनेन च”
इतितस्मात् भिन्नादन्त्रात् गुदतस्तु भूयः अन्त्रात्संस्रुत्य पुनर्गुदतः स्रवेदित्यर्थः दाल्यति विदीर्य्यतइव पदसिद्धिरार्षत्वात् एतत् क्षतोदरं तन्त्रा-न्तरे परिस्राव्युदरं प्रदिष्टम्
तस्य चिकित्सा ।“शालिषष्टिकगोधूमयवनीवारभोजनम् ।निरूहो रेचनं श्रेष्ठं सर्व्वेषु जठरेषु
आनूपमौदकं मांसं शाकं पिष्टकृतं तिलाः ।व्यायामाध्वदिवास्वप्नयानप्रानानि वर्ज्जयेत्
तथाम्ललवणोष्णानि विदाहीनि गुरूणि ।नाद्यादन्नानि जठरे तोयपानञ्च वर्ज्जयेत्
उदराणां मलाढ्यत्वात् बहुशः शोधनं हितम् ।क्षीरेणैरण्डजं तैलं पिबेन्मूत्रेण वा सकृत्”
इति भावप्रकाशः (उदररोगशब्दे विशेषविवृ-तिरस्य ज्ञेया
)
वाचस्पत्यम्
Sanskrit
क्षतोदर क्षतजाते उदररोगभेदे उदरशब्दे ११५० पृ० विवृ-तिः शल्यमित्यादि तत्रत्यं सुश्रुतवाक्यं भावप्र० व्या-ख्याय चरकमुनि सम्मतिप्रदर्शनेन विशेष उक्तो यथा“शल्यं कण्टककर्करादि अन्नोप हतं भुक्तं यत् अन्नंभिनत्ति तथा अन्यथा आगतं भोजनं विना आगतं, शर्कराभिरितरथापि यदन्नं मिनत्ति तत् उपलक्षणम् ।जम्भणमत्यशनं वा यदन्त्रम्भिनत्ति यतौक्तञ्चरकेणशर्करातृणकाष्ठास्थिकण्टकैरन्नसंयुतैः भिद्येतान्त्रंयदा भुक्तं जृम्भयात्यशनेन चेत्” तस्मात् भिन्नादन्त्रात् ।गुदतस्तु भूयः अन्त्रात्संस्रुत्य पुनर्गुदतः स्रवेदित्यर्थः ।दाल्यति विदार्य्यत एव पदसिद्धिरार्षत्वात् एतत्क्षतोदरन्तन्त्रान्तरे परिस्राव्युदरम्प्रदिष्टम्”