| YouTube Channel

क्षताशौच (kSatAzauca)

 
वाचस्पत्यम्
Sanskrit
क्षताशौच
न०
क्षतनिमित्तमशौचम् व्रणादिक्षतकृतेस्मृत्युक्ते अशौचे “सव्रणः सूतकी सूयी मत्तोन्मत्तर-जत्वलाः मृतबन्धुरबन्धुश्च वर्ज्यान्यष्टौ स्वकालतः”प्रा० त० देवलः अशुचित्वमप्याह तत्रैव सएव “दन्त-लग्नमसंहार्यं लेपं मन्येत दन्तवत् तत्र बहुशःकुर्यात् यत्नमुद्धरणे पुनः भवेदशौचमत्यन्तं तृणवेधात्व्रणे कृत तृणवेधादित्युपलक्षणं व्रणहेतुक्षतमात्रस्य ।अस्यापवादः “चन्द्रसूर्यग्रहे चैव मृतानां पिण्डकर्म्म-णि महातीर्थे तु संप्राप्ते क्षतदोषो विद्यते” प्रा० त०पुलस्त्यः मृतानां पिण्डकर्म्मणि निरवकाशत्वात् चिता-पिण्डोदकदानादौ संप्राप्ते नियतवासादिना सम्यक्प्राप्ते