| YouTube Channel

क्षतजव्रण (kSatajavraNa)

 
वाचस्पत्यम्
Sanskrit
क्षतजव्रण
पु०
भावप्र० उक्ते व्रणभेदे“पृथक् समस्तदोषोत्या रक्तजागन्तुजौ तथा व्रणशोथाःषडेते स्युःसंयुक्ताः शोथलक्षणैः (शोथलक्षणैः पूर्वोक्तैः)विशिष्टं रूपमाह “विषमं पच्यते वातात पित्तो-त्थश्चाचिरञ्चिरम् कफजः पित्तवच्छ्वोथो रक्तागन्तुसमुद्भवौ” अत्र रक्तजेत्युक्तेः क्षतजव्रणैत्येव शब्दस्यौ-चित्यात् शब्दकल्पद्रुमे क्षतव्रणशब्दकलपनं प्रामादिकम्भावप्र० उक्ते पिपासाभेदे स्त्री यथा“भयश्रमाभ्यां बलसंक्ष्याद्वा ऊर्द्ध्वं चित पित्तवि-वर्द्धनैश्च पित्तं सवातं कुपितं नराणां तालु प्रपन्नंजनयेत् पिपासाम् स्रोतःस्वपांवाहिषु दूषितेषु दोषैश्चतृट् सम्भवतीह जन्तोः तिस्रः स्मृतास्ताः क्षतजाचतुर्थी क्षयात्तथान्याऽऽमसमुद्भवा भक्तोद्भवा सप्त-मिकेति तासां निबोध लिङ्गान्यनुपूर्व्वशस्तु” नराणांचितं स्वस्थान एव सञ्चितं पित्तं सवातं पित्तविवर्द्धनैःकष्ट्वम्लोष्णादिभ्रिः कुपितं भयश्रमाभ्यां बलसंक्षयादुपवासा-देश्च वातः कुपितः तद्द्वयस् ऊर्द्ध्वं प्रसरत् तालु प्रपन्नंसत् पिपासां जनयेत् केवलं तालुन्येव दूषिते तृष्णाभवति किन्तु जलवाहिस्रोतःस्वपि अत आह स्रो-तःस्वित्यादि नन्वत्र बहुवचनं युक्तम् यतो ज-लवहे द्वे स्रोतसी सुश्रुतेनोक्ते उच्यते तयोरेवा-जेकप्रतानयोगान्न दोषः अपांवाहिषु स्रोतःस्वितिजिह्वादेरप्युपलक्षणम् यत आह चरकः “रसवाहिनीश्च घमनीर्जिह्वा हृदयगलतालु क्लोम संशो-ष्य नृणां देहेषु कुरुतस्तृष्णामतिप्रबलौ पित्तानिला-विति संख्यामाह तिस्र इत्यादि तृष्णायाः सा-मान्यलक्षणमाह “सततं यः पिबेत्तोयं तृप्तिमविगच्छति मुहुः काङ्क्षति तोयन्तु तं तृष्णर्ज्ञितनादिशेत्” क्षतजामाह “क्षतस्य रुक्शोणितनिर्गमा-भ्यां तृष्णा चतुर्थी क्षतजा मता तु” क्षतस्य शस्त्रा-दिक्षतयुक्तस्य रुक् पीडा”