क्षतजतृष्णा (kSatajatRSNA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritक्षतजतृष्णा, (क्षतजा शस्त्रादिभिः क्षताज्जाताया तृष्णा पिपासा ।) शस्त्रादिक्षतयुक्तस्य पिपासा ।तस्या निदानपूर्व्विकां सम्प्राप्तिमाह ।“भयश्रमाभ्यां बलसंक्षयाद्वाऊर्द्ध्वं चितं पित्तविवर्द्धनैश्च ।पित्तं सवातं कुपितं नराणांतालुप्रपन्नं जनयेत् पिपासाम् ॥
स्रोतःस्वपांवाहिषु दूषितेषुदोषैश्च तृट्सम्भवतीह जन्तोः ।तिस्रः स्मृतास्ताः क्षतजा चतुर्थीक्षयात्तथान्यामसमुद्भवा च ॥
भक्तोद्भवा सप्तमिकेति तासांनिबोध लिङ्गान्यनुपूर्व्वशस्तु” ॥
नराणां चितं स्वस्थान एव सञ्चितं पित्तं सवातंकट्वम्लोष्णापित्तविवर्द्धनैः । कट्वम्लोष्णादिभिः कु-पितं भयश्रमाभ्यां बलसंक्षयादुपवासादेश्च वातःकुपितः । तद्द्वयं ऊर्द्ध्वं प्रसरत् तालुप्रपन्नं सत्पि-पासां जनयेत् । न केवलं तालुन्येव दूषिते तृतीयाभवति । किन्तु जलवाहिस्रोतःस्वपि । अत आहस्रोतःस्वित्यादि नन्वत्र बहुवचनं न युक्तम् । यतोजलवहे द्वे स्रोतसी सुश्रुतेनोक्ते । उच्यते । तयो-रेवानेकप्रतानयोगान्न दोषः । अपां वाहिषुस्रोतःस्विति जिह्वादेरप्युपलक्षणम् । यत आहचरकः । रसवाहिनीश्च धमनीर्जिह्वाहृदयगल-तालुक्लोम च । संशोष्य नृणां देहेषु कुरुतःतृष्णामतिप्रबलौ पित्तानिलाविति ॥
संख्यामाहतिस्र इत्यादि ॥
तृष्णायाः सामान्यलक्षण-माह ।“सततं यः पिबेत्तोयं न तृप्तिमधिगच्छति ।मुहुः काङ्क्षति तोयन्तु तं तृष्णार्द्दितमादिशेत्” ॥
क्षतजामाह ।“क्षतस्य रुक् शोणितनिर्गमाभ्यांतृष्णा चतुर्थी क्षतजा मता तु” ।क्षतस्य शस्त्रादिक्षतयुक्तस्य । रुक् पीडा ॥
अथ तृष्णायाश्चिकित्सा ॥
“वातघ्नमन्नपानं मृदु लघु शीतञ्च वाततृष्णायाम् ।तृष्णायां पवनोत्थायां सगुडं दधि शस्यते ॥
स्वादु तिक्तं द्रवं शीतं पित्ततृष्णाहरं परम् ।मुस्तपर्पटकोदीच्यच्छत्राख्योशीरचन्दनैः ॥
शृतं शीतं जलं दद्यात् तृड्दाहज्वरशान्तये” ॥
छत्रा धान्याकम् । कश्चित् धात्रीञ्च दद्यात्चन्दनमत्र धवलं दद्यात् । तस्यातितृष्णाहरत्वात् ।शृतं अर्द्धपक्वमत्र कर्त्तव्यम् । षडङ्गपानम् ।“लाजोदकं मधुयुतं शीतं गुडविमर्द्दितम् ।काश्मरीशर्करायुक्तं पिबेत् तृष्णार्द्दितो नरः ॥
आस्तरणमार्द्रवासः प्रावरणं चार्द्रमेव स्यात् ।तेन पिपासा शाम्यति दाहश्चोग्रोऽपि देहिनांनियतम् ॥
गोस्तनीक्षुरसक्षीरयष्टीमधुमधूत्पलैः ।नियतं नासिकापीतैस्तृष्णा शाम्यति दारुणां ॥
वैशद्यञ्च नयत्यास्ये सन्दधाति मुखे जलम् ।तृष्णादाहप्रशमनं मधुगण्डूषधारणम् ॥
जिह्वातालुगलक्लोमशोषे मूर्द्धनि दापयेत् ।केशरं मातुलुङ्गस्य धृतसैन्धवसंयुतम् ॥
दाडिमं बदरं लोध्रं कपित्थं वीजपूरकम् ।पिष्ट्वा मूर्द्धनि लेपस्तु पिपासादाहनाशनः ॥
वारि शीतं मधुयुतमाकण्ठाद्वा पिपासितम् ।पाययेद्वामयेच्चापि तेन तृष्णा प्रशाम्यति ॥
प्रातः सशर्करः पेयो हिमो धान्याकसम्भवः ।जयेत् तृष्णां तथा दाहं भवेत् स्रोतोविशोधनम् ॥
अमलं कमलं कुष्ठं लाजाश्च वटरोहकम् ।एतच्चूर्णस्य मधुना गुटिकां धारयेन्मुखे ॥
तृष्णां प्रवृद्धां हन्त्येषा मुखशोषञ्च दारुणम् ।क्षतोद्भवां रुग्विनिवारणेनजयेत् क्षतानामसृजश्च पातैः ।क्षयोत्थितां क्षीरजलं निहन्या-न्मांसोदकं वा मधुकोदकं वा ॥
आमोद्भवां विल्ववचायुतानांजयेत् कषायैरथ दीपनानाम् ।गुर्व्वन्नजामुल्लिखनैर्जयेच्चक्षयं विना सर्व्वकृताञ्च तृष्णाम्” ॥
उल्लिखनैः लेखनद्रव्यैः । स्निग्धेऽन्ने भुक्ते या तृष्णास्यात्ताञ्च गुडाम्बुना शमयेत् । अतिरोगदुर्ब्ब-लानां तृष्णां शमयेन्नृणामिहाशु पयः ॥
पयोऽत्रदुग्धम् ।“मूर्च्छाच्छार्द्दितृषादाहस्त्रीमद्यभृशकर्षिताः ।पिचेयुः शीतलं तोयं रक्तपित्ते मदात्यये ॥
सात्म्यान्नपानभैषज्यैस्तृष्णा तस्य जयेत् पुनः ।तस्यां जितायामन्योऽपि व्याधिः शक्यश्चिकित्सितुम् ॥
तृष्यन् पूर्व्वामयक्षीणो न लभेत जलं यदि ।मरणं दीर्घरोगं वा प्राप्नुयात् त्वरितं नरः ॥
तृषितो मोहमायाति मोहात् प्राणान् विमुञ्चति ।तस्मात् सर्व्वास्ववस्थासु स क्वचिद्वारि वारयेत् ॥
अन्नेनापि विना जन्तुः प्राणान् धारयते चिरम् ।तोयाभावात् पिपासार्त्तः क्षणात् प्राणैर्विमुच्यते” ॥
इति तृष्णाधिकारः । इति भावप्रकाशः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
