क्षतकास (kSatakAsa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English क्षतकास kSatakAsa cough produced by injury
Apte Hindi
Hindiक्षतकासः
क्षत-कासः -
आघात से उत्पन्न खांसी
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaक्षतकास
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ೫ ವಿಧ ಕೆಮ್ಮಲು ರೋಗಗಳಲ್ಲೊಂದು
व्युत्पत्तिः - > क्षतात् कासः
शब्दकल्पद्रुमः
Sanskritक्षतकासः, (क्षतजः कासः । मध्यपदलोपीसमासः ।) पञ्चविधकासरोगान्तर्गतकासरोग-विशेषः । यथा, --“पञ्चकासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः ।क्षयायोपेक्षिताः सर्व्वे बलिनश्चोत्तरोत्तरम्” ॥
एषां पूर्व्वरूपसाह ।“पूर्व्वरूपं भवेत्तेषां शूकपूर्णगलास्यता ।कण्ठेकण्डुश्च भोज्यानामवरोधश्च जायते” ॥
भोज्यानाभवरोधः कवलगिलने कण्ठव्यथा ॥
अस्य निदानपूर्व्विकां सम्प्राप्तिमाह ।“अतिव्यवायभाराध्वयुद्धाश्वगजनिग्रहैः ।रूक्षस्योरक्षतं वायुर्गृहीत्वा कासमावहेत्” ॥
अश्वगजयोर्निग्रहो दमनम् । लक्षणमाह ।“संपूर्व्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् ।कण्ठेन रुजतात्यर्थं विरुद्धेनेव चोरसा ॥
सूचीभिरिव तीक्ष्णाभिः तुद्यमानेन शूलिना ।दुःखस्पर्शेन शूलेन भेदपीडाभितापिना ॥
पर्व्वभेदज्वरश्वासः तृष्णावैस्वर्य्यपीडितः ।पारावत इवाकूजेत् कासवेगात् क्षतो द्रवात्” ॥
कण्ठेनेत्युपलक्षणे तृतीया एवमुरसाऽपि ॥
तस्य चिकित्सा यथा, --“इक्ष्विक्षुवालिकापद्ममृणालोत्पलचन्दनम् ।मधुकं पिप्पली द्राक्षा लाक्षा शृङ्गी शतावरी ॥
द्विगुणा च तुगाक्षीरी सिता सर्व्वचतुर्गुणा ।लिह्यात्तन्मधुसर्पिर्भ्यां क्षतकासनिवृत्तये” ॥
इक्षुवालिका इक्षुभेदः । चन्द्र इति लोके । पद्मंपद्मकाष्ठम् । मृणालं विसम् । उत्पलं कमलम् ।चन्दनमत्र धवलं चूर्णत्वात् । शृङ्गी कर्क्कटशृङ्गी ।तुगाक्षीरी वंशरोचना । सा चेक्षोर्द्विगुणा । इतिभावप्रकाशः ॥
(“युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम् ॥
उरस्यन्तः क्षते वायुः पित्तेनानुगतो बली ।कुपितः कुरुते कासं कफं तेन सशोणितम् ॥
पीतं श्यामञ्च शुष्कञ्च प्रथितं कुथितं बहु ।ष्ठीवेत् कण्ठेन रुजता विभिन्नेनेव चोरसा ॥
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना ।पर्व्वभेदज्वरश्वासतृष्णावैस्वर्य्यकम्पवान् ॥
पारावत इवाकूजन् पार्श्वशूली ततोऽस्य च ।क्रमाद्वीर्य्यं रूचिः पक्तिर्बलं वर्णश्च हीयते” ॥
अस्य चिकित्सा यथा--“उरस्यन्तः क्षते सद्यो लाक्षां क्षौद्रयुतां पिबेत् ॥
क्षीरेण शालीन् जीर्णेऽद्यात् क्षीरेनैव सशर्करान् ।पार्श्ववस्ति सरुक्चाल्पपित्ताग्निस्तां सुरायुताम् ।भिन्नविट्कः समुस्तातिविषा पाठां सवत्सकाम् ॥
लाक्षा सर्पिर्मधूच्छिष्टं जीवनीयं गणं सितम् ।त्वक्क्षीरी सस्मितं क्षीरे पक्त्वा दीप्तानलः पिबेत् ॥
इक्ष्वाविकाविषग्रन्थिपद्मकेशरचन्दनैः ।शृतं पयो मधुयुतं सन्धानार्थं क्षती पिबेत् ॥
क्षतकासे च ये धूमाः सानुपाना निदर्शिताः” ।इति वाभटे निदानस्थाने चिकित्सास्थाने च चतु-र्थाध्याये ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
