| YouTube Channel

क्षतं (kSataM)

 
शब्दकल्पद्रुमः
Sanskrit
क्षतं,
क्ली,
(क्षण्यते वध्यतेऽनेन क्षण + करणे क्तः ।)स्रवद्रक्तपूयादि घा इति भाषा तत्पर्य्यायः ।व्रणः अरुः ईर्म्मम् क्षणनुः इतिहेमचन्द्रः
तद्वति त्रि
*
क्षतेन मृतस्याशौचं यथा, व्याघ्रः ।“क्षतेन म्रियते यस्तु तस्याशौचं भवेद्द्विधा ।आसप्ताहात् त्रिरात्रं स्याद्दशरात्रमतः परम्
शस्त्रघाते त्र्यहादूर्द्ध्वं यदि कश्चित् प्रमीयते ।अशौचं प्राकृतं तत्र सर्व्ववर्णेषु नित्यशः
अत्र अस्त्रघातपदं क्षतेतरशस्त्रघातपरं पारि-भाषिकशस्त्राघातपरमपि अन्यथा क्षतं विनापतनादिभिर्विलम्बमृतानां दिनग्रहणेऽनध्यवसायःस्यात्” इति शुद्धितत्त्वम्
*
चन्द्रग्रहणादौक्षतदोषाभावो यथा, -- पुलस्त्यः ।“चन्द्रसूर्य्यग्रहे चैव मृतानां पिण्डकर्म्मसु ।महातीर्थे संप्राप्ते क्षतदोषो विद्यते”
अन्यत्र तु देवलः ।“सव्रणः सूतकी सूयी मत्तोन्मत्तरजस्वलाः ।मृतबन्धुरवन्धुश्च वर्ज्यान्यष्टौ स्वकालतः”
इत्यनेन वर्ज्यतामाह अशुचित्वमप्याह ।“दन्तलग्नमसंहार्य्यं लेपं मन्येत दन्तवत् ।न तत्र बहुशः कुर्य्यात् यत्नमुद्धरणे पुनः
भवेदशौचमत्यर्थं तृणवेधात् व्रणे कृते”
इति प्रायश्चित्ततत्त्वम्
(विदारणम् ।यथा, कुमारे २९ ।“नखक्षतानीव वनस्थलीनाम्”
विनाशः यथा, रघुः ५३ ।“क्षतात् किल त्रायत इत्युदग्रःक्षत्त्रस्य शब्दो भुवनेषु रूढः”
त्रि, ताडितः विद्धः यथा, रघुः ५३ ।“रघोरवष्टम्भमयेनं पत्रिणाहृदि क्षतो गोत्रभिदोऽप्यमर्षणः”
क्षतियुक्तः यथा, कुमारे २६ ।“रुद्राणामपि मूर्द्धानः क्षतहूङ्कारशंसिनः”
(रोगविशेषः तस्य सकारणसम्प्राप्तिलक्षणानिचिकित्सितञ्च यथा, --“धनुषायस्यतोऽत्यर्थं भारमुद्वहतो गुरुम् ।पततो विषमोच्चेभ्यो युध्यमानस्य चाधिकैः
वृषं हयं वा धावन्तं दम्यं वान्यं निगृह्लतः ।शिलाकाष्ठाश्मनिर्धातान् क्षिपतो निघ्नतः परान्
अधीयानस्य वात्युच्चैर्दूरं वा व्रजतो द्रुतम् ।महानदीं वा तरतो गजैर्वा सह धावतः
सहसोत्पततो दूरं तूर्णञ्चातिप्रणृत्यतः ।तथान्यैः कर्म्मभिः क्रूरैर्भृशमभ्याहतस्य वा
विक्षते वक्षसि व्याधिर्बलवान् समुदीर्य्यते ।स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः
उरो विरुज्यते तस्य भिद्यतेऽर्थ बिदह्यते ।प्रपीड्यते ततः पार्श्वे शुष्यत्यङ्गं प्रवेपते
क्रमाद्वीर्य्यं बलं वर्णो रुचिरग्निश्च हीयते ।ज्वरो व्यथा मनोदैन्यं विङ्भेदाग्निवधावपि
दुष्टः श्यावः सदुर्गन्धः पीतो विग्रथितो बहुःकासमानस्य श्लेष्मा सरक्तः संप्रवर्त्तते
सक्षतः क्षीयतेऽत्यर्थं तथाशुक्रौजसोः क्षयात्”
पूर्व्वरूपं यथा, --“अव्यक्तं लक्षणं तस्य पूर्व्वरूपमिति स्मृतम् ।उरोरुक् शोणितच्छर्द्दिः कासो वैशेषिकः क्षते”
अस्यासाध्यलक्षणादिकं यथा, --“अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः ।गते संवत्सरे याप्यः सर्व्वलिङ्गन्तु वर्ज्जयेत्”
चिकित्सास्य यथा ।“उरोमत्वाक्षतं लाक्षां पयसा मधुसंयुताम् ।सद्य एव पिबेज्जीर्णे पयसाद्यात् सशर्कराम्
पार्श्ववस्तिरुजश्वाल्पपित्ताग्निस्तां सुरायुताम् ।भिन्नविट्कः समुस्तातिविधां पाठां सवत्सकाम्
लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयगणं सिताम् ।त्वक्क्षीरी सम्मितं क्षीरे पक्त्वा दीप्तानलः पिबेत्
इक्ष्वालिकविसग्रन्थिपद्मकेशरचन्दनैः ।शृतं पयो मधुयुतं सन्धानार्थं पिबेत् क्षतो
यवानां चूर्णमादाय क्षीरसिद्धं घृतप्लुतम् ।ज्वरदाहे सिताक्षौद्रशक्तून् वा पयसा पिबेत्
कासी पर्व्वास्थिशूली लिह्यात्सघृतमाक्षिकाः ।मधूकमधुकद्राक्षा त्वक्क्षीरापिप्पलीबलाः”
“रक्तेऽतिवृत्ते दक्षान्तं यूषैस्तोयेन वा पिबेत्चटकाण्डरसं वापि रक्तं वा छागजाङ्गलम्
चूर्णं पौनर्नवं रक्तशालितण्डुलशार्करम्
रक्तष्ठीवी पिबेत् सिद्धं द्राक्षारसपयोघृतैः ।मधूकग्रधुकक्षीरसिद्धं वा तण्डुलीयकम्
यष्ट्याह्वानागबलयोः क्वाथे क्षीरसमं घृतम् ।पयसा पिप्पलीवांशीकल्कसिद्धं क्षते शुभम्
कोललाक्षारसे तद्वत् क्षीराष्टगुणसाधितम् ।कल्कैः कट्वम्लदार्व्वीत्वग्वत्सकत्वक्फलैर्घृतम्
जीवकर्षभकौ वीरां जीवन्तीं नागरं शठीम् ।चतस्रः पर्णिनीर्मेदे काकोल्यौ द्वे निदिग्धिके
पुनर्नवे द्वे मधुकं आत्मगुप्तां शतावरीम् ।ऋद्धिं परूषकं भार्गीं मृद्वीकां वृहतीन्तथा
शृङ्गाटकीं तामलकीं पयस्यां पिप्पलीं बलाम् ।वदराक्षोटखर्जूरवातामाभिषुकाण्यपि
फलानि चैवमाद्यानि कल्कान् कूर्व्वीत कार्षिकान् ।धात्रीरसविदारीक्षु छागमांसरसं पयः
कुर्य्यात्प्रस्थोन्मितं तेन घृतप्रस्थं विपाचयेत् ।प्रस्थार्द्धं मधुनः शीते शर्करार्द्धतुलान्तथा
द्विकार्षिकाणि पत्रैला हेमत्वङ्मरिचानि ।चूर्णितानि विनीयास्माल्लिह्यान्मात्रां सदा नरः
अमृतप्राशमित्येतन्नराणाममृतं घृतम् ।सुधामृतरसं प्रास्य क्षीरमांसरसाशिना
नष्टशुक्रक्षतक्षीणदुर्ब्बलव्याधिकर्षितान् ।स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च वृंहयेत्
कासहिक्काज्वरश्वासदाहतृष्णास्रपित्तनुत् ।पुत्त्रदं वमिमूर्च्छाह्वयोनिमूत्रामयापहम्”
इत्यमृतप्राशघृतम्
“मधुकाष्टपलं द्राक्षा प्रस्थक्वाथे घृतं पचेत् ।पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे शीतले
पृथगष्टपलं क्षौद्रशर्कराभ्यां विमिश्रयेत् ।समं शक्तुक्षतक्षीणे रक्तगुल्मेषु तद्धितम्”
इति शक्तुप्रयोगः
“शक्तूनां वस्त्रपूतानां मन्थं क्षौद्रघृतान्वितम् ।यावान्नसात्म्यो दीप्ताग्निः क्षतः क्षीणः पिबेन्नरः”
“एका षोडशिका धान्याद्धि द्वेऽजाज्यजमोदयोः ।ताभ्यां दाडिमवृक्षाम्लद्विर्द्विः सौवर्च्चलात्पलम्
शुण्ठ्याः कर्षं दधित्थस्य मेध्यात्पञ्च पलानि ।तच्चूर्णं षोडशपले शर्कराया विमिश्रयेत्
षाडवोऽयं प्रदेयः स्यादन्नपानेषु पूर्व्ववत्”
इति षाडवः
“यच्चोक्तं यक्ष्मिणां पथ्यं कासिनां रक्तपित्तिनाम् ।तच्च कुर्य्यादपेक्ष्याग्निं व्याधिं सात्म्यबलांस्तथा”
इति चरके चिकित्सास्थाने १६ अध्याये
)