| YouTube Channel

क्षणिकः (kSaNikaH)

 
शब्दकल्पद्रुमः
Sanskrit
क्षणिकः, त्रि, (क्षणः स्वस्वत्ताव्याप्यतयाऽस्त्यस्य ।ठन् ।) क्षणमात्रस्थायी यथा “क्षणभङ्गे विप्र-तिपत्तिः शब्दादिः क्षणिको वा क्षणिकत्वञ्चस्वाधिकरणसमयप्रागभावाधिकरणक्षणानुत्पत्ति-कत्वे सति कादाचित्कत्वं उत्पत्तिमत्त्वं वा उत्प-त्तिश्च स्वाधिकरणक्षणावृत्तिप्रामभावप्रतियोगि-क्षणसम्बन्धः क्षणश्च स्वाधेयपदार्थप्रागभावाना-धारः समयः प्रसिद्धिस्तु विधेर्नैयायिकानां प्राग-भावे चरमध्वंसे निषेधस्य बौद्धानामलीके ।स्वाधिकरणसमयप्रागभावाधिकरणक्षणावृत्तित्वंक्षणिकत्वमिति तु ज्यायः” इति बौद्धाधिकारेरघुनाथशिरोमणिः
अन्यच्च ।“द्रव्यारम्भश्चतुर्षु स्यादथाकाशशरीरिणाम् ।अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते”
इति भाषापरिच्छेदे २७
“क्षणिकत्वञ्च तृतीय-क्षणवृत्तिध्वंसप्रतियोगित्वम्” इति सिद्धान्त-मुक्तावली