| YouTube Channel

क्षजि (kSaji)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
क्षञ्ज्
मूलधातुः:
क्षजि
धात्वर्थः:
गतिदानयोः
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
क्षञ्जते
अनुबन्धादिविशेषः:
घटादिः, षित्, इदित्
धातुप्रदीपः
Sanskrit
क्षजिँ क्षजि गति, दानयोः
- क्षञ्जते चक्षञ्जे अक्षाञ्जि अक्षञ्जि क्षाञ्जं क्षाञ्जं, क्षञ्जं क्षञ्जम् क्षञ्जेर्घटादौ मित्त्वार्थः पाठः तत्सामर्थ्यादुपधाग्रहणानुवृत्तावपि सत्यां चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (6/4/93) इत्यपधादीर्धविकल्पो भवति षित्त्वफलं तु क्षुञ्जेत्यफलमेव गुरोश्च हलः (3/3/103) इत्यनेनैव सिद्धत्वात् एवं दक्षिकक्षिकन्दिक्रन्दीनामपि ।। 772 ।।
क्षजिँ क्षजि कृच्छ्रजीवने
- क्षञ्जयति क्षञ्जयामास 86
क्षीरतरङ्गिणी
Sanskrit
क्षजिँ क्षजि गति, दानयोः
- अस्य पाठोऽनुपधाया अपि चिण्णमुलोदीर्घार्थः (द्र0 6493) एतदर्थमेव तत्र ह्रस्वविकल्पे कर्तव्ये दीर्घविधिः एवं दक्षिकन्दिक्रन्दिक्लन्दीनां (1518, 520) ज्ञेयम् क्षजेति कौशिकः चुरादौ क्षजि कृच्छ्रजीवने (1073) क्षञ्जयति 748
क्षजिँ क्षजि कृच्छ्रजीवने
- क्षञ्जयति घटादौ क्षजि गतिदानयोः (1517) 83
धातुवृत्तिः
Sanskrit
क्षजिँ क्षजि (अर्थः) गति, दानयोः
क्षज इति कौशिकः ( क्षञ्जते चक्षञ्जे क्षञ्जिता चिक्षञ्जिषते चाक्ष्यञ्ज्यते चाक्षङ्क्ति ) ज्ञलि "चोः कुः'' इति कुत्वे "खरि च'' इति चर्त्वम् अनुस्वारपरसवर्णौ ( क्षञ्जयति अचक्षञ्जत् अक्षञ्जि अक्षाञ्जि क्षञ्जंक्षञ्जम् क्षाञ्जंक्षाञ्जम् ) मित्त्वसामर्थ्यादनुपधात्वेपि "चिण्णमुलोः'' इति दीर्घविकल्पो भवतीति मैत्रेयसुधाकरादयः क्षञ्जेति गुरुमत्त्वादङि सिद्ध्यति एवमन्येषामपि संयोगान्तानां दक्षादीनां मित्त्वसामर्थ्यात् दीर्घविकल्पः 757
क्षजिँ क्षजि (अर्थः) कृच्छ्रजीवने
( क्षञ्जयति क्षञ्जति ) क्षञ्जतइति गतिदानयोर्घटादौ 87
कृदन्तरूपमाला
Sanskrit
1 {@“क्षजि गतिदानयोः”@} 2 घटादिः षिच्च।
क्षञ्जकः-ञ्जिका, क्षञ्जकः-ञ्जिका, चिक्षञ्जिषकः-षिका, चाक्षञ्जकः-ञ्जिका
क्षञ्जिता-त्री, क्षञ्जयिता-त्री, चिक्षञ्जिषिता-त्री, चाक्षञ्जिता-त्री
-- क्षञ्जयन्-न्ती, क्षञ्जयिष्यन्-न्ती-ती
-- क्षञ्जमानः, क्षञ्जयमानः, चिक्षञ्जिषमाणः, चाक्षञ्ज्यमानः
क्षञ्जिष्यमाणः, क्षञ्जयिष्यमाणः, चिक्षञ्जिषिष्यमाणः, चाक्षञ्जिष्यमाणः
3 क्षन्-क्षञ्जौ-क्षञ्जः
-- -- -- 4 क्षञ्जितम्-तः, क्षञ्जितः, चिक्षञ्जिषितः, चाक्षञ्जितः-तवान्
क्षञ्जः, 5 क्षञ्जनः, क्षञ्जः, चिक्षञ्जिषुः, चाक्षञ्जः
क्षञ्जितव्यम्, क्षञ्जयितव्यम्, चिक्षञ्जिषितव्यम्, चाक्षञ्जितव्यम्
क्षञ्जनीयम्, क्षञ्जनीयम्, चिक्षञ्जिषणीयम्, चाक्षञ्जनीयम्
क्षञ्ज्यम्, क्षञ्ज्यम्, चिक्षञ्जिष्यम्, चाक्षञ्ज्यम्
ईषत्क्षञ्जः-दुःक्षञ्जः-सुक्षञ्जः
-- -- 6 क्षञ्ज्यमानः, क्षञ्ज्यमानः, चिक्षञ्जिष्यमाणः, चाक्षञ्ज्यमानः
क्षञ्जितुम्, क्षञ्जयितुम्, चिक्षञ्जिषितुम्, चाक्षञ्जितुम्
7 क्षञ्जा, क्षञ्जना, चिक्षञ्जिषा, चाक्षञ्जा
क्षञ्जनम्, क्षञ्जनम्, चिक्षञ्जिषणम्, चाक्षञ्जनम्
क्षञ्जित्वा, क्षञ्जयित्वा, चिक्षञ्जिषित्वा, चाक्षञ्जित्वा
प्रक्षञ्ज्य, प्रक्षञ्ज्य, प्रचिक्षञ्जिष्य, प्रचाक्षञ्ज्य
क्षञ्जम् २, क्षञ्जित्वा २, 8 क्षञ्जम् २, क्षाञ्जम् २, क्षञ्जयित्वा २, चिक्षञ्जिषम् २, चिक्षञ्जिषित्वा २, चाक्षञ्जम्
चाक्षञ्जित्वा २।
प्रासङ्गिक्यः
01
=>
(२९५)
02
=>
(१-भ्वादिः-७६९। सक। सेट्। आत्म।)
03
=>
[[२। ‘संयोगान्तस्य लोपः’ (८-२-२३) इति जकारस्य लोपः।]]
04
=>
[[आ। ‘गोपीघटाः प्रव्यथितास्तदानीं पृथूपतापप्रसमानचिन्ताः। मृदुस्वभावाः स्खदिताः स्मरास्त्रैः प्रक्षञ्जिते प्राणसमे विषेदुः।।’ धा। का। २-४।]]
05
=>
[[३। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छील्ये युच्।]]
06
=>
[पृष्ठम्०३०८+ २४]
07
=>
[[१। धातोः षित्त्वात् ‘षिद्भिदादिभ्योऽङ्’ (३-३-१०४) इत्यङ्।]]
08
=>
[[२। घटादिषु पाठसामर्थ्यात् अनुपधात्वेऽपि ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-१-९३) इति दीर्घविकल्पः।]]