| YouTube Channel

क्विपि (kvipi)

 
कृदन्तरूपमाला
Sanskrit
1 {@“चीव भाषार्थः”@} 2 3 अस्य धातोरास्वदीयत्वेन, ‘आ स्वदः सकर्मकात्’ 4 इति वचनात्, कर्मसंज्ञकार्थान्वय्यर्थबोधकत्व एव णिज् भवति।
अकर्मकत्वे तु नेति बोद्धव्यम्।]] चीवकः-विका, चिचीवयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककीटयतिवत् 5 ज्ञेयानि।
6 चीवनम्,
क्विपि, 7 च्यूः-च्युवौ- च्युवः
इति रूपाणि।
8
प्रासङ्गिक्यः
01
=>
(५३१)
02
=>
(१०-चुरादिः-१७७५। सक। सेट्। उभ। आस्वदीयः)
03
=>
[[[अ]
04
=>
(ग। सू। चुरादौ)
05
=>
(१९४)
06
=>
[[B। ‘नाहं बर्हयताऽस्म्यबल्ह्यमपि भोः सर्वैरिदं गोप्यते तांस्त्वं धूपय विच्छयन् इव त्वच्चीवनात् पोथयेत्।।’ धा। का। ३। ४४।]]
07
=>
[[३। क्विपि, णिलोपे, ‘च्छ्वोः शूडनुनासिके च’ (६-४-१९) इति वकारस्य ऊठि, यणि रूपम्।]]
08
=>
[पृष्ठम्०५१७+ ३३]
1 {@“चीवृ आदानसंवरणयोः”@} 2 चीवकः-विका, चीवकः-विका, चिचीविषकः-षिका, चेचीवकः-विका
इत्यादीनि सर्वाण्यपि रूपाणि कत्थनार्थकभौवादिकचीभतिवत् 3 बोध्यानि।
अस्य धातोरुभयपदीत्वेन शतरि चीवन्-न्ती, चीवयन्-न्ती, चिचीविषन्-न्ती
चीविष्यन्-न्ती-ती, चीवयिष्यन्-न्ती-ती, चिचीविषिष्यन्- न्ती-ती
इति रूपाण्यधिकानि।
क्विपि, ‘च्छ्वोः शूडनुनासिके च’ 4 इत्यूठि, यणादेशे च्यूः-च्युवौ-च्युवः
इति रूपाणि।
‘छित्वर--’ 5 इत्यादिना वरचि प्रत्यये, ‘लोपो व्योर्वलि’ 6 इति धातुवकारस्य लोपे, ‘नेड् वशि कृति’ 7 इति इण्णिषेधे चीवरम् इति भवति।
8 चीवरम् = मुनीनां वसनम्।
प्रासङ्गिक्यः
01
=>
(५३२)
02
=>
(१-भ्वादिः-८७९। सक। सेट्। उभ।)
03
=>
(५३०)
04
=>
(६-४-१९)
05
=>
[द। उ। ८-४९]
06
=>
(६-१-६६)
07
=>
(७-२-८)
08
=>
[[आ। ‘प्रवुन्द्यवेणीजववेनमाना खातान्तिका चीवरिभिर्निषादैः।’ धा। का। २। २७।]]
1 {@“चुल समुच्छ्राये”@} 2 चोलकः-लिका, चुचोलयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिक- चोरयतिवत् 3 ज्ञेयानि।
सञ्चोलितम् 4।
क्विपि चोल्-चोलौ-चोलः
इति रूपाणीति, चोलना इति स्त्रियां युचि रूपमिति विशेषः।
प्रासङ्गिक्यः
01
=>
(५४७)
02
=>
(१०-चुरादिः-१६०२। सक। सेट्। उभ।)
03
=>
(५४६)
04
=>
[[आ। ‘सन्दोलयन्नधिकपोलितमद्रिराजं सञ्चोलितं सुबहुमूलितशाखिबृन्दैः।।’ धा। का। ३। २१।]]
1 {@“मुर संवेष्टने”@} 2 ‘--परिवेष्टने’ इति मा।
धा।
वृत्तिः।
मोरकः-रिका, मोरकः-रिका, मुमोरिषकः-मुमुरिषकः-षिका, मोमुरकः-रिका
मोरिता-त्री, मोरयिता-त्री, मुमोरिषिता-मुमुरिषिता-त्री, मोमुरिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककुरतिवत् 3 ज्ञेयानि।
क्विपि- मूः-मुरौ-मुरः
4 मुरः-मुरा, 5 मुरी इमानि रूपाण्यधिकानीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२८७)
02
=>
(६-तुदादिः-१३४३। सक। सेट्। पर।)
03
=>
(२२९)
04
=>
[[५। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कप्रत्ययः। मुरा = ओषधिविशेषः।]]
05
=>
[[६। गौरादिपाठात् (४-१-४१) स्त्रियां ङीषि रूपमेवम्।]]
1 {@“मुर्छा मोहसमुच्छ्राययोः”@} 2 मूर्छकः-र्छिका, मूर्छकः-र्छिका, मुमूर्छिषकः-षिका, मोमूर्छकः-र्छिका
मूर्छिता-त्री, मूर्छयिता-त्री, मुमूर्छिषिता-त्री, मोमूर्छिता-त्री
इत्यादीनि 3 सर्वाणि रूपाणि भौवादिककूजतिवत् 4 बोध्यानि।
5 मूर्तम्-मूर्तः-मूर्त- वान्।
क्विपि, मूः-मूर्छौ-मूर्छः
क्तिनि 6 मूर्तिः, 7 मूर्छितः, 8 मूर्छा, इत्यादीनि रूपाण्यस्य धातोः विशेषेण भवन्ति।
प्रासङ्गिक्यः
01
=>
(१२८८)
02
=>
(१-भ्वादिः-२१२। अक। सेट्। पर।)
03
=>
[पृष्ठम्१०४०+ २७]
04
=>
(२३९)
05
=>
[[१। निष्ठायाम्, ‘न ध्याख्यापॄमूर्छिमदाम्’ (८-२-५७) इति नत्वनिषेधे रूपमेवम्। ‘राल्लोपः’ (६-४-२१) इति छकारस्य लोपः। दीर्घः।]]
06
=>
[[२। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति क्तिचि रूपमेवम्।]]
07
=>
[[३। मूर्छाऽस्य सञ्जाता इत्यर्थे ‘तदस्य सञ्जातं तारकादिभ्य इतच्’ (५-२-३६) इतीतच्- प्रत्यये रूपम्।]]
08
=>
[[आ। ‘अहूर्णचित्ताः परिमूर्छितव्रताः स्फूर्णामया अप्रयुशः कृतोञ्छनाः।’ धा। का। १-२९।]]
1 {@“रस शब्दे”@} 2 ‘शब्दे शपि रसेत्, स्नेहास्वादयो रसयेद्रसेः।’ 3 इति देवः।
रासकः-सिका, रासकः-सिका, रिरसिषकः-षिका, रारसकः-सिका
रसिता-त्री, रासयिता-त्री, रिरसिषिता-त्री, रारसिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककशतिवत् 4 बोध्यानि।
क्विपि सुरः-सुरसौ-सुरसः
5 रसमानः- 6 7 रसः, वेदरासी, 8 रारस्यमानः
9 रस्नम्, अस्य धातोः इमानि रूपाण्यधिकानीति विशेषः।
10
प्रासङ्गिक्यः
01
=>
(१३८४)
02
=>
(१-भ्वादिः-७१३। अक। सेट्। पर।)
03
=>
(श्लोः १९३)
04
=>
(१७८)
05
=>
[[१। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इति ताच्छील्ये चानश्प्रत्यये रूपमेवम्।]]
06
=>
[[आ। ‘परिरम्भरुचिं ततिर्जलानामभिनद्धा रसम नसारसेन।।’ शि। व। ६-७५।]]
07
=>
[[२। पचाद्यचि (३-१-१३४) रूपमेवम्।]]
08
=>
[[B। ‘उच्चै रारस्यमानां तां कृपणां रामलक्ष्मणौ।’ भ। का। ५-९६।]]
09
=>
[[३। ‘तृषिशुषुरसिभ्यः कित्’ (द। उ। ५-४४) इति नप्रत्यये रूपम्। कित्त्वाद् वृद्धिः। रसतीति रस्नम् = द्रव्यजातिः।]]
10
=>
[पृष्ठम्११०९+ २७]
1 {@“वष हिंसार्थः”@} 2 ‘-- वधे’ इति वोपदेवः।
वाषकः-षिका, वाषकः-षिका, विवषिषकः-षिका, वावषकः-षिका
वषिता-त्री, वाषयिता-त्री, विवषिषिता-त्री, वावषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककषतिवत् 3 ऊह्यानि।
ल्युटि- वषणम्, क्विपि वट्-वड्-वषौ-वषः
इति।
‘वष्यम् = भक्षितम्, वषिः = खाद्यम्, वषिता = उदरम्भरिः’ इति काशकृत्स्नः।
प्रासङ्गिक्यः
01
=>
(१५७५)
02
=>
(१-भ्वादिः-६९१। सक। सेट्। पर।)
03
=>
(१७९)