क्विपि (kvipi)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“चीव भाषार्थः”@} 2 3 अस्य धातोरास्वदीयत्वेन, ‘आ स्वदः सकर्मकात्’ 4 इति वचनात्, कर्मसंज्ञकार्थान्वय्यर्थबोधकत्व एव णिज् भवति।
अकर्मकत्वे तु नेति बोद्धव्यम्।]] चीवकः-विका, चिचीवयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककीटयतिवत् 5 ज्ञेयानि।
6 चीवनम्, ।
क्विपि, 7 च्यूः-च्युवौ- च्युवः
इति रूपाणि।
8
01 (५३१)
02 (१०-चुरादिः-१७७५। सक। सेट्। उभ। आस्वदीयः)
03 [[[अ]
04 (ग। सू। चुरादौ)
05 (१९४)
06 [[B। ‘नाहं बर्हयताऽस्म्यबल्ह्यमपि भोः सर्वैरिदं गोप्यते तांस्त्वं धूपय विच्छयन् क इव न त्वच्चीवनात् पोथयेत्।।’ धा। का। ३। ४४।]]
07 [[३। क्विपि, णिलोपे, ‘च्छ्वोः शूडनुनासिके च’ (६-४-१९) इति वकारस्य ऊठि, यणि रूपम्।]]
08 [पृष्ठम्०५१७+ ३३]
1 {@“चीवृ आदानसंवरणयोः”@} 2 चीवकः-विका, चीवकः-विका, चिचीविषकः-षिका, चेचीवकः-विका
इत्यादीनि सर्वाण्यपि रूपाणि कत्थनार्थकभौवादिकचीभतिवत् 3 बोध्यानि।
अस्य धातोरुभयपदीत्वेन शतरि चीवन्-न्ती, चीवयन्-न्ती, चिचीविषन्-न्ती
चीविष्यन्-न्ती-ती, चीवयिष्यन्-न्ती-ती, चिचीविषिष्यन्- न्ती-ती
इति रूपाण्यधिकानि।
क्विपि, ‘च्छ्वोः शूडनुनासिके च’ 4 इत्यूठि, यणादेशे च्यूः-च्युवौ-च्युवः
इति रूपाणि।
‘छित्वर--’ 5 इत्यादिना वरचि प्रत्यये, ‘लोपो व्योर्वलि’ 6 इति धातुवकारस्य लोपे, ‘नेड् वशि कृति’ 7 इति इण्णिषेधे च चीवरम् इति भवति।
8 चीवरम् = मुनीनां वसनम्।
01 (५३२)
02 (१-भ्वादिः-८७९। सक। सेट्। उभ।)
03 (५३०)
04 (६-४-१९)
05 [द। उ। ८-४९]
06 (६-१-६६)
07 (७-२-८)
08 [[आ। ‘प्रवुन्द्यवेणीजववेनमाना खातान्तिका चीवरिभिर्निषादैः।’ धा। का। २। २७।]]
1 {@“चुल समुच्छ्राये”@} 2 चोलकः-लिका, चुचोलयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिक- चोरयतिवत् 3 ज्ञेयानि।
सञ्चोलितम् 4।
क्विपि चोल्-चोलौ-चोलः
इति रूपाणीति, चोलना इति स्त्रियां युचि रूपमिति च विशेषः।
01 (५४७)
02 (१०-चुरादिः-१६०२। सक। सेट्। उभ।)
03 (५४६)
04 [[आ। ‘सन्दोलयन्नधिकपोलितमद्रिराजं सञ्चोलितं सुबहुमूलितशाखिबृन्दैः।।’ धा। का। ३। २१।]]
1 {@“मुर संवेष्टने”@} 2 ‘--परिवेष्टने’ इति मा।
धा।
वृत्तिः।
मोरकः-रिका, मोरकः-रिका, मुमोरिषकः-मुमुरिषकः-षिका, मोमुरकः-रिका
मोरिता-त्री, मोरयिता-त्री, मुमोरिषिता-मुमुरिषिता-त्री, मोमुरिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककुरतिवत् 3 ज्ञेयानि।
क्विपि- मूः-मुरौ-मुरः
4 मुरः-मुरा, 5 मुरी इमानि रूपाण्यधिकानीति विशेषः।
01 (१२८७)
02 (६-तुदादिः-१३४३। सक। सेट्। पर।)
03 (२२९)
04 [[५। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कप्रत्ययः। मुरा = ओषधिविशेषः।]]
05 [[६। गौरादिपाठात् (४-१-४१) स्त्रियां ङीषि रूपमेवम्।]]
1 {@“मुर्छा मोहसमुच्छ्राययोः”@} 2 मूर्छकः-र्छिका, मूर्छकः-र्छिका, मुमूर्छिषकः-षिका, मोमूर्छकः-र्छिका
मूर्छिता-त्री, मूर्छयिता-त्री, मुमूर्छिषिता-त्री, मोमूर्छिता-त्री
इत्यादीनि 3 सर्वाणि रूपाणि भौवादिककूजतिवत् 4 बोध्यानि।
5 मूर्तम्-मूर्तः-मूर्त- वान्।
क्विपि, मूः-मूर्छौ-मूर्छः
क्तिनि 6 मूर्तिः, 7 मूर्छितः, 8 मूर्छा, इत्यादीनि रूपाण्यस्य धातोः विशेषेण भवन्ति।
01 (१२८८)
02 (१-भ्वादिः-२१२। अक। सेट्। पर।)
03 [पृष्ठम्१०४०+ २७]
04 (२३९)
05 [[१। निष्ठायाम्, ‘न ध्याख्यापॄमूर्छिमदाम्’ (८-२-५७) इति नत्वनिषेधे रूपमेवम्। ‘राल्लोपः’ (६-४-२१) इति छकारस्य लोपः। दीर्घः।]]
06 [[२। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति क्तिचि रूपमेवम्।]]
07 [[३। मूर्छाऽस्य सञ्जाता इत्यर्थे ‘तदस्य सञ्जातं तारकादिभ्य इतच्’ (५-२-३६) इतीतच्- प्रत्यये रूपम्।]]
08 [[आ। ‘अहूर्णचित्ताः परिमूर्छितव्रताः स्फूर्णामया अप्रयुशः कृतोञ्छनाः।’ धा। का। १-२९।]]
1 {@“रस शब्दे”@} 2 ‘शब्दे शपि रसेत्, स्नेहास्वादयो रसयेद्रसेः।’ 3 इति देवः।
रासकः-सिका, रासकः-सिका, रिरसिषकः-षिका, रारसकः-सिका
रसिता-त्री, रासयिता-त्री, रिरसिषिता-त्री, रारसिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककशतिवत् 4 बोध्यानि।
क्विपि सुरः-सुरसौ-सुरसः
5 रसमानः- 6 7 रसः, वेदरासी, 8 रारस्यमानः
9 रस्नम्, अस्य धातोः इमानि रूपाण्यधिकानीति विशेषः।
10
01 (१३८४)
02 (१-भ्वादिः-७१३। अक। सेट्। पर।)
03 (श्लोः १९३)
04 (१७८)
05 [[१। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इति ताच्छील्ये चानश्प्रत्यये रूपमेवम्।]]
06 [[आ। ‘परिरम्भरुचिं ततिर्जलानामभिनद्धा रसम नसारसेन।।’ शि। व। ६-७५।]]
07 [[२। पचाद्यचि (३-१-१३४) रूपमेवम्।]]
08 [[B। ‘उच्चै रारस्यमानां तां कृपणां रामलक्ष्मणौ।’ भ। का। ५-९६।]]
09 [[३। ‘तृषिशुषुरसिभ्यः कित्’ (द। उ। ५-४४) इति नप्रत्यये रूपम्। कित्त्वाद् न वृद्धिः। रसतीति रस्नम् = द्रव्यजातिः।]]
10 [पृष्ठम्११०९+ २७]
1 {@“वष हिंसार्थः”@} 2 ‘-- वधे’ इति वोपदेवः।
वाषकः-षिका, वाषकः-षिका, विवषिषकः-षिका, वावषकः-षिका
वषिता-त्री, वाषयिता-त्री, विवषिषिता-त्री, वावषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककषतिवत् 3 ऊह्यानि।
ल्युटि- वषणम्, क्विपि वट्-वड्-वषौ-वषः
इति।
‘वष्यम् = भक्षितम्, वषिः = खाद्यम्, वषिता = उदरम्भरिः’ इति काशकृत्स्नः।
01 (१५७५)
02 (१-भ्वादिः-६९१। सक। सेट्। पर।)
03 (१७९)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
