| YouTube Channel

क्लेशयमानः (klezayamAnaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“क्लिश उपतापे”@} 2 ‘व्यक्तोक्तौ क्लेशते क्लेशेः, क्लिश्नाति तु विबाधने।
दिवादेरुपतापेऽर्थे तङि स्यात् क्लिश्यते पदम्।।’ 3 इति देवः।
4 क्लेशकः-शिका, क्लेशकः-शिका, 5 चिक्लिशिषकः-चिक्लेशिषकः-षिका, चेक्लिशकः-शिका
क्लेशिता-त्री, क्लेशयिता-त्री, चिक्लिशिषिता-चिक्लेशिषिता-त्री, चेक्लिशिता-त्री
-- क्लेशयन्-न्ती, क्लेशयिष्यन्-न्ती-ती
-- -- 6 क्लिश्यमानः, क्लेशयमानः, चिक्लिशिषमाणः-चिक्लेशिषमाणः, चेक्लिश्यमानः
क्लेशिष्यमाणः, क्लेशयिष्यमाणः, चिक्लिशिषिष्यमाणः-चिक्लेशिषिष्यमाणः, चेक्लिशिष्यमाणः
7 क्लिट्-क्लिशौ-क्लिशः
-- -- -- 8 क्लिशितः- 9 तम्-तवान्, क्लिष्टम्-ष्टः-ष्टवान्, क्लेशितः-तम्, चिक्लिशिषितः-चिक्लेशिषितः, चेक्लिशितः-तवान्
क्लिशः, 10 क्लेशनः, 11 क्लेशकः, क्लेशः, चिक्लिशिषुः-चिक्लेशिषुः, चेक्लिशः
क्लेशितव्यम्, क्लेशयितव्यम्, चिक्लिशिषितव्यम्-चिक्लेशिषितव्यम्, चेक्लिशितव्यम्
क्लेशनीयम्, क्लेशनीयम्, चिक्लिशिषणीयम्-चिक्लेशिषणीयम्, चेक्लिशनीयम्
12 क्लेश्यम्, क्लेश्यम्, चिक्लिशिष्यम्-चिक्लेशिष्यम्, चेक्लिश्यम्
ईषत्क्लेशः-दुष्क्लेशः-सुक्लेशः
-- -- -- क्लिश्यमानः, क्लेश्यमानः, चिक्लिशिष्यमाणः-चिक्लेशिष्यमाणः, चेक्लिश्यमानः
13 क्लेशः, क्लेशः, चिक्लिशिषः-चिक्लेशिषः, चेक्लिशः
क्लेशितुम्, क्लेशयितुम्, चिक्लिशिषितुम्-चिक्लेशिषितुम्, चेक्लिशितुम्।
14 क्लिष्टिः, केशना, चिक्लिशिषा-चिक्लेशिषा, चेक्लिशा
15 क्लिशित्वा 16 -क्लिष्ट्वा, क्लेशयित्वा, चिक्लिशिषित्वा-चिक्लेशिषित्वा, चेक्लिशित्वा
विक्लिश्य, विक्लेश्य, विचिक्लिशिष्य-विचिक्लेशिष्य, विचेक्लिश्य
क्लेशम् २, क्लिशित्वा२-क्लिष्ट्वा २, क्लेशम् २, क्लेशयित्वा २, चिक्लिशिषम् २- चिक्लेशिषम् २, चिक्लिशिषित्वा २- चिक्लेशिषित्वा २, चेक्लिशम्
चेक्लिशित्वा २। 17 कीनाशः,
प्रासङ्गिक्यः
01
=>
(२८७)
02
=>
(४-दिवादिः-११६१। अक। सेट्। आत्म।)
03
=>
(श्लो। १६३-४)
04
=>
[पृष्ठम्०२९८+ २०]
05
=>
[[१। ‘रलो व्युपधाद्धलादेस्संश्च’ (१-२-२६) इति सनः कित्त्वविकल्पाद्रूपद्वयम्।]]
06
=>
[[२। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्। श्यनो ङिद्वद्भावादङ्गस्य गुणो न।]]
07
=>
[[३। ‘व्रश्च भ्रस्ज--’ (८-२-३६) इत्यादिना षत्वे, चश्त्वे चर्त्वम्।]]
08
=>
[[४। ‘क्लिशः क्त्वानिष्ठयोः’ (७-२-५०) इति इड्विकल्पः।]]
09
=>
[[आ। ‘मायाभिस्सुचिरं क्लिष्टवा राक्षसोऽक्लिशितक्रियम्।’ भ। का। ९। ३८।]]
10
=>
[[५। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युचू ताच्छीलिकः।]]
11
=>
[[६। ‘निन्दहिंसक्लिशखाद--’ (३-२-१४६) इत्यादिना वुञ् ताच्छीलिकः।]]
12
=>
[[B। ‘अक्लेश्यमसिनाऽग्न्यन्तं कबन्धवधमभ्यधुः।’ भ। का। ७-७८।]]
13
=>
[[C। ‘देवौघस्य तपन् भुवं पतिता वावृत्तभूमाऽप्यसौ वृत्तक्लेशलबैरकाश्यत समं संवाश्यमानैस्स्वकैः।।’ धा। का। २-६०।]]
14
=>
[पृष्ठम्०२९९+ २२]
15
=>
[[आ। ‘अमृडित्वा सहस्राक्षं क्लिशित्वा कौशलैर्निजैः।’ भ। का। ७। ९६।]]
16
=>
[[१। ‘क्लिशः क्त्वानिष्ठयोः’ (७-२-५०) इति वेट्। इट्पक्षे ‘मृडमृद--’ (१-२-७) इत्यादिना नित्यकित्त्वम्।]]
17
=>
[[२। ‘क्लिशेरीच्चोपधायाः कन् लोपश्च लोनाम्’ (द। उ। ९। १।) इति कन्प्रत्यये कीनाशः = कदर्यो जनः।]]
1 {@“क्लिशू विबाधने”@} 2 3 ‘एवमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम्।’ 4 इत्यादि- प्रयोगात् सकर्मकत्वमप्यस्य धातोरिति ज्ञायते।]] ‘व्यक्तोक्तौ क्लेशते क्लेशेः, क्लिश्नाति तु विबाधने।
दिवादेरुपतापेऽर्थे तङि स्यात् क्लिश्यते पदम्।।’ 5 इति देवः।
क्लेशः-शिका, क्लेशकः-शिका, 6 चिक्लिशिषकः-चिक्लेशिषकः-षिका, 7 चिक्लिक्षकः-क्षिका, चेक्लिशकः-शिका
क्लेशिता-त्री-क्लेष्टा-ष्ट्री, क्लेशयिता-त्री, चिक्लिशिषिता-चिक्लेशिषिता-त्री, चिक्लिक्षिता-त्री, चेक्लिशिता-त्री
8 क्लिश्नन् 9 -ती, क्लेशयन्-न्ती, चिक्लिशिषन्-चिक्लेशिषन्-चिक्लिक्षन्-न्ती
-- 10 क्लेशिष्यन्-क्लेक्ष्यन्-न्ती-ती, क्लेशयिष्यन्-न्ती-ती, चिक्लिशिषिष्यन्-चिक्लेशिषिष्यन्-चिक्लिक्षिष्यन्-न्ती-ती
-- -- क्लेयमानः, क्लेशयिष्यमाणः, चेक्लिश्यमानः, चेक्लिशिष्यमाणः
11 क्लिट्-क्लिशौ-क्लिशः, 12 क्लेट्-क्लेशौ-क्लेशः
-- -- 13 क्लिशितम्-तः- 14 तवान्, क्लिष्टम्-ष्टः-ष्टवान्, क्लेशितः-तम्, चिक्लिशिषितः-चिक्लेशिषितः-चिक्लिक्षितः-तवान्, चेक्लिशितः-तवान्
क्लिशः, 15 क्लेशकः 16, क्लेशः, चिक्लिशिषुः-चिक्लेशिषुः-चिक्लिक्षुः, चेक्लिशः
क्लेशितव्यम्-क्लेष्टव्यम्, क्लेशयितव्यम्, चिक्लिशिषितव्यम्-चिक्लेशिषितव्यम्-चिक्लिक्षितव्यम्, चेक्लिशितव्यम्
क्लेशनीयम्, क्लेशनीयम्, चिक्लिशिषणीयम्-चिक्लेशिषणीयम्-चिक्लिक्षणीयम्, चेक्लिशनीयम्
क्लेशयम्, क्लेश्यम्, चिक्लिशिष्यम्-चिक्लेशिष्यम्-चिक्लिक्ष्यम्, चेक्लिश्यम्
ईषत्कलेशः-दुष्क्लेशः-सुक्लेशः
-- -- -- क्लिश्यमानः, क्लेश्यमानः, चिक्लिशिष्यमाणः-चिक्लेशिष्यमाणः-चिक्लिक्ष्यमाणः, चेक्लिश्यमानः
क्लेशः, क्लेशः, चिक्लिशिषः-चिक्लेशिषः-चिक्लिक्षः, चेक्लिशः
क्लेशितुम्-क्लेष्टुम्, क्लेशयितुम्, चिक्लिशिषितुम्-चिक्लेशिषितुम्-चिक्लिक्षितुम्, चेक्लिशितुम्
क्लिष्टिः, क्लेशना, चिक्लिशिषा-चिक्लेशिषा-चिक्लिक्षा, चेक्लिशा
क्लेशनम्, क्लेशनम्, चिक्लिशिषणम्-चिक्लेशिषणम्-चिक्लिक्षणम्, चेक्लिशनम्
17 18 क्लिशित्वा 19 -क्लिष्ट्वा, 20 21 अलंक्लिशित्वा 22, क्लेशयित्वा, चिक्लिशिषित्वा-चिक्लेशिषित्वा-चिक्लिक्षित्वा, चेक्लिशित्वा
परिक्लिश्य, परिक्लेश्य, परिचिक्लिशिष्य-परिचिक्लि{??}शिष्य-परिचिक्लिक्ष्य, परिचेक्लिश्य
क्लेशम् २, क्लिशित्वा २, क्लिष्ट्वा २, क्लेशम् २, क्लेशयित्वा २, चिक्लिशिषम् -चिक्लेशिषम् -चिक्लिक्षम् २, चिक्लिशिषित्वा -चिक्लेशिषित्वा -चिक्लिक्षित्वा २, चेक्लिलशम्
चेक्लिशित्वा २।
प्रासङ्गिक्यः
01
=>
(२८८)
02
=>
(९-क्र्यादिः-१५२२-अक। वेट्। पर।)
03
=>
[[[अ]
04
=>
(कुमारसम्भवे २-४०)
05
=>
(श्लो। १६३-१६४)
06
=>
[[३। ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इतीड्विकल्पे, ‘रलो व्युपधात्-- (१-२-२६) इति कित्त्वविकल्पः। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
07
=>
[[४। इडभावपक्षे ‘व्रश्च--’ (८-२-३६) इत्यादिना षत्वे ‘षढोः कः सि’ (८-२-४१) इति कः।]]
08
=>
[[५। ‘क्र्यादिभ्यः श्ना’ (३-१-८१) इति श्ना। ‘श्नाऽभ्यस्तयोः--’ (६-४-११२)’ इत्याकारलोपः। ‘शात्’ (८-४-४४) इति श्चुत्वनिषेधः।]]
09
=>
[[B। ‘आधोरणानपि दन्तवरेण तुभ्नन् क्लिश्नन् मतिं पलसुरादिकमश्नतां सः।’ धा। का। ३-११।]]
10
=>
[पृष्ठम्०३००+ १९]
11
=>
[[१। ‘व्रश्च भ्रस्ज--’ (८-२-३६) इत्यादिना षत्वे जश्त्वचर्त्वयोरूपम्।]]
12
=>
[[२। ‘अन्येभ्योऽपि--’ (३-२-७५) इत्यादिना विच्। गुणः।]]
13
=>
[[३। ‘क्लिशः क्त्वानिष्ठयोः’ (७-२-५०) इति वा इट्। ‘यस्य विभाषा’ (७-२-१५) इत्यस्य बाधकः।]]
14
=>
[[आ। ‘उपद्रुतश्चिरं द्वन्द्वैर्ययोः क्लिशितवानहम्।।’ भ। का। २२-७।]]
15
=>
[[४। ‘निन्दहिंसक्लिशखाद--’ (३-२-१४६) इत्यादिना ताच्छील्ये वुञ्।]]
16
=>
[[B। ‘निन्दको रजनिम्मन्यं दिवसं क्लेशको निशाम्।’ भ। का। ७-१३।]]
17
=>
[पृष्ठम्०३०१+ २३]
18
=>
[[आ। ‘चिरं क्लिशित्वा मर्मावित् रामो विलुभितप्लवम्।’ भ। का। ५-५२।]]
19
=>
[[१। ‘क्लिशः क्त्वानिष्ठयोः’ (७-२-५०) इति वा इट्। ‘मृडमृद--’ (१-२-७) इत्या- दिना नित्यं कित्त्वम्।]]
20
=>
[[B। ‘मायाभिः सुचिरं क्लिष्ट्वा राक्षसोऽक्लिशितक्रियम्।’ भ। का। ९-३८।]]
21
=>
[[२। ‘अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा’ (३-४-१८) इति क्त्वा।]]
22
=>
[[C। ‘अलं क्लिशित्वा गुरुमल्पकोऽयं विधिस्त्वदाज्ञैव गरीयसी नः’। अनर्घराघवे २-५७।]]
1 {@“क्लेश अव्यक्तायां वाचि”@} 2 ‘व्यक्तोक्तौ क्लेशते क्लेशेः, क्लिश्नाति तु विबाधने।
दिवादेरुपतापेऽर्थे तङि स्यात् क्लिश्यते पदम्।।’ 3 इति देवः।
‘बाधने’ इत्येके।
‘उपतापे’ इति कविकल्पद्रुमे।
‘व्यक्तायां वाचि’ इति देववचनादवगम्यते।
क्लेशकः-शिका, क्लेशकः-शिका, शिक्लेशिषकः-षिका, चेक्लेशकः-शिका
क्लेशिता-त्री, क्लेशयिता-त्री, चिक्लेशिषिता-त्री, चेक्लेशिता-त्री
-- क्लेशयन्-न्ती, क्लेशयिष्यन्-न्ती-ती
-- -- क्लेशमानः, क्लेशयमानः, चिक्लेशिषमाणः, चेक्लेश्यमानः
4 क्लेशिष्यमाणः, क्लेशयिष्यमाणः, चिक्लेशिषिष्यमाणः, चेक्लेशिष्यमाणः
विक्लेट्-विक्लेशौ-विक्लेशः
-- -- -- क्लेशितम्-तः, क्लेशितः-तम्, चिक्लेशिषितः, चेक्लेशितः-तवान्
क्लेशः, 5 शनः, क्लेशः, चिक्लेशिषुः, चेक्लेशः
क्लेशितव्यम्, क्लेशयितव्यम्, चिक्लेशिषितव्यम्, चेक्लेशितव्यम्
क्लेशनीयम्, क्लेशनीयम्, चिक्लेशिषणीयम्, चेक्लेशनीयम्
क्लेश्यम्, क्लेश्यम्, चिक्लेशिष्यम्, चेक्लेश्यम्
ईषत्क्लशः-दुष्क्लेशः-सुक्लेशः
-- -- क्लेश्यमानः, क्लेश्यमानः, चिक्लेशिष्यमाणः, चेक्लेश्यमानः
क्लेशः, क्लेशः, चिक्लेशिषः, चेक्लेशः
क्लेशितुम् क्लेशयितुम्, चिक्लेशिषितुम्, चेक्लेशितुम्
6 क्लेशा, क्लेशना, चिक्लेशिषा, चेक्लेशा
क्लेशनम्, क्लेशनम्, चिक्लेशिषणम्, चेक्लेशनम्
क्लेशित्वा, क्लेशयित्वा चिक्लेशिषित्वा, चेक्लेशित्वा
7 विक्लेश्य, विक्लेश्य, प्रचिक्लेशिष्य, प्रचेक्लेश्य
क्लेशम् २, क्लेशित्वा २, क्लेशम् २, क्लेशयित्वा २, चिक्लेशिषम् २, चिक्लेशिषित्वा २, चेक्लेशम्
चेक्लेशित्वा २।
प्रासङ्गिक्यः
01
=>
(२९२)
02
=>
(१-भ्वादिः-६०७। अक। सेट्। आत्म।)
03
=>
(श्लो। १६३-१६४)
04
=>
[[आ। ‘सङ्क्लेशितस्वकथदक्षणदीक्षितं तं प्रेक्ष्यैष जन्मफलमीषितवान् महात्मा।।’ धा। का। १-७७। सङ्क्लेशिता = सम्यक् कथिता स्वकया यैः तेषां दक्षणे = वर्धनायां जीवने वा दीक्षितं सम्प्राप्तव्रतम्--इति (धातुकाव्ये १-७७) व्याख्यातम्।]]
05
=>
[[१। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छील्ये युच्।]]
06
=>
[[२। ‘गुरोश्च हलः’ (३-३-१०३) इति अप्रत्ययः।]]
07
=>
[पृष्ठम्०३०५+ २४]