| YouTube Channel

क्लेदम् (kledam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“क्लिदू आद्रींभावे”@} 2 ‘क्लिन्दते क्लिन्दतीत्येवमिदितः परिदेवने।
क्लिद्यतीत्यार्द्रभावेऽर्थे क्लिदेः श्यन्यूदितो भवेत्।।’ 3 इति देवः।
क्लेदकः-दिका, क्लेदकः-दिका, 4 चिक्लिदिषकः-चिक्लेदिषकः-षिका, 5 चिक्लित्सकः-त्सिका, चेक्लिदकः-दिका
क्लेदिता-क्लेत्ता-त्री, क्लेदयिता-त्री, चिक्लिदिषिता-चिक्लेदिषिता-चिक्लित्सिता-त्री, चेक्लिदिता-त्री
6 क्लिद्यन् 7 -न्ती, क्लेदयन्-न्ती, चिक्लिदिषन्-चिक्लेदिषन्-चिक्लित्सन्-न्ती
) क्लेदिष्यन्-क्लेत्स्यन्-न्ती-ती, क्लेदयिष्यन्-न्ती-ती, चिक्लिदिषिष्यन्-चिक्लेदिषिष्यन्-चिक्लित्सिष्यन्-ती-न्ती -- क्लेदयमानः, क्लेदयिष्यमाणः, चेक्लिद्यमानः, चेक्लिदिष्यमाणः
विक्लित्-विक्लिदौ-विक्लिदः
-- -- 8 क्लिन्नम्-क्लिन्नः-क्लिन्नवान्, क्लेदितः-तम्, चिक्लिदिषितः-चिक्लेदिषितः-चिक्लित्सितः-चेक्लिदितः-तवान्
9 10 क्लिदः, क्लेदः, चिक्लिदिषुः-चिक्लेदिषुः-चिक्लित्सुः, चेक्लिदः
क्लेदितव्यम्-क्लेत्तव्यम्, क्लेदयितव्यम्, चिक्लिदिषितव्यम्-चिक्लेदिषि-तव्यम्-चिक्लित्सितव्यम्, चेक्लिदितव्यम्
क्लेदनीयम्, क्लेदनीयम्, चिक्लिदिषणीयम्-चिक्लेदिषणीयम्-चिक्लि-त्सनीयम्, चेक्लिदनीयम्
क्लेद्यम्, क्लेद्यम्, चिक्लिदिष्यम्-चिक्लेदिष्यम्-चिक्लित्स्यम्, चेक्लिद्यम्
ईषत्क्लेदः-दुष्क्लेदः-सुक्लेदः
-- -- -- क्लिद्यमानः, क्लेद्यमानः, चिक्लिदिष्यमाणः-चिक्लेदिष्यमाणः-चिक्लित्स्यमानः, चेक्लिद्यमानः
क्लेदः, 11 चिक्लिदः, क्लेदः, चिक्लिदिषः-चिक्लेदिषः-चिक्लित्सः, चेक्लिदः
क्लेदितुम्-क्लेत्तुम्, क्लेदयितुम्, चिक्लिदिषितुम्-चिक्लेदिषितुम्-चिक्लित्सितुम्, चेक्लिदितुम्
विक्लित्तिः, क्लेदना, चिक्लिदिषा-चिक्लेदिषा-चिक्लित्सा, चेक्लिदा
क्लेदनम्, क्लेदनम्, चिक्लिदिषणम्-चिक्लेदिषणम्-चिक्लित्सनम्, चेक्लिदनम्
12 क्लिदित्वा-क्लेदित्वा-क्लित्त्वा, क्लेदयित्वा, चिक्लिदिषित्वा-चिक्लेदिषित्वा-चिक्लित्सित्वा
चेक्लिदित्वा, विक्लिद्य, विक्लेद्य, विचिक्लिदिष्य-विचिक्लेदिष्य-विचिक्लित्स्य, विचेक्लिद्य
क्लेदम् २, क्लिदित्वा २- क्लेदित्वा -क्लित्त्वा २, क्लेदम् २, क्लेदयित्वा २, चिक्लिदिषम् -चिक्लिदिषित्वा -चिक्लेदिषम् -चिक्लित्सम् २, चिक्लेदिषित्वा -चिक्लित्सित्वा २, चेक्लिदम्
चेक्लिदित्वा २।
प्रासङ्गिक्यः
01
=>
(२८६)
02
=>
(४-दिवादिः-१२४२। अक। सेट्। पर।)
03
=>
(श्लो। १०२)
04
=>
[[१। ‘रलोव्युपधाद्धलादेः संश्च’ (१-२-२६) इति सनः कित्त्वविकल्पः। कित्त्वा- भावे गुणः। कित्त्वपक्षे गुणाभावः।]]
05
=>
[[२। ऊदित्त्वात् ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इति इड्विकल्पः। इडभाव- पक्षे ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वम्। एवं सन्नन्ते सर्वत्र रूपत्रयं बोध्यम्।]]
06
=>
[[३। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्। श्यनो ङिद्वद्भावात् आङ्गस्य गुणाभावः।]]
07
=>
[[आ। नभ्यांस्तुभ्य विभो जयेति नुवते क्लिद्यन् प्रमेद्युद्रजं क्ष्विद्यन् ऋद्धिमघृध्नवेऽपि विमृश्याक्षीयमाणां ददौ।।’ धा। का। २-६७। क्लिद्यन् आर्द्रीभवन्-इत्यर्थः।]]
08
=>
[[४। ऊदित्त्वेन वैकल्पिकेट्त्वात् ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायां इण्णिषेधः। ‘रदाभ्यां निष्ठातो नः--’ (८-२-४२) इति निष्ठानत्वम्।]]
09
=>
[पृष्ठम्०२९७+ १९]
10
=>
[[१। ‘इगुपधज्ञाप्रीकिरः कः--’ (३-१-१३५) इति कर्तरि कः प्रत्ययः।]]
11
=>
[[२। ‘घञर्थे कविधानम्--’ (वा। ३-३-५८) इति कः ‘द्वित्वप्रकरणे के कृञादीनाम्--’ (वा। ६-१-१।) इति द्वित्वम्। चिक्लिदो = रसभेदः।]]
12
=>
[[३। ऊदित्त्वादिड्विकल्पः। कित्त्वपक्षे गुणः। कित्त्वाभावपक्षे गुणः। इडभावपक्षे ‘क्लित्त्वा’ इति रूपम्।]]