| YouTube Channel

क्लीवः (klIvaH)

 
Apte Hindi
Hindi
क्लीवः
पुं*
- क्लीव् +
"नामर्द, हिजड़ा"
क्लीवः
पुं*
- क्लीव् +
नपुंसक लिंग
शब्दकल्पद्रुमः
Sanskrit
क्लीवः, पुं
क्ली,
(क्लीवृङ अध्यार्ष्ट्ये “इगुपधेति” ।१ १३५ इति कः ।) स्त्रीपुरुषभिन्नः ।तत्पर्य्यायः पण्डः नपुंसकम् तृतीयाप्रकृतिः ४शण्डः इत्यमरः ३९
तृतीयप्रकृतिः ६षण्डः सण्डः शण्ढः इति तट्टीका
पुरष-त्वहीनः तस्य लक्षणम् यथा, उद्वाहतत्त्वे ।“न मूत्रं फेनिलं यस्य विष्ठा चाप्सु निमज्जति ।मेढ्रश्चोन्मादशुक्राभ्यां हीनः क्लीवः उच्यते”
(यथा, पराशरसंहितायाम् ।“नष्टे मृते प्रव्रजिते क्लीवे पतिते पतौ ।पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते”
क्लीवस्तु चतुर्द्दशप्रकारः यथाह नारदः ।“चतुर्द्दशविधः शास्त्रे षण्डो दृष्टो मनीषिभिः ।चिकित्स्यश्चाचिकित्स्यश्च तेषामुक्तो विधिः क्रमात्
निसर्गषण्डोऽनण्डश्च पक्षषण्डस्तथैव ।अभिशापाद्गुरो रोगाद् देवक्रोधात् तथैव
ईर्ष्याषण्डस्तथाऽसेक्यो वातरेता मुखेभगः ।आक्षेप्ता मोघवीजश्च शालीनोऽन्यापतिस्तथा
तत्राद्यावप्रतीकार्य्यौ पक्षाख्यं मासमाचरेत् ।अनुक्रमात् त्रयस्याथ कालः संवत्सरः स्मृतः
ईर्ष्याषण्डादयो येऽन्ये चत्वारः समुदाहृताः ।त्यक्तव्यास्ते पतितवत् क्षतयोन्या अपि स्त्रियाः
आक्षेप्तृमोघवीजाभ्यां कृतेपि पतिकर्म्मणि ।पतिरन्यः स्मृतो नार्य्या वत्सरार्द्धं प्रतीक्ष्य तु
शालीनस्यापि दृष्टस्त्री संयोगादुच्छ्रयेद्ध्वजः ।तं हीनवेगमन्यस्त्रीबालाद्याभिरुपाचरेत्
अन्यस्यां यो मनुष्यः स्यादमनुष्यः स्वयोषिति ।लभेत स्वाम्यं भर्त्ता नो एतत्कार्य्यं प्रजाकृते
अपत्यार्थं स्त्रियः सृष्टाः स्त्रीक्षेत्रं वीजिनो नराः ।क्षेत्रं वीजवते देयं सवीजी क्षेत्रमर्हति”
)
क्लीवः, त्रि, बिक्रमहीनः इत्यमरः २१२ ।(यथा, महाभारते अर्ज्जुनाभिगमने ३३ १३ ।“कच्चिद्राजन् निर्व्वेदादापन्नः क्लीवजीविकाम्”
धर्म्मकार्य्यादौ निरुत्साहः यथा, मनौ १६५ ।“आचारहीनः क्लीवश्च नित्यं याचनकस्तथा”
)