क्लिष्टा (kliSTA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishक्लिष्टा [kliṣṭā], A kind of चित्तवृत्ति as laid down in the पात- ञ्जलयोगशास्त्र.
Apte Hindi
Hindiक्लिष्टा
- -
पातञ्जल योगशास्त्र में बताई हुई चित्तवृत्ति का एक भेद
L R Vaidya
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Kridanta Forms
Sanskritक्लिश् (क्लि꣡शँ॒ उपतापे - दिवादिः - सेट्)
ल्युट् = क्लेशनम्
अनीयर् = क्लेशनीयः - क्लेशनीया
ण्वुल् = क्लेशकः - क्लेशिका
तुमुँन् = क्लेशितुम्
तव्य = क्लेशितव्यः - क्लेशितव्या
तृच् = क्लेशिता - क्लेशित्री
क्त्वा = क्लिशित्वा / क्लिष्ट्वा
ल्यप् = प्रक्लिश्य
क्तवतुँ = क्लिशितवान् / क्लिष्टवान् - क्लिशितवती / क्लिष्टवती
क्त = क्लिशितः / क्लिष्टः - क्लिशिता / क्लिष्टा
शानच् = क्लिश्यमानः - क्लिश्यमाना
क्लिश् (क्लि꣡शूँ꣡ विबाधने - क्र्यादिः - वेट्)
ल्युट् = क्लेशनम्
अनीयर् = क्लेशनीयः - क्लेशनीया
ण्वुल् = क्लेशकः - क्लेशिका
तुमुँन् = क्लेशितुम् / क्लेष्टुम्
तव्य = क्लेशितव्यः / क्लेष्टव्यः - क्लेशितव्या / क्लेष्टव्या
तृच् = क्लेशिता / क्लेष्टा - क्लेशित्री / क्लेष्ट्री
क्त्वा = क्लिशित्वा / क्लिष्ट्वा
ल्यप् = प्रक्लिश्य
क्तवतुँ = क्लिशितवान् / क्लिष्टवान् - क्लिशितवती / क्लिष्टवती
क्त = क्लिशितः / क्लिष्टः - क्लिशिता / क्लिष्टा
शतृँ = क्लिश्नन् - क्लिश्नती
वाचस्पत्यम्
Sanskritक्लिष्टा स्त्री क्लिष्टं क्लेशः अस्त्यस्याम् अच् । पातञ्जलोक्तेचित्तवृत्तिभेदे यथा“वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः” सू०“क्लेशहेतुकाः कर्म्माशयप्रचयक्षेत्रीभूताः क्लिष्टाः । ख्याति-विषया गुणाधिकारविरोधिन्योऽक्लिष्टाः क्लिष्टप्रवाहपतिताअप्यक्लिष्टाः । क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति । अक्लिष्ट-च्छिद्रेषु क्लिष्टा इति । तथाजातीयकाः संस्काराः वृत्ति-भिरेव क्लिश्यन्ते संस्कारैश्च वृत्तय इति एव वृत्तिसस्कारचक्रमनिशमावर्त्तते तदेवम्भूतं चित्तमवसिताधिकारमात्मकल्पेनावतिष्ठते प्रलयं वा गच्छतीति । ताः क्लिष्टाश्चपञ्चधा वृत्तयः” भा०“स्यादेतत् पुरुषो हि शक्ये, उपदिश्यते । न च वृत्तिनि-रोधो वृत्तीरविज्ञाय शक्यो, न च सहस्रेणापि पुरुषा-युषैरलमिमाः कैश्चित् परिगणयिंतुमसख्याताश्च कथनिरोधव्या इत्याशङ्क्य तासामियत्तास्वरूपप्रतिपादनपरसूत्रमवतारयति ताः पुनर्निरोद्धव्या बहुत्वे सतिचित्तस्य व्र्त्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः । वृत्तिरूपोऽ-वयव्येकः । तस्य प्रमाणादयोऽवयवाः पञ्च ततस्तदवयवाःपञ्चतय्यः पञ्चावयवा वृत्तिर्भवति ताश्च वृत्तयश्चैत्रमैत्रादिचित्त--भेदात् बह्व्य इति बहुवचनमुपपन्नम् एतदुक्तं भवतिचैत्रो वा मैत्रो व काश्चित्सर्व्वेषामेव तेषां वृत्तयः पञ्चतय्यःएव नाधिकैति! चित्तस्येति चैकवचनं जात्यभिप्रायं चि-त्तानामिति तु द्रष्टव्यम् । तासामवान्तरविशेषमनुष्ठानोप-योगिनं दर्शयति । क्लिष्टाऽक्लिष्टा इति । अक्लिष्टा उपा-देयाः क्लिष्टा निरोद्धव्यास्ता अपि परेण वैराग्येणेति ।अस्य व्याख्यानम् । क्लेशहेतुका इति । क्लेशाः अस्मितादयोहेतवः प्रवृत्तिकारणं यासां वृत्तीनान्तास्तथोक्ताः । यद्वापुरुषार्थं प्रधानस्य रजस्तमोमयीनां हि वृत्तीनां क्लेशका-रित्वेन क्लेश्यैव प्रवृत्तिः क्लेशः क्लिष्टम् तदासामस्तीतिक्लिष्टा इति । यत एव क्लेशोपार्जनार्थममूषां प्रवृत्तिरत-एव कर्म्माशयप्रचयक्षेत्रीभूताः प्रमाणादिकाः । खल्वयं प्र-तिपत्त्यर्थमवसाय तत्र सक्तोद्विष्टो वा कर्म्माशयमाचिनो-तीति भवन्ति धर्म्माधर्म्मप्रचयप्रसवभूमयो वृत्तयःक्लिष्टा इति अक्लिष्टा व्याचष्टे ख्यातिविषया इति ।विधूतरजस्तमसो बुद्धिसत्वस्य प्रशान्तवाहिनः प्रज्ञाप्रसादःख्यातिस्तया विषयिण्या तद्विषयं सत्वपुरुषविवेकमुपलक्षयतितेन सत्वपुरुषविवेकविषया यतः अतएव गुणाविकारविरोधिन्यः कार्य्यकरणं हि गुणानामधिकारो विवेकख्या-तिपर्य्यवसानञ्च त दति चरिताधिकाराणां तु गुणानाम-धिकारं विरुन्धति इति अतस्ता अक्लिष्टाः प्रमाणप्रभृतयोवृत्तयः । स्यादेतत् वीतरागजन्मादर्शनात् क्लिष्टवृत्तयएव सर्व्वप्राणभृतां न च क्लिष्टवृत्तिप्रवाहे भवितुमर्हन्त्य-क्लिष्टवृत्तयः । नचामूषां भावेऽपि कार्य्यकारिता विरोधि-मध्यपातित्वात् । तस्मात् क्लिष्टानामक्लिष्टाभिर्निरेध-स्तासां च वैराग्येण परेणेति मनोरथमात्रमित्यतआह । क्लिष्टप्रवाहेति । आगमानुमानाचार्य्योपदेशप-रिशीलनलब्धजन्मनी अभ्यासवैराग्ये क्लिष्टच्छिद्रान्तरे तत्रपतिताः स्वयमक्लिष्टाएव यद्यपि क्लिष्टप्रवाहपतिताः । नस्वलु विशालग्रामे किरातशतसङ्कीर्णे प्रतिवसन्नपि व्राह्म-णः किरातो भवति । अक्लिष्टच्छिद्रेष्विति निर्दशनम् ।क्लिष्टान्तर्वर्त्तितया च क्लिष्टाभिरनभिभूता अक्लिष्टाः स्वसंस्कारपरिपाकक्रमेण क्लिष्टा एव तावदभिभवन्तीत्याह तथाजातीयका इति । अक्लिष्टाभिर्वृत्तिभिरक्लिष्टाःसंस्कारा इत्यर्थः । तदिदं वृत्तिसंस्कार, अक्रमनिशमावर्त्तते आनिरोधसमाधेः तदेवंभूतञ्चित्तं निरोधावस्थंसंस्कारशेषं भूत्वात्मकल्पेनाबतिष्ठत इत्यापाततः । प्रलयंवा गच्छतीति परमार्थतः । पिण्डीकृत्य सूत्रार्थमाह ।ता इति षञ्चधेत्यर्थकथनमार्थंन तु शब्दवृत्तिव्याख्यानंतयपः प्रकारेऽस्मरणात् । ताः स्वसंज्ञाभिरुद्दिशति” विव०“प्रमाणविपर्य्ययविकल्पनिद्रास्मृतयः” सू०“निर्द्देशे यथावचनं विग्रहश्चार्थे द्वन्द्वसमास इतरेतरयोगः ।यथाऽनित्याऽशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्याति-रविद्येत्युक्तेऽपि न दिङ्मोहालातचक्रादिविभ्रम व्युद-स्यन्ते । एवमिहापि प्रमाणाद्यभिधानेऽपि वृत्त्यन्तरसद्भा-वशङ्कान व्युदस्येति तन्निरासाय वक्तव्यं पञ्चतस्य इतिएतावत्य एव वृत्तयोनापराः सन्तीति दर्शितं भवति” विव०
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
