क्लिश (kliza)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishShabdartha Kaustubha
Kannadaक्लिश - उपतापे (दिवा० आत्म० अक० से०) क्लिश्यते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಬಾಧೆ ಪಡು /ಯಾತನೆ ಹೊಂದು
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुपाठः (Krishnacharya)
Sanskrit क्लिश्
क्लिश
उपतापे
दिवादिः
अकर्मकः
सेट्
आत्मनेपदी
क्लिश्यते
धातुप्रदीपः
Sanskritक्लिशँ क्लिश उपतापे
- क्लिश्यते चिक्लिशे क्लेशिता क्लिष्टः क्लिशितः क्लेश्यम् क्लेशः क्लिशित्वा क्लिष्ट्वा क्लिश्नातीति क्लिशू विवाधन इति क्र्य्यादिपठितस्य 55
शब्दकल्पद्रुमः
Sanskritक्लिश, य उ ञ उपतापे । इति कविकल्पद्रुमः ॥
(दिवां--उभं--अकं--सकंच--सेट् । उदित्वात् क्त्वावेट् ।) य ञ, क्लिश्यति क्लिश्यते । उ, क्लिशित्वाक्लिष्ट्वा । उपताप इह उपतप्तीभावः । तत्करणञ्च ।क्लिश्यते न च निष्फलमिति हलायुधः । क्लिश्यतेकृपणः स्वर्गमपीति चतुर्भुजः । अन्ये त्वस्मात् परस्मै-पदममन्यमानाः क्लिश्यन्नपि हि मेधावीति । प्रत्या-सन्नतुषारदीधितिकरक्लिश्यत्तमो वल्लवीत्यादि चक्लिशं करोतीति कण्ड्वादित्वात् क्ये शत्रन्तमाहुः ।मृपात्मजौ चिक्लिशतुः ससीताविति भट्टिप्रयोगञ्चक्रैयादिकात् समादधते तद्धेयम् । क्रैयादिकस्यसकर्म्मकत्वात् । इति दुर्गादासः ॥
वाचस्पत्यम्
Sanskritक्लिश उपतापे दिवा० आ० अक० उपतप्तीकरणे सेट्पा० । किश्यते अक्लेशिष्ट । क्लिशित्वा क्लिष्ट्वा । क्लिशितःक्लिष्टः । कविकल्पमते अयमुभयपदो तेन “क्लिश्यन्नपिहि मेधावी” प्रत्यासन्नतुषारदीधितिकरक्लिश्यत्तमोवल्ल-वीति” नृपात्मजौ चिक्निशतुः समीतौ” भट्टिः साधुःसकर्म्मकत्वे “इन्द्रियैः कामवृत्तैस्तु क्लिश्यसे प्राकृतोयथा”रामा० ति० १६, २७, अकर्म्मकत्वे “। क्लश्यते हि जनःसर्व्वः तरमाणः पुनः पुनः” भा० व० १३५ अ० । “चिरक्लिशित्वा मर्म्मावित्” भट्टिः परस्मैपदित्वे “त्रयः परार्थेक्लिश्यन्ति साक्षिणः प्रतिभूः कुलम्” मनुः । “हिम-क्लिष्टप्रभावानि ज्योतींषीव मुखानि वः” कुमा० । “क्लेशःफलेन हि पुनर्नवतां निधत्ते” कुमा० ।उपसर्गपूर्व्वकस्तु तत्तदुपसर्गविशेष्यद्योत्यार्थोपतापे
क्लिश बाधने क्र्या० ऊदित् वेट् । क्लिश्नाति अक्लेशीत् अक्लि-क्षत् चिक्लेश । क्लिष्टः । क्लेशः लिशित्वा क्लिष्ट्वा । क्लिशितः क्लिष्टः “इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम्” कुमा० ।“अयं मां सुदृढ क्षुद्रः कौरवाणां यशोहरः । क्लिश्नातिनाहं तत् सोढुं चिरं शक्ष्यामि कौरव!” भा० स० ६७ ।“असुरस्तारकोनाम त्वया दत्तवरः प्रभो! । सुरानृषींश्चक्लिश्नाति कधस्तस्य विधीयताम्” भा० आनु० ८५ अ०“किश्नन्निवास्य भुजमध्यमुरःस्थलेन” रघुः । अत्र मल्लि-नाथः क्लिश्नन्निति पठित्वा क्लिश्नातिरयं सकर्म्मकः “क्लि-श्नातिभुवनत्रयमिति दर्शनादिति व्याचख्यौ । तेन टी-कापुस्तके क्लिश्यन्निति पाठः प्रामादिकएव ।उपसर्गविशेषात्तु तत्तदुपसर्गद्योत्यार्थयुक्ते बाधने ।परि + सर्व्वतोबाधने । “परिक्लिश्यमाने” पा० ।
क्षीरतरङ्गिणी
Sanskritक्लिशँ क्लिश उपतापे
- क्लिश्यते परार्थे क्लिश्यतः सतः इति तु लक्ष्यम् क्र्य्यादौ क्लिशू विबाधने (954)-क्लिश्नाति क्लिशः क्त्वानिष्ठयोः (7250) वेट्-क्लिष्ट्वा क्लिशित्वा मृडमृद (127) इति कित्-क्लिष्टः, क्लिशितः निन्दहिंसक्लिश (32146) इति वुञ्-क्लेशकः क्लिशेरी चोपधायाः कल् लोपश्च लोनाम् च (दश0 उ0 99 ङपाठः) कीनाशः क्लिशेरल् लोपश्च लः (दश0 उ0 92)-केशः किशोरादयश्च (द्र0 उ0 165) इति किशोरः भ्वादौ क्लेश व्यक्तायां वाचि (द्र0 1400)-क्लेशते 51
धातुवृत्तिः
Sanskritक्लिशँ क्लिश (अर्थः) उपतापे
क्लिश्यते विक्लिशे क्लेशिता क्लेशिष्यते क्लिश्यताम् अक्लिश्यत क्लिश्येत, क्लेशिषीष्ट ) लिङौ (अक्लिष्ट चिक्लिशिषते, चिक्लेशिषते) "रलो व्युपधात्'' इति कित्त्वविकल्पः ( चेक्लिश्यते चेक्लेष्टि क्लेशयति अचिक्लिशत् क्लिष्ट्वा, क्लिशित्वा, क्लिष्टः, क्लिशितः, ) "क्लिशः क्त्वानिष्ठयोः'' इतीड्विकल्पः "रलो व्युपधात्'' इति सेटः क्त्वः कित्त्विकल्पो न भवति, "मृडमृद'' इति नित्यंकित्त्वविधानात् क्लिशू विबाधने इति क्र्यादौ 53
कृदन्तरूपमाला
Sanskrit1 {@“क्लिश उपतापे”@} 2 ‘व्यक्तोक्तौ क्लेशते क्लेशेः, क्लिश्नाति तु विबाधने।
दिवादेरुपतापेऽर्थे तङि स्यात् क्लिश्यते पदम्।।’ 3 इति देवः।
4 क्लेशकः-शिका, क्लेशकः-शिका, 5 चिक्लिशिषकः-चिक्लेशिषकः-षिका, चेक्लिशकः-शिका
क्लेशिता-त्री, क्लेशयिता-त्री, चिक्लिशिषिता-चिक्लेशिषिता-त्री, चेक्लिशिता-त्री
-- क्लेशयन्-न्ती, क्लेशयिष्यन्-न्ती-ती
-- -- 6 क्लिश्यमानः, क्लेशयमानः, चिक्लिशिषमाणः-चिक्लेशिषमाणः, चेक्लिश्यमानः
क्लेशिष्यमाणः, क्लेशयिष्यमाणः, चिक्लिशिषिष्यमाणः-चिक्लेशिषिष्यमाणः, चेक्लिशिष्यमाणः
7 क्लिट्-क्लिशौ-क्लिशः
-- -- -- 8 क्लिशितः- 9 तम्-तवान्, क्लिष्टम्-ष्टः-ष्टवान्, क्लेशितः-तम्, चिक्लिशिषितः-चिक्लेशिषितः, चेक्लिशितः-तवान्
क्लिशः, 10 क्लेशनः, 11 क्लेशकः, क्लेशः, चिक्लिशिषुः-चिक्लेशिषुः, चेक्लिशः
क्लेशितव्यम्, क्लेशयितव्यम्, चिक्लिशिषितव्यम्-चिक्लेशिषितव्यम्, चेक्लिशितव्यम्
क्लेशनीयम्, क्लेशनीयम्, चिक्लिशिषणीयम्-चिक्लेशिषणीयम्, चेक्लिशनीयम्
12 क्लेश्यम्, क्लेश्यम्, चिक्लिशिष्यम्-चिक्लेशिष्यम्, चेक्लिश्यम्
ईषत्क्लेशः-दुष्क्लेशः-सुक्लेशः
-- -- -- क्लिश्यमानः, क्लेश्यमानः, चिक्लिशिष्यमाणः-चिक्लेशिष्यमाणः, चेक्लिश्यमानः
13 क्लेशः, क्लेशः, चिक्लिशिषः-चिक्लेशिषः, चेक्लिशः
क्लेशितुम्, क्लेशयितुम्, चिक्लिशिषितुम्-चिक्लेशिषितुम्, चेक्लिशितुम्।
14 क्लिष्टिः, केशना, चिक्लिशिषा-चिक्लेशिषा, चेक्लिशा
15 क्लिशित्वा 16 -क्लिष्ट्वा, क्लेशयित्वा, चिक्लिशिषित्वा-चिक्लेशिषित्वा, चेक्लिशित्वा
विक्लिश्य, विक्लेश्य, विचिक्लिशिष्य-विचिक्लेशिष्य, विचेक्लिश्य
क्लेशम् २, क्लिशित्वा२-क्लिष्ट्वा २, क्लेशम् २, क्लेशयित्वा २, चिक्लिशिषम् २- चिक्लेशिषम् २, चिक्लिशिषित्वा २- चिक्लेशिषित्वा २, चेक्लिशम् २
चेक्लिशित्वा २। 17 कीनाशः,
01 (२८७)
02 (४-दिवादिः-११६१। अक। सेट्। आत्म।)
03 (श्लो। १६३-४)
04 [पृष्ठम्०२९८+ २०]
05 [[१। ‘रलो व्युपधाद्धलादेस्संश्च’ (१-२-२६) इति सनः कित्त्वविकल्पाद्रूपद्वयम्।]]
06 [[२। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्। श्यनो ङिद्वद्भावादङ्गस्य गुणो न।]]
07 [[३। ‘व्रश्च भ्रस्ज--’ (८-२-३६) इत्यादिना षत्वे, चश्त्वे चर्त्वम्।]]
08 [[४। ‘क्लिशः क्त्वानिष्ठयोः’ (७-२-५०) इति इड्विकल्पः।]]
09 [[आ। ‘मायाभिस्सुचिरं क्लिष्टवा राक्षसोऽक्लिशितक्रियम्।’ भ। का। ९। ३८।]]
10 [[५। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युचू ताच्छीलिकः।]]
11 [[६। ‘निन्दहिंसक्लिशखाद--’ (३-२-१४६) इत्यादिना वुञ् ताच्छीलिकः।]]
12 [[B। ‘अक्लेश्यमसिनाऽग्न्यन्तं कबन्धवधमभ्यधुः।’ भ। का। ७-७८।]]
13 [[C। ‘देवौघस्य तपन् भुवं च पतिता वावृत्तभूमाऽप्यसौ वृत्तक्लेशलबैरकाश्यत समं संवाश्यमानैस्स्वकैः।।’ धा। का। २-६०।]]
14 [पृष्ठम्०२९९+ २२]
15 [[आ। ‘अमृडित्वा सहस्राक्षं क्लिशित्वा कौशलैर्निजैः।’ भ। का। ७। ९६।]]
16 [[१। ‘क्लिशः क्त्वानिष्ठयोः’ (७-२-५०) इति वेट्। इट्पक्षे ‘मृडमृद--’ (१-२-७) इत्यादिना नित्यकित्त्वम्।]]
17 [[२। ‘क्लिशेरीच्चोपधायाः कन् लोपश्च लोनाम्’ (द। उ। ९। १।) इति कन्प्रत्यये कीनाशः = कदर्यो जनः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
