| YouTube Channel

क्लिदि (klidi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
क्लिन्द्
मूलधातुः:
क्लिदि
धात्वर्थः:
परिदेवने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
क्लिन्दते
धातुः:
क्लिन्द्
मूलधातुः:
क्लिदि
धात्वर्थः:
परिदेवने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
क्लिन्दति
धातुप्रदीपः
Sanskrit
क्लिदिँ क्लिदि परिदेवने
- क्लिन्दते चिक्लिन्दे क्लिन्दः परस्मैपदिषु पाठात् क्लिन्दतीति भवति उभयपदिष्वयं पठ्यते कर्त्रभिप्राये क्रियाफलेऽपि परस्मैपदमकर्त्रभिप्राये चात्मनेपदं यथा स्यात् ।। 15 ।।
क्लिदिँ क्लिदि परिदेवने
- क्लिन्दति चिक्लिन्द क्लिन्दितः क्लिन्न इति तु क्लिदू आर्द्रीभाव इत्यस्य क्लिद्यते रूपम् ।। 71 ।।
क्षीरतरङ्गिणी
Sanskrit
क्लिदिँ क्लिदि परिदेवने
(अर्थविवरणम्) परिदेवनं शोचनम्
क्लिन्दते उदात्तेत्सु पाठात् (धा0सू0158) क्लिन्दति स्वरितेत्सु नोक्तः, कर्त्रभिप्रायेऽपि परस्मैपदार्थः 15
क्लिदिँ क्लिदि परिदेवने
(अर्थविवरणम्) क्लिन्दति शोचतीत्यर्थः
आद्यो (115) ऽनुदात्तेत्-क्लिन्दते क्लिन्द्यते क्लिन्दितः दिवादौ क्लिदू आर्द्रभावे (4128) क्लिद्यति, क्लिद्यते क्लिन्नः 70
धातुवृत्तिः
Sanskrit
क्लिदिँ क्लिदि (अर्थः) परिदेवने
( क्लिन्दतीत्यादि ) अस्यानुदात्तेत्सु पठितस्येह पाठः परस्मैपदार्थ स्वरितेत्सु पाठः क्रियाफलस्य कतृगामित्वेऽपि परस्मैपदं यथा स्यात् 73
कृदन्तरूपमाला
Sanskrit
1 {@“क्लिदि परिदेवने”@} 2 ‘क्लिन्दते क्लिन्दतीत्येवम् इदितः परिदेवने।
क्लिद्यतीत्यार्द्रभावेऽर्थे क्लिदेः श्यन्यूदितो भवेत्।।’ 3 इति देवः।
4 क्लिन्दकः-न्दिका, क्लिन्दकः-न्दिका, चिक्लिन्दिषकः-षिका, चेक्लिन्दकः-न्दिका
क्लिन्दिता-त्री, क्लिन्दयिता-त्री, चिक्लिन्दिषिता-त्री, चेक्लिन्दिता-त्री
-- क्लिन्दयन्-न्ती, क्लिन्दयिष्यन्-न्ती-ती
-- क्लिन्दमानः, क्लिन्दयमानः, चिक्लिन्दिषमाणः, चेक्लिन्द्यमानः
क्लिन्दिष्यमाणः, क्लिन्दयिष्यमाणः, चिक्लिन्दिषिष्यमाणः, चेक्लिन्दिष्यमाणः
क्लिन्-क्लिन्दौ-क्लिन्दः
-- -- -- 5 क्लिन्दितम्-तः, क्लिन्दितः, चिक्लिन्दिषितः, चेक्लिन्दितः-तवान्
क्लिन्दः, 6 क्लिन्दनः, 7 विक्लिन्दी, क्लिन्दः, चिक्लिन्दिषुः, चेक्लिन्दः
क्लिन्दितव्यम्, क्लिन्दयितव्यम्, चिक्लिन्दिषितव्यम्, चेक्लिन्दितव्यम्
क्लिन्दनीयम्, क्लिन्दनीयम्, 8, चिक्लिन्दिषणीयम्, चेक्लिन्दनीयम्
क्लिन्द्यम्, क्लिन्द्यम्, चिक्लिन्दिष्यम्, चेक्लिन्द्यम्
ईषत्क्लिन्दः-दुष्क्लिन्दः-सुक्लिन्दः
-- -- क्लिन्द्यमानः, क्लिन्द्यमानः, चिक्लिन्दिष्यमाणः, चेक्लिन्द्यमानः
क्लिन्दः, क्लिन्दः, चिक्लिन्दिषः, चेक्लिन्दः
क्लिन्दितुम्, क्लिन्दयितुम्, चिक्लिन्दिषितुम्, चेक्लिन्दितुम्
क्लिन्दा, क्लिन्दना, चिक्लिन्दिषा, चेक्लिन्दा
क्लिन्दनम्, क्लिन्दनम्, चिक्लिन्दिषणम्, चेक्लिन्दनम्
क्लिन्दित्वा, क्लिन्दयित्वा, चिक्लिन्दिषित्वा, चेक्लिन्दित्वा
प्रक्लिन्द्य, प्रक्लिन्द्य, प्रचिक्लिन्दिष्य, प्रचेक्लिन्द्य
क्लिन्दम् २, क्लिन्दित्वा २, क्लिन्दम् २, क्लिन्दयित्वा २, चिक्लिन्दिषम् २, चिक्लिन्दिषित्वा २, चेक्लिन्दम्
चेक्लिन्दित्वा २।
प्रासङ्गिक्यः
01
=>
(२८४)
02
=>
(१-भ्वादिः-१५। सक। सेट्। आत्म।)
03
=>
(श्लो। १०२)
04
=>
[पृष्ठम्०२९५+ २६]
05
=>
[[आ। ‘स्वमन्दिरात् स्पन्दितुमेव माशकत् कंसात् परिक्लिन्दितसज्जनाद्भिया।।’ धा। का। १-३।]]
06
=>
[[१। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युच् ताच्छीलिकः।]]
07
=>
[[२। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
08
=>
[[B। ‘अक्लिन्दनीयान् शुधितात्मनौ जनान् प्रशीकते यः करुणावलोकनैः।’ धा। का। १-११।]]
1 {@“क्लिदि परिदेवने”@} 2 ‘क्लिन्दते क्लिन्दतीत्येवम् इदितः परिदेवने।
क्लिद्यतीत्यार्द्रभावेऽर्थे क्लिदेः श्यन्यूदितो भवेत्।।’ 3 इति देवः।
4 क्लिन्दकः-न्दिका, क्लिन्दकः-न्दिका, चिक्लिन्दिषकः-षिका, चेक्लिन्दकः- न्दिका, इत्यादीनि रूपाणि पूर्वलिखित 5 क्लिदिधातुवत् ज्ञेयानि।
क्लिन्दन्-न्ती, क्लिन्दिष्यन्-न्ती-ती, क्लिन्दयन्-न्ती, क्लिन्दयिष्यन्-न्ती-ती, चिक्लिन्दिषन्-न्ती, चिक्लिन्दिषिष्यन्-न्ती-ती, इमानिरूपाणि शतरि बोध्यानि।
अस्मिन्नेव गणे परिदेवनार्थे पुनः पाठः, आत्मगामिन्यपि क्रियाफले परस्मै- पदार्थ इति ज्ञायते।
अन्यथा स्वरितेत्त्वेन एकत्रैव पाठं कुर्यादाचार्यः।
प्रासङ्गिक्यः
01
=>
(२८५)
02
=>
(१-भ्वादिः-७३। अक। सेट्। पर।)
03
=>
(श्लो। १०२)
04
=>
[पृष्ठम्०२९६+ २५]
05
=>
(२८४)