| YouTube Channel

क्लिद (klida)

 
शब्दसागरः
English
क्लिद (इ) क्लिदि r. 1st cl. (क्लिन्दते-ति) To bewail, to lament, to weep. (ऊ, इर
)
इर क्लिदू r. 4th cl. (क्लिद्यति) To be or become wet, damp, &c.
Wilson
English
क्लिद (इ) क्लिदि r. 1st cl. (क्लिंदते-ति) To bewail, to lament,
to weep. (ऊ, इर
) इर क्लिदू r. 4th cl. (क्लिद्युति) To be or become
wet, damp, &c.
शब्दकल्पद्रुमः
Sanskrit
क्लिद, रुदि इति कविकल्पद्रुमः
(भ्वांउभं-आत्मं च-अकं-सेट् ।) अन्तःस्थतृतीययुक्तः ।इ, कर्म्मणि क्लिन्द्यते ञ, क्लिन्दति क्लिन्दते ङ, क्लिन्दते रुदि रोदने इति दुर्गादासः
क्लिद, इर् क्लेदे इति कविकल्पद्रुमः (दिवां-परं-अकं-वेट् ।) अन्तःस्थतृतीययुक्तः क्लेद आर्द्री-भावः य, क्लिद्यति वस्त्रं पयसा ऊ, क्लेदिष्यतिक्लेत्स्यति इर्, अक्लिदत् अक्लेदीत् अस्मात्पुषादित्वात् इत्यन्ये इति दुर्गादासः
(यथा, नारदपञ्चरात्रे ।“सुवेशं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम् ।योनिः क्लिद्यति नारीणां सत्यं सत्यं हि नारद !”
)
वाचस्पत्यम्
Sanskrit
क्लिद आर्द्रीभावे दिवा०
पर०
अक० वेट् क्लिद्यति इरित् ।अक्लिदत्--अक्लेदीत्--अक्लैत्सीत् चक्लाद क्लेदः क्लिद्यन्क्लेदी क्लेदयति ते अचिक्लिदत् “तेन क्लिद्यतिव्रणः” सुश्रु० “सुवेशं पुरुषं दृष्ट्वा भ्रातर यदि वासुतम् योनिः क्लिद्यति नारीणाम्” हितो० “लु-ट्यन्ति भूमौ क्लिद्यन्ति बान्धवा मे स्वपन्ति च” भट्टिः ।“कुन्त्याः प्रस्रवसंयुक्तैरस्रैः क्लिन्नमुरोऽभवत्” भा०आ०१३५ “नचैनं क्लेदयन्त्यापो शोषयति मारुतः ।अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च” गीता ।“रक्तैरचिक्लिदद्भूमिम् सैन्यैश्चातस्तरद्धतैः” भट्टिः ।उपसर्गविशेषपूर्शकस्तु तत्तदुपसर्गद्योत्यार्थविशिष्टे क्लेदे
क्लिद रोदने इदित्
भ्वा०
उभ०
अक० सेट् क्लिन्दति ते अ-क्लिन्दीत् अक्लिन्दिष्ट चिक्लिन्द चिक्लिन्दे क्लिन्दितः ।परिदेवने शोके
सक०
आत्म० क्लिन्दते चैत्रम्” सि० कौ०