| YouTube Channel

क्लव्यम् (klavyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“क्लुङ् गतौ”@} 2 पाठान्तरोऽयं प्लवतेः।
क्लावकः-विका, क्लावकः-विका, 3 चुक्लूषकः-षिका, 4 चोक्लूयकः-यिका
5 क्लोता-त्री, क्लावयिता-त्री, चुक्लूषिता-त्री, चोक्लूयिता-त्री
-- क्लावयन्-न्ती, क्लावयिष्यन्-न्ती-ती
-- -- क्लवमानः, क्लावयमानः, चुक्लूषमाणः, चोक्लूयमानः
क्लोष्यमाणः, क्लावयिष्यमाणः, चुक्लूषिष्यमाणः, चोक्लूयिष्यमाणः
6 सङ्क्लुत्-सङ्क्लुतौ-सङ्क्लुतः
-- -- क्लुतम्-तः-तवान्, क्लावितः-तम्, चुक्लूषितः, चोक्लूयितः-तवान्
क्लवः, 7 क्लवनः, क्लावः, चुक्लूषुः, 8 चोक्लुवः
क्लोतव्यम्, क्लावयितव्यम्, चुक्लूषितव्यम्, चोक्लूयितव्यम्
क्लवनीयम्, क्लावनीयम्, चुक्लूषणीयम्, चोक्लूयनीयम्
9 क्लव्यम्, 10 अवश्यक्लाव्यम्, क्लाव्यम्, चुक्लूष्यम्, चोक्लूय्यम्
ईषत्क्लवः, -दुष्क्लवः, -सुक्लवः
-- -- 11 क्लूयमानः, क्लाव्यमानः, चुक्लूष्यमाणः, चोक्लूय्यमानः
12 क्लवः, विक्लवः- 13 विक्लबः, क्लावः, चुक्लूषः, चोक्लूयः
क्लोतुम्, क्लावयितुम्, चुक्लूषितुम्, चोक्लूयितुम्
क्लुतिः, क्लावना, चुक्लूषा, चोक्लूया
क्लवनम्, क्लावनम्, चुक्लूषणम्, चोक्लूयनम्
क्लुत्वा, क्लावयित्वा, चुक्लूषित्वा, चोक्लूयित्वा
14 सङ्क्लुत्य, सङ्क्लाव्य, प्रचुक्लूष्य, सञ्चोक्लूय्य
क्लावम् २, क्लूत्वा २, क्लावम् २, क्लावयित्वा २, चुक्लूषम् २, चुक्लूषित्वा २, चोक्लूयम्
चोक्लूयित्वा २। 15
प्रासङ्गिक्यः
01
=>
(२९०)
02
=>
(१-भ्वादिः-९५८। सक। अनि। आत्म।)
03
=>
[[६। ‘इको झल्’ (१-२-९) इति सनः कित्त्वान्न गुणः। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः।]]
04
=>
[[७। ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः।]]
05
=>
[पृष्ठम्०३०२+ २३]
06
=>
[[१। क्विपि, ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्।]]
07
=>
[[२। ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति युच्।]]
08
=>
[[३। यङन्तादचि ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि, उवङ्।]]
09
=>
[[४। ‘अचो यत्’ (३-१-९७) इति यत्।]]
10
=>
[[५। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्।]]
11
=>
[[६। ‘अकृत्सार्वधातुकयोः’ (७-४-२५) इति दीर्घः।]]
12
=>
[[७। ‘ॠदोरप्’ (३-३-५७) इत्यप् भावे।]]
13
=>
[[आ। वबयोरभेदात् ‘विक्लब’ इत्यपि अस्मादेव भवति--इति मैत्रेयः।]]
14
=>
[[८। ‘ह्रस्वस्य पिति कृति तुक्’ (६-१-७१) इति तुक् ल्यपि।]]
15
=>
[पृष्ठम्०३०३+ २४]