| YouTube Channel

क्लन्दमानः (klandamAnaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“क्लदि आह्वाने रोदने च”@} 2 सक।
सेट्।
पर।) अस्यैव वैक्लव्येऽर्थे घटादिपाठः षित्त्वं च।
आत्मनेपदं घटादिपठितस्य।
क्लन्दकः-न्दिका, क्लन्दकः-न्दिका, चिक्लन्दिषकः, चाक्लन्दकः, इत्यादिकं सर्व क्रन्दतिवत् 3 ज्ञेयम्।
अनुपधात्वेऽपि घटादिपाठात् णमुलि ‘चिण्णमुलोः’ 4 इति दीर्घविकल्पः--क्लन्दम् २-क्लान्दम् २, इति रूपम्।
क्लन्दमानः, क्लन्दिष्यमाणः, चिक्लन्दिषमाणः, चिक्लन्दिषिष्यमाणः
इति शानचि रूपाणीति विशेषः।
प्रासङ्गिक्यः
01
=>
(२८१)
02
=>
(१-भ्वादिः-७२। (७७४।)
03
=>
(२७०)
04
=>
(६-४-९३)