| YouTube Channel

क्रौञ्चदारणः (krauJcadAraNaH)

 
Apte Hindi
Hindi
क्रौञ्चदारणः
पुं*
क्रौञ्च-दारणः -
कार्तिकेय का विशेषण
क्रौञ्चदारणः
पुं*
क्रौञ्च-दारणः -
परशुराम का विशेषण
शब्दकल्पद्रुमः
Sanskrit
क्रौञ्चदारणः, पु, (क्रौञ्चं स्वनामख्यातपर्व्वतविशेषंदारयतीति दॄ + णिच् + ल्युः क्रौञ्चस्य दारणइति केचित् ।) कार्तिकेयः इत्यमरः ४३
अस्य क्रौञ्चदारणकथा महाभारते मार्कण्डेय-समस्यापर्व्वणि २२४ ३१-३६ ।“स तूत्थाय महाबाहुरुपसान्त्व्य तान् जनान् ।धनुर्विकृष्य व्यसृजद्वाणान् श्वेते महागिरौ
बिभेद शरैः शैलं क्रौञ्चं हिमवतः सुतम् ।तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्व्वतम्
विशीर्णोऽपतच्छैलो भृशमार्त्तस्वरान् रुवन् ।तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं तदा
तं नादं भृशार्त्तानां श्रुत्वापि बलिनाम्बरः ।न प्राव्यथदमेयात्मा शक्तिमुद्यम्य चानदत्
सा तदा विमला शक्तिः क्षिप्ता तेन महात्मना ।बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः
तेनाभिहतो दीर्णो गिरिः श्वेतोऽचलैः सह ।उत्पपात महीं त्यक्त्वा भीतः सुमहात्मनः”
क्रौञ्चं असुरविशेषं दारयति नाशयतीति ।क्रौञ्चासुरवधकथा क्रौञ्चशब्दे द्रष्टव्या
)