| YouTube Channel

क्रौञ्चः (krauJcaH)

 
Apte
English
क्रौञ्चः [krauñcḥ], [क्रुञ्च् प्रज्ञा˚ अण्]
A curlew, heron
मनोहरक्रौञ्च- निनादितानि सीमान्तराण्युत्सुकयन्ति चेतः
Ṛs.*
4.8
Ms.*
12.64. क्रौञ्चो विषाभ्याशे माद्यति Kau.
A.
1.2.17.
N.
of a mountain (said to be the grandson of Himālaya and said to have been pierced by Kārtikeya and Paraśurāma)
हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम्
Me.*
59. भिन्नो मद्बाणवेगेन क्रौञ्चत्वं वा गमिष्यति Pratimā.5.12
क्रौञ्चं यथा गिरिवरं युधि कार्तिकेयम् Abhiṣeka 6.7.
Comp.
-अदनम् the fibres of the stalk of a lotus. (-नी) the seed of lotus.
अरातिः, अरिः, रिपुः an epithet of Kārtikeya.
of Paraśurāma. -दारणः, -सूदनः an epithet (1) of Kārtikeya, (2) of Paraśurāma. -वर्णः a kind of horse.
Mb.
* 7.23.26
cf.
com. as- 'सितलोमकेसराढ्याः कृष्णत्वग्गुह्यलो- चनोष्ठखुराः ये स्युर्मुनिभिर्वाहा निर्दिष्टाः क्रौञ्चवर्णास्ते ॥'
Apte Hindi
Hindi
क्रौञ्चः
नपुं*
- क्रुञ्च् + अण्
"जलकुक्कुटी, कुररी, बगला"
क्रौञ्चः
नपुं*
- -
एक पर्वत का नाम
Wordnet
Sanskrit
Synonyms:
कुररः, कुरलः, क्रौञ्चः, खरः, पङ्क्तिचरः, मत्स्यनाशकः, मत्स्यनाशनः, समुत्क्रोशः
noun
खगविशेषः- सः जलखगः यस्य अधोभागः श्वेतवर्णीयः अस्ति।
"चञ्च्वां मत्स्यं धृत्वा कुररः उड्डीयते।"
Synonyms:
क्रौञ्चः, क्रुङ्, क्रुञ्चः, क्रुञ्चा, क्रौञ्चा, कालिकः, कालीकः
noun
खगविशेषः यः जलाशयस्य तटे निवसति।
"क्रौञ्चस्य मृत्युं दृष्ट्वा वाल्मीकेः मुखात् काव्यम् अस्फुरत्।"
Synonyms:
क्रुञ्चः, क्रौञ्चः
noun
एकः पर्वतः
"क्रुञ्चस्य उल्लेखः कोशे वर्तते"
वैजयन्तीकोषः
Sanskrit
Word: क्रौञ्चः
Root: क्रौञ्च
Gender: पुं
Number: all
अर्थः क्रौञ्चः इति पक्षिविशेषः
Meaning(s):
Kind of crane
Shloka(s):
2|3|34|1 क्रौञ्चस्तु क्रुङ्ङथोत्क्रोशः कुररो मत्स्यनाशनः। (अन्तरिक्षकाण्डः/खगाध्यायः)
Synonym(s):
2|3|34|1 क्रौञ्चः (क्रौञ्च) (पुं) Kind of crane क्रौञ्चः इति पक्षिविशेषः
2|3|34|1 क्रुञ्च् (क्रुञ्च्) (पुं) Curlew क्रौञ्चः इति पक्षिविशेषः
Related word(s):
परा_अपरासंबन्धः पक्षी
जातिः पक्षी
अमरकोशः
Sanskrit
Word: क्रौञ्चः
Root: क्रौञ्च
Gender: पुं
Number: all
Meaning(s):
osprey
curlew-like
kind of curlew
Shloka(s):
2|5|22|1 क्रुङ्क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः। (सिंहादिवर्गः)
Synonym(s):
2|5|22|1 क्रुञ्च् (क्रुञ्च्) (पुं)
2|5|22|1 क्रौञ्चः (क्रौञ्च) (पुं)
Related word(s):
परा_अपरासंबन्धः पक्षी
जातिः पक्षी
शब्दकल्पद्रुमः
Sanskrit
क्रौञ्चः,
पुं,
(क्रुञ्च + प्रज्ञाद्यण् स्वार्थे ।) पक्षिभेदः कोँचवक इति भाषा (यथा, रामायणे १५ ।“मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्”
)तत्पर्य्यायः क्रुङ् क्रुञ्चः क्रुञ्चा क्रौञ्चा ।इत्यमरभरतौ
कालिकः कालीकः कलि-कः इति शब्दरत्नावली
(अस्य गुणा यथा, --“क्रौञ्चो वृष्योऽतिरुचिकृदश्मरीं हन्ति नित्यशः ।शोषमूर्च्छाहरो दीप्यो हन्ति कासमरोचकम्”
इति हारीते प्रथमस्थाने ११ अध्याये
)पर्व्वतविशेषः इति मेदिनी
(अयन्तु हिमवतःपौत्त्रः मैनाकस्य पुत्त्रः ।यथा, हरिवंशे १८ १३-१४ ।“एतेषां मानसी कन्या मेना नाम महागिरेः ।पत्नी हिमवतः श्रेष्ठा यस्या मैनाक उच्यते
मैनाकस्य सुतः श्रीमान् क्रौञ्चो नाम महागिरिः ।पर्व्वतप्रवरः शुभ्रो नानारत्नसमन्वितः”
)कुररपक्षी इति राजनिर्घण्टः
द्वीपभेदः सच दधिमण्डोदसमुद्रेणावृतः षोडशलक्षयोजन-परिमितः (यथा, विष्णुपुराणे ५७-५८ ।“क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन ।आवृतः सर्व्वतः क्रौञ्चद्वीपतुल्येन मानतः
दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः ।क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन महामुने !”
तस्याधिपतिः प्रियव्रतराजपुत्त्रो घृतपृष्ठः ।यथा, भागवते २० १८-२० ।“तथा वहिः क्रौञ्चद्वीपो द्विगुणः स्वमानेनक्षीरोदेन परीत उपकॢप्तो वृतो यथा, कुशद्वीपोघृतोदेन यस्मिन् क्रौञ्चो नाम पर्व्वतराजो द्वीप-नामनिर्वर्त्तक आस्ते
योऽसौ गुहप्रहरणोन्म-थितनितम्बकुञ्जोऽपि क्षीरोदेनासिच्यमानो भग-वता वरुणेनाभिगुप्तो विभयो बभूव
तस्मि-न्नपि प्रैयव्रतो घृतपृष्ठो नामाधिपतिः स्वे द्वीपेवर्षाणि सप्त विभज्य तेषु पुत्त्रनामसु सप्त रिक्थादान्वर्षपान् निवेश्य स्वयं भगवान् भगवतः परम-कल्याणयशस आत्मभूतस्य हरेश्चरणारविन्दमुप-जगाम” दैत्यविशेषः मयदानवपुत्त्रः ।यथा, हरिवंशे ४६ २१--२४ ।“तान्पाशहस्तग्रथितांश्छादितान् शीतरश्मिना ।मयो ददर्श मायां वै दानवानां महात्मनाम्
शिलाजालविततां गण्डशैलाट्टहासिनीम् ।पादपोत्कटकूटाग्रां कन्दराकीर्णकाननाम्
सिंहव्याध्रगजाकीर्णां नदन्तीमिव यूथपैः ।ईहामृगगणाकीर्णां पवनाघूर्णितद्रुमाम्
निर्म्मितां स्वेन पुत्त्रेण क्रौञ्चेन दिविकामगाम् ।प्रसृतां पार्व्वतीं मायां ससृजे दानवोत्तमः”
अयमेवासुरः क्रौञ्चद्वीपे क्रौञ्चपर्व्वते हेमकन्दरेभगवता स्कन्देन निहतः यथा, -- मृगेन्द्रसंहि-तायाम् ।“क्रौञ्चे क्रौञ्चो हतो दैत्यः क्रौञ्चाद्रौ हेमकन्दरे ।स्कन्देन युद्ध्वा सुचिरं चित्रमायी सुमायिना ।स शैलस्तस्य दैत्यस्य ख्यातश्चित्रेण कर्म्मणा ।केतुतामगमत्तस्य नाम्ना क्रौञ्चः उच्यते”
)अर्हतां ध्वजः राक्षसविशेषः इति हेमचन्द्रः