| YouTube Channel

क्रोधवर्द्धन (krodhavarddhana)

 
वाचस्पत्यम्
Sanskrit
क्रोधवर्द्धन
त्रि०
क्रोधं वर्द्धयति वृध--णिच् ल्यु त० को-पस्य वर्द्धके अनिष्टसूचकवाक्यादौ असुरभेदे
पु०
“चन्द्र-हन्ता क्रोधहन्ता क्रोधबर्द्धन एव च” हरि० २६३ अ०असुरकथने एव भारतयुद्धकाले दण्डधारनृपत्वेना-विर्भूतः यथा “क्रोधबर्द्धन इत्येव यस्त्वन्यः परिकी-र्त्तितः दण्डधारैति ख्यातः सोऽभवन्मनुजर्षभः” भा०आ० ६७ अ० अशावतारे