| YouTube Channel

क्रोधनः (krodhanaH)

 
शब्दकल्पद्रुमः
Sanskrit
क्रोधनः, त्रि, (क्रुध् + “क्रुधमण्डार्थेभ्यश्च” ।१५१ इति युच् ।) क्रोधविशिष्टः तत्पर्य्यायः ।अमर्षणः कोपी इत्यमरः ३२
क्रोधी रोषणः इति हेमचन्द्रः
(यथा, वेणीसंहारे तृतीयाङ्के ।“यद्रामेण कृतं तदेव कुरुते द्रौणायणिः क्रोधनः”
कुरुवंशीयनृपविशेषः ।यथा, भागवते २२ ११ ।“ततश्च क्रोधनस्तस्माद् देवातिथिरमुष्य च”
षष्टिवर्षान्तर्गतोनषष्टितमवर्षभेदः यथा तन्त्रे ।“रोगो मरणदुर्भिक्षं विरोधोत्तरसङ्कुलम् ।क्रोधने विषमं सर्व्वं समाख्यातं हरप्रिये !”
भैरवभेदः यदुक्तं तन्त्रे ।“असिताङ्गो रुरुश्चण्ड उन्मत्तः क्रोधनस्तथा”
)