| YouTube Channel

क्रोधकृत् (krodhakRt)

 
Shabdartha Kaustubha
Kannada
क्रोधकृत्
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವಿಷ್ಣು
निष्पत्तिः - > डुकृञ् (करणे) - "क्विप्" (३-२-८९)
व्युत्पत्तिः - > क्रोधं करोति
प्रयोगाः - > "क्रोधहा क्रोधकृत् कर्ता"
उल्लेखाः - > वि० स०
विस्तारः - > "क्रोधकृत् क्षत्रियेभ्यो यः पूर्वं क्रोधं करोति सः" - निरुक्तिः
Mahabharata
English
Krodhakṛt = Vishṇu (1000 names).
वाचस्पत्यम्
Sanskrit
क्रोधकृत्
त्रि०
क्रोधं करोति कृ--क्विप् क्रोधकारिणि पर-मेश्वरे
पु०
“क्रोधहा क्रोधकृत् कर्त्ता विश्वबाहुर्महीधरः”विष्णुसं० असाधून् प्रति क्रोधकर्तृत्वात् तस्य तथात्वम् “श्रुतिस्मृती ममैवाज्ञे यस्ते उल्लङ्घ्य वर्त्तते आज्ञाच्छेदी ममद्वेषी नरके प्रतिवर्त्तते” इति श्रुतिस्मृत्युदितकर्म्मानाचरणे ईश्वरद्विष्टत्वोक्तेः तस्य तादृशान् प्रति क्रोध-कर्तृत्वम् तच्च प्राणिनां स्वादृष्टविशेषात् भवति