क्रुश (kruza)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishShabdartha Kaustubha
Kannadaक्रुश - आह्वाने रोदने च (भ्वा० पर० आह्वाने सक० रोदने अक० अनि०) क्रोशति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಕರೆ
क्रुश - आह्वाने रोदने च (भ्वा० पर० आह्वाने सक० रोदने अक० अनि०) क्रोशति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಅಳು
क्रुश - आह्वाने रोदने च (भ्वा० पर० आह्वाने सक० रोदने अक० अनि०) क्रोशति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಗಟ್ಟಿಯಾಗಿ ಕೂಗು
क्रुश - आह्वाने रोदने च (भ्वा० पर० आह्वाने सक० रोदने अक० अनि०) क्रोशति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಕೋಪಿಸಿಕೋ /ರೇಗು
क्रुश - आह्वाने रोदने च (भ्वा० पर० आह्वाने सक० रोदने अक० अनि०) क्रोशति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಬಯ್ಯಿ
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुपाठः (Krishnacharya)
Sanskrit क्रुश्
क्रुश
आह्वाने रोदने च
भ्वादिः
(आह्वाने अक. रोदने सक
अनिट्
परस्मैपदी
क्रोशति
धातुप्रदीपः
Sanskritक्रुशँ क्रुश आह्वाने, रोदने च
- क्रोशति । चुक्रोश । अक्रुक्षत् । क्रोष्टा । क्रोशः क्रुशः ।। 859 ।।
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritक्रुश रोदने अक० आह्वाने आक्रोशे च प० अ-निद् । क्रोशति अक्रुक्षत् । चुक्रोश क्रोक्ष्यति । क्रोष्टाक्रुष्टः क्रोशन् क्रोशः क्रोशनः क्रोष्टुः । “रसन्नरण्या-न्यां सायमक्रुक्षदिति मन्यते” ऋ० १० । १४६ । ४ “वृहद्वद-न्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तोऽविदन्नना मधु” ऋ१० । ९४४ “एष क्रोशति दात्यूहस्तं शिखी प्रतिकूजति” रामा०अयो० ५६ अ० । कर्म्मणि क्रुश्यते अक्रोशि “इतिक्रुधा-क्रुश्यत तेन केतकम्” नैष०अत्याद्युपदर्गात् परस्तु तत्तद्द्योत्यार्थयुक्ते रोदनादौअनु + दयायाम् अनुरोदने च । अनुक्रोशा (दया) “नतायुमनुक्रोशन्ति क्षितयोभरेषु” ऋ० ४ । ३८ । ५ “कि-मनुक्रुश्य वैकल्यमुत्पादयसि मेऽनघ!” भा० अनु० ५ अ०आ + अप्रियकथने । “शतं ब्राह्मणमाक्रुश्य क्षत्रियोदण्ड-मर्हति” मनुः । “प्रत्याक्रोशेदिहाक्रुष्टः” भा० अनु०४५६२ श्लो० । “आक्रुष्टः पुरुषः सर्व्वं प्रत्याक्रोशेदनन्त-रम्” भा० व० १९१ श्लो० । “हा प्रिये! क्वासि नष्टासिव्याक्रोशन्न्यपतत् क्षितौ” रामा० आ० ८६ अ०उद् + उच्चराह्वाने “उदक्रोशन् स पाण्डवान्” भा०आ० ७४८ श्लो० । उच्चैरोदने च अक०
क्षीरतरङ्गिणी
Sanskritक्रुशँ क्रुश आह्वाने, रोदने च
- क्रोशति क्रोष्टा आक्रोष्टा क्रोशः क्रुशः उत्क्रोशः कुररः सितनिगमिमसि (उ0 170) इति तुन्-क्रोष्टून् 827
धातुवृत्तिः
Sanskritक्रुशँ क्रुश (अर्थः) आह्वाने, रोदने च
सदादयस्त्रयोनुदात्ता उदात्तेतः तथा च व्याघ्रभूतिः
तुदिं नुदिं चिद्यति विन्त इत्यपि प्रतीहि दान्तान् दशपञ्च चानिटः दिशिं दृशिं दंशिमथो स्पृशिं मृशिम् रुशिं शिशिं क्रोशमिमष्टमं विशिम् ।लिशिं च शान्तानिटः पुराणगाः पठन्ति पाटेषु दशैव नेतरान्
( क्रोशति चुक्रोश चुक्रूषतुः चुक्रोशिथ चुक्रुशिव चुकुशिम ) क्रादिनियमादिट् ( क्रोष्टा क्रोक्ष्यति क्रेशेत् ) आशिषि (क्रुश्यात् अक्रुक्षत् ) "शल इगुपध्णाद्'' इति क्सः ( चुक्रुद्वक्षति ) "हलन्ताच्च'' इति कित्त्वं, ( चोक्रुक्षते चोक्रोष्ब्टि हौ चोक्रुदिड धित्वषत्वढत्वजश्त्वानि लङि तिप्सिपोः ( अचोक्रोट् क्रोशयति अचुक्रुशत् आक्रोशकः ) ( सूत्रम्) देविक्रुशोश्चोपसर्गे (इति सूत्रम्) इति तच्छीलादौ वुञ् (हे क्रोष्टो ) "सितनिगमि''इत्यादिना तुन् अस्य ( सूत्रम्) तुज्वत् क्रोष्टुः (इति सूत्रम्) इति असम्बुद्धौ सर्वनामस्थाने तृजन्तरूपातिदेशात् क्रोष्टा क्रोष्टारावित्यादि शसि (क्रोष्टुनेत्यादि ) आमि [ नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन ] इति नुमि अनजादित्वात् तृज्वद्भावाभावे ( क्रोष्टूनामिति ) भवति ( क्रोष्ट्री ) "स्त्रियां च'' इति तृज्वद्भावः "मतिबुद्धि'' इत्यत्र चकारस्यानुक्तमुच्चयार्थत्वात् ( अक्रुष्टः ) वर्त्तमानेक्तः ( क्रोशः क्रुशः) णाभावे अगुपधत्वात्कः 841
कृदन्तरूपमाला
Sanskrit1 {@“क्रुश आह्वाने रोदने च”@} 2 ज्वलादिः।
क्रोशकः-शिका, कोशकः-शिका, 3 चुक्रुक्षकः-क्षिका, चोक्रुशकः-शिका
4 क्रोष्टा-ष्ट्री, क्रोशयिता-त्री, चुक्रुक्षिता-त्री, चोक्रुशिता-त्री
क्रोशन्-न्ती, क्रोशयन्-न्ती, चुक्रुक्षन्-न्ती
-- क्रोक्ष्यन्-न्ती-ती, क्रोशयिष्यन्-न्ती-ती, चुक्रुक्षिष्यन्-न्ती-ती
-- 5 व्यतिक्रोशमानः, क्रोशयमानः, -- चोक्रुश्यमानः
व्यतिक्रोक्ष्यमाणः, क्रोशयिष्यमाणः, -- चोक्रुशिष्यमाणः
6 क्रुट्-क्रुड्-क्रुशौ-क्रुशः
-- -- -- 7 क्रुष्टम्- 8 क्रुष्टः-क्रुष्टवान्, क्रोशितः, चुक्रुक्षितः, चोक्रुशितः-तवान्
क्रुशः- 9 क्रोशः, 10 बान्धवक्रोशी, 11 आक्रोशकः, 12 उष्ट्रकोशी, क्रोशः, चुक्रुक्षुः, चोक्रुशः
क्रोष्टव्यम्, क्रोशयितव्यम्, चुक्रुक्षितव्यम्, चोक्रुशितव्यम्
क्रोशनीयम्, क्रोशनीयम्, चुक्रुक्षणीयम्, चोक्रुशनीयम्
क्रोश्यम्, क्रोश्यम्, चुक्रुक्ष्यम्, चोक्रुश्यम्
ईषत्क्रोशः-दुष्क्रोशः-सुक्रोशः
-- -- क्रुश्यमानः, क्रोश्यमानः, चुक्रुक्ष्यमाणः, चोक्रुश्यमानः
13 क्रोशः, क्रोशः, चुक्रुक्षः, चोक्रुशः
क्रोष्टुम्, क्रोशयितुम्, चुक्रुक्षितुम्, चोक्रुशितुम्
आक्रुष्टिः, 14 व्यावक्रोशी, आक्रोशना, चुक्रुक्षा, चोक्रुशा
क्रोशनम्, क्रोशनम्, चुक्रुक्षणम्, चोक्रुशनम्
15 क्रुष्ट्वा, क्राशयित्वा, चुक्रुक्षित्वा, चोक्रुशित्वा
आक्रुश्य, सङ्क्रोश्य, सञ्चुक्रुक्ष्य, सञ्चोक्रुश्य
क्रोशम् २, क्रुष्ट्वा २, क्रोशम् २, क्रोशयित्वा २, चुक्रुक्षम् २, चुक्रुक्षित्वा २, चोक्रुशम् २
चोक्रुशित्वा २।
01 (२७९)
02 (१-भ्वादिः-८५६। सक। अनि। पर।)
03 [[६। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वम्। षत्वम्। ‘षढोः कः सि’ (८-२-४१) इति ककारः। ‘आदेशप्रत्यययोः’ (८-३-५९) इति षकारः।]]
04 [पृष्ठम्०२९०+ २६]
05 [[१। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्।]]
06 [[२। ‘व्रश्च--’ (८-२-३६) इत्यादिना षत्वे, ‘झलां जशोऽन्ते’ (८-२-३९) इति जश्त्वम्।]]
07 [[आ। ‘आशितम्भवमुत्क्रुष्टं वल्गितं शयितं स्थितम्।’ भ। का। ६-१०६।]]
08 [[३। ‘मतिबुद्धिपूजार्थेभ्यश्च’ (३-२-१८८) इति चकारात्, ‘गत्यर्थाकर्मक--’ (३-४-७२) इत्यनेन रोदनेऽकर्मकत्वाद्वा क्तः कर्तरि वर्तमाने।]]
09 [[४। ‘ज्वलितिकसन्तेभ्यो णः’ (३-१-१४०) इति वा णः। पक्षे ‘इगुपध--’ (३-१-१३५) इति कर्तरि कः।]]
10 [[B। ‘बान्धवाक्रोशिनो भेजुः अनाथाः ककुभो दश।।’ भ। का। ६-१२३।]]
11 [[५। ‘देविक्रुशोश्चोपसर्गे’ (३-२-१४७) इति ताच्छीलिके वुञि रूपम्।]]
12 [[६। ‘कर्तर्युपमाने’ (३-२-७९) इति कर्तरि णिनिः।]]
13 [[७। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्।]]
14 [[८। ‘कर्मव्यतीहारे--’ (३-३-४३) इति णच्। ‘णचस्त्रियामञ्’ (५-४-१४) इत्यञ्। ‘टिड्ढा--’ (४-१-१५) इत्यादिना ङीप्।]]
15 [पृष्ठम्०२९१+ २९]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
