| YouTube Channel

क्रुन्च (krunca)

 
शब्दकल्पद्रुमः
Sanskrit
क्रुन्च, गत्याम् वक्रणे इति कविकल्पद्रुमः
(भ्वां-परं-सकं-अकं च-सेट् ।) रेफयुक्तादिः पञ्चमस्वरी ।क्रुञ्चति इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
क्रुन्च(ञ्च) कौटिल्ये, अल्पीभावे अक०
पर०
सेट् क्रुञ्चतिअक्रुञ्चीत् चुक्रोञ्च क्रुञ्चः क्विन् क्रुड् अत्र “चोः कुः”पा० चवर्गान्तत्वेन कुत्वप्राप्तौ दधृगिव्यादिना क्विनं विधाय“क्विन् प्रत्ययस्य कुः” पा० क्विनन्तस्य पृथक् क्रुत्वविधानात्संयोगान्तलोपात् प्राक् कुः भावे क्रच्यते अक्रुञ्चि के-चित्तुदधृगादिसूत्रे क्रुञ्चामिति निर्द्देशत् क्रुञ्चेति ञो-पधे सौत्रं धातुमाहुः तन्मते भावे क्रुञ्च्यते इत्येव ।एतन्मते क्र्वङ् इत्यत्र क्विनि नलोपाभावे निपातकल्पना
क्षीरतरङ्गिणी
Sanskrit
क्रुन्चँ क्रुन्च गतौ
क्रुञ्चति क्रुङ् क्रुञ्चा अञ्चुयुजिक्रुञ्चाम् (3259) इति निपातनान्नलोपाभावः प्रज्ञादिभ्योऽण (5438) क्रौञ्चः 184
कृदन्तरूपमाला
Sanskrit
1 {@“क्रुन्च कौटिल्याल्पीभावयोः”@} 2 अयं नोपधः।
3 ‘गतिकौठिल्याल्पीभावयो’ रिति पाठान्तरम्।
गतेः कौटिल्ये, द्रव्यस्याल्पीभावे च, इत्यर्थः।
‘गतिकौटिल्ययोः’ इति कविकल्पद्रुमे-इति धातुकाव्यव्या- ख्यायाम्।]] क्रुञ्चकः-ञ्चिका, क्रुञ्चकः-ञ्चिका, चुक्रुञ्चिषकः-षिका, 4 चोक्रुचकः-चिका
क्रुञ्चिता-त्री, क्रुञ्चयिता-त्री, चुक्रुञ्चिषिता-त्री, चोक्रुचिता-त्री
क्रुञ्चन्-न्ती, क्रुञ्चयन्-न्ती, चुक्रुञ्चिषन्-न्ती
-- क्रुञ्चिष्यन्-न्ती-ती, क्रुञ्चयिष्यन्-न्ती-ती, चुक्रुञ्चिषिष्यन्-न्ती-ती
-- व्यतिक्रुञ्चमानः, क्रुञ्चयमानः, -- चोक्रुच्यमानः
व्यतिक्रुञ्चिष्यमाणः, क्रुञ्चयिष्यमाणः, -- चोक्रुचिष्यमाणः
5 6 क्रुङ्-क्रुञ्चौ-क्रुञ्चः, 7 क्रुञ्चा
-- -- 8 क्रुचितम्-तः-तवान्, क्रुञ्चितः, चुक्रुञ्चिषितः, चोक्रुचितः-तवान्
क्रुञ्चः, क्रुञ्चः, चुक्रुञ्चिषुः, चोक्रुञ्चः
क्रुञ्चितव्यम्, क्रुञ्चयितव्यम्, चुक्रुञ्चिषितव्यम्, चोक्रुचितव्यम्
क्रुञ्चनीयम्, क्रुञ्चनीयम्, चुक्रुञ्चिषणीयम्, चोक्रुचनीयम्
क्रुञ्च्यम्, क्रुञ्च्यम्, चुक्रुञ्चिष्यम्, चोक्रुच्यम्
ईषत्क्रुञ्चः-दुष्क्रुञ्चः-सुक्रुञ्चः
-- -- -- क्रुच्यमानः, क्रुञ्च्यमानः, चुक्रुञ्चिष्यमाणः, चोक्रुच्यमानः
क्रुञ्चः, क्रुञ्चः, चुक्रुञ्चिषः, चोक्रुचः
क्रुञ्चितुम्, क्रुञ्चयितुम्, चुक्रुञ्चिषितुम्, चोक्रुचितुम्
9 क्रुञ्चा, कुञ्चना, चुक्रुञ्चिषा, चोक्रुचा
क्रुञ्चनम्, क्रुञ्चनम्, चुक्रुञ्चिषणम्, चोक्रुचनम्
10 क्रुञ्चित्वा, क्रुञ्चयित्वा, चुक्रुञ्चिषित्वा, चोक्रुचित्वा
सङ्क्रुच्य, सङ्क्रुञ्च्य, प्रचुक्रुञ्चिष्य, सञ्चोक्रुच्य
क्रुञ्चम् २, क्रुञ्चित्वा २, क्रुञ्चम् २, क्रुञ्चयित्वा २, चुक्रुञ्चिषम् २, चुक्रुञ्चिषित्वा २, चोक्रुचम्
चोक्रुचित्वा २।
प्रासङ्गिक्यः
01
=>
(२७८)
02
=>
(१-भ्वादिः-१८६। सक। सेट्। पर।)
03
=>
[[[अ]
04
=>
[[२। ‘अनिदितां हल उपधायाः क्ङिति’ (६-४-२४) इति नलोपः। यङोऽल्लोपस्य स्थानिवद्भावात् लघूपधगुणो न।]]
05
=>
[पृष्ठम्०२८९+ २४]
06
=>
[[१। ‘ऋत्विग्दधृक्--’ (३-२-५९) इत्यादिना क्विन्। नलोपाभावो निपातनात्, चकारस्य संयोगान्तलोपः। ‘क्विन्प्रत्ययस्य कुः’ (८-२-६२) इति नकारस्य कुत्वेन ङकारः। ‘भाष्यरीत्या तु ञोपधत्वमस्य धातोस्सम्मतम्। ‘परेश्च घाङ्कयोः’ (८-२-२२) इत्यत्र भाष्ये स्पष्टमेतत्’। इति प्र। सर्वस्वे।]]
07
=>
[[२। ‘आपं चैव हलन्तानां--’ इति टाप्।]]
08
=>
[[३। ‘अनिदितां हलः--’ (६-४-२४) इति नलोपः।]]
09
=>
[[४। ‘गुरोश्च हलः’ (३-३-१०३) इति अप्रत्ययः।]]
10
=>
[[५। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् नलोपो न।]]