क्रीतानुशय (krItAnuzaya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiक्रीतानुशयः
क्रीत-अनुशयः -
"किसी वस्तु को मोल लेकर पछताना, किये का निराकरण करना, खरीदी हुई वस्तु को वापिस करना"
Shabdartha Kaustubha
Kannadaक्रीतानुशय
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕ್ರಯದ ವಿಷಯದಲ್ಲಿ ಉಂಟಾಗುವ ಪಶ್ಚಾತ್ತಾಪ /ಕ್ರಯದ ವಿಷಯದಲ್ಲಿ ಸಂಶಯ ಪಡುವುದು
व्युत्पत्तिः - > क्रीते अनुशयः
प्रयोगाः - > "क्रीत्वा मूल्येन यत् पण्यं क्रेतान बहु मन्यते । क्रीतानुशय इत्येतत् विवादपदमुच्यते ॥"
उल्लेखाः - > नारदः
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritक्रीतानुशय क्रीते क्रये अनुशयः । “क्रयविक्रयानुशयश्च”इति मनुक्ते अष्टादशविवादान्तर्गते विवादभेदे अनुशय-शयशब्द १८६ पृ० तद्विवृतिर्दृश्या । अधिकं वीरमित्रोदयेदर्शितं यथा“अथ क्रीतानुशयोव्यवहारपदम् । तत्स्वरूपमाहनारदः “क्रीत्वा मूल्येन यत् पण्यं क्रेता न बहु मन्यते ।क्रीतानुशय इत्येतद्विवादपदसुच्यते” इति । न बहु म-न्यते--सम्यगसम्यगिति पूर्व्वं न विचार्य्य गृहीतमित्यर्थः । क्रीतं परीक्षणीयमित्याह वृहस्पतिः “परीक्षेतस्वयं क्रीतमन्येषाञ्च प्रदर्शयेत् । परीक्षितं बहुमतंग्रहीता न पुनस्त्यजेदिति” । अन्येषां पण्यगुणदोषविदा-मिति शेषः । नारदोऽपि “क्रेता पण्यं परीक्षेत प्राक् स्वयंगुणदोषतः । परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत्पुन-रिति” । चर्मादीनां परीक्षा सद्यः कार्या तथा च व्यासः“चर्म्मकाष्ठेष्टकासूत्रधान्यासवरसस्य च । वसुकुप्यहिर-ण्यानां सद्य एव परीक्षणमिति” । अत्र वसुशब्देन रूप्यंगृह्यते । कुप्यं रूप्यहेमव्यतिरिक्तं त्रपुसीसादिकम् ।तथा च हेमरूप्ये प्रस्तुत्याहामरसिंहः “ताभ्यां यदन्यत्त-त्कुप्यमिति” । क्रीतपण्यद्रव्यविशेषेण परीक्षणकाला-वधिमाह भारदः “त्र्यहाद्दोह्यं परीक्षेत पञ्चाहाद्वा-ह्यमेव तु । मुक्तावज्रप्रबालानां सप्ताहं स्यात्परीक्षणम् ।द्विपदामर्द्ध्वनासन्तु पुंसान्तद्द्विगुणं स्त्रियाः । दशाहं स-र्ववीजानामेकाहं लोहवाससाम् । अतोऽर्वाक्पण्यदोषस्तुयदि सञ्जायते क्वचित् । विक्रेतुः प्रतिदेयं तत् क्रेता मू-ल्यमवाप्नुयादिति” । त्र्यहात् क्रयदिनादारभ्येति शेषः ।पञ्चाहादित्यादावप्येवमेव शेषोऽवगन्तम्यः । त्र्यहं वि-क्रेतृप्रतिदेयमित्यादिविधिदर्शनात् त्र्यहाद्दोह्यमित्यादिपरीक्षणं प्रीतिदोह्यादिदव्यविषयमिति गम्यते इति स्मृतिचन्द्रिका । दोह्यं महिष्यादिकम् वाह्यं बलीवर्दादिकम् ।मुक्ताग्रहणं रत्नोपलक्षणम् । द्विपदाम्पुंसान्दासानामि-त्यर्थः । तद्द्विगुणं मासादित्यर्थः स्त्रियादास्याइत्यर्थः ।पूर्व्वोदाहृतचर्म्मकाष्ठेत्यादिव्यासवचनेन भक्षणाद्यर्थंगृहीतानां धान्यादीनां सद्यःपरीक्षणाभिधानात् सर्व-वीजानामित्यत्र वीजशब्दोवृद्ध्यर्थं गृहीतधान्यपरः ।अन्यथा सद्यःपरीक्ष्यत्वप्रतिपादकव्यासवचनविरोधः स्यात् ।अतोऽर्वाक् त्र्यहादेरभ्यन्तर इत्यर्थः । कात्यायनोऽपि“भूमेर्दशाहोऽनुशयः क्रेतुर्विक्रेतुरेव चेति” । भूमेर्गृह-क्षेत्रादिरूपाया अनुशयः परावर्त्तनयोग्यः कालः परीक्षा-काल इति यावत् । यथोक्तपरीक्षाकालातिक्रमे दोषदर्शने न प्रतिदानमित्याह स एव “अविज्ञातन्तु यत्क्रीतं दुष्टं पश्चाद्विभावितम् । क्रीतन्तत् स्वामिने देयम्पण्यंकालेऽन्यथा न त्विति” । अविज्ञातं परीक्षाशैथिल्या-त्तत्त्वतोऽपरिज्ञातम् । दुष्टं विभाबितं दोषवत्तया ज्ञात-मित्यर्थः । काले परीक्षाकाले । अन्यथा तत्कालात्ययेदुष्टतया परिभावितमपि तत् स्वामिने न देयम् । अविज्ञा-तन्तु यत्क्रीतमित्यनेन यत् क्रयात् प्राक् अपरीक्ष्य क्रीत-न्तत् परीक्षासमये दोषदर्शने परावर्त्तनीयम् । यत्तु-परोक्ष्य गृहीतं तन्न परावर्त्तनीयमिति । दर्शितमर्थंनारदआह “क्रीत्वा नानुशयं कुर्य्याद्बणिक्पण्यवि-चक्षणः । क्षयं वृद्धिञ्च जानीयात् पण्यानामागमन्तथा ।क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः । परीक्ष्या-भिमतं क्रीतं विक्रेतुर्न भवेत् पुनरिति” । अनुशयं पश्चा-त्तापम् । पण्यानां अश्वादीनां अस्मिन्देशे मूल्यहानि-रस्मिन्देशे तदाधिक्यमिति क्षयवृद्धी एतद्देशसम्भवमित्या-गमञ्च क्रयात् प्रागेव जानीयादित्यर्थः । दोषदर्शनमन्त-रेण परीक्षाकाल एव प्रत्यर्पणे विशेषमाह कात्यायनः“क्रीत्वा चानुशयं पश्चात् त्यजेद्दोषादृते नरः । अजुष्टमेवकाले तु स मूल्याद्दशमं बहेत् । क्रीत्वा गच्छन्ननुशयंक्रयी हस्तमुपागते । षद्भागन्तस्य मूल्यस्य दत्त्वा क्रीतंत्यजेन्नरः” इति । अजुष्टमनभिभुक्तम् । काले परीक्षाकालेअत्र मूल्यदशमभागदानं यदुपभुज्यमानमपि न नश्यतिभूम्यादिकं तद्विषयम् उपभोगविनश्वरवीजादिविषयं षड्भागदानमिति व्यवस्था ज्ञेया । ननु विजानताऽप्यनुशयोन कार्यः “क्रीत्वा नानुशयम् कुर्य्यादिति” निषेधसद्भावा-दिति चेत्सत्यं अपवादस्य सत्त्वात् स चापवादोदर्शितोनारदेन “क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी ।विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्न्यविक्षतमिति” । मन्यतइत्यनेन वस्तुतो दोषाभाव उक्तः । द्वितीयादिदिवसे प्रत्य-र्पणे विशेषमाह स एव “द्वितीयेऽह्नि ददत् क्रेता मू-ल्यात्त्रिंशांशमाहरेत् । द्विगुणं तु तृतीयेऽह्नि परतः के-तुरेव तदिति” । परतः तृतीयाहात् परतः क्रेतुरेव तत्क्रीत्वा अनुशयादिकं न कुर्य्यादित्यर्थः । यत्तु मनुवचनम्“क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत् । सोऽ-न्तर्दर्शाहात्तद्द्रव्यं दद्याच्चैवाददीत वेति” तदुपभोगे नश्व-रछत्रगृहयानशयनादिविषयम् । यत्तू पभोगेन विकारप्रा-पितं सदोषसपि तत् परीक्षाकालमध्येऽपि न प्रतिदेयमि-त्याह नारदः “परिभुक्तन्तु तद्वासः कृष्णरूपं मलीमसम् ।सदोषमपि तत् क्रीतं विक्रेतुर्न भवेत्पुनरिति” । वासो-ग्रहणमुपलक्षणमिति मदनरत्ने । वासोविषयतैवास्योतिमाधवीये । पण्यानां देशकाले उपचयापचयौ ज्ञातव्या-वित्याह नारदः “क्षयं वृद्धिञ्च जानीयात्पण्यानामा-गमन्तथेति” । अश्वादिपण्यानामस्मिन् कालेऽस्मिन्देशेच क्षयं वृद्धिं वा जानीयात्तथागमं कुलीनत्वादिज्ञा-नार्थम् उत्पादकजन्मभूम्यादिकञ्च जानीयादित्यर्थः ।क्रयकाले मूल्यक्षयवृद्धिदोषदर्शनमन्तरेण क्रोतविक्रीतयोःपत्यर्पणे पुनर्ग्रहणे दण्डमाह याज्ञवल्काः “वृद्धिं क्षयंवा बणिजा पण्यानामविजानता । क्रीत्वा नानुशयःकार्य्यः कुर्वत् षट्भागदण्डभागिति” । वृद्धिं मूल्यवृद्धिम्अविजानता क्रेत्रा एवं मूल्यक्षयमविजानता विक्रेत्रेत्य-र्थः । परीक्षाकालातिक्रमेण प्रत्यर्पणे दण्डमाह मनुः“ग्रहणे तु दशाहस्य न दद्यान्नापि दापयेत् । आददा-नो ददच्चैव राज्ञा दण्ठ्यः शतानि षडिति” । दशाह-ग्रहणं परीक्षाकालस्य पूर्व्वोक्तस्योपलक्षणम् । सर्वमेत-त्परिभाषणमृते परिभाषण तु तदनुसारेणैव प्रतिदानंतदभावादिकं मन्तव्यम्” । क्रयानुशयोऽप्यत्र ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
