| YouTube Channel

क्रियास्नान (kriyAsnAna)

 
वाचस्पत्यम्
Sanskrit
क्रियास्नान
न०
क्रियाङ्गं स्नानम् शङ्खोक्ते स्नानविधि-भेदे तत्प्रकारो यथा“क्रियास्नानं प्रवक्ष्यामि यथावद्विधिपूर्व्वकम् मृद्भिरद्भिश्चकर्त्तव्यं शैचमादौ यथाविधि जले निमज्य उन्मज्यउपस्पृश्य यथाविधि तीर्थस्यावाहनं कुर्य्यातत् प्रव-क्ष्याम्यशेषतः प्रपद्ये वरुणं देवमम्भसां पतिमर्च्चितम् ।याचेत देहि मे तीर्थं सर्वपापापनुत्तये तीर्थमावाहयि-स्यामि सर्व्वाधविनिसूदनम् सान्निध्यमस्मिन् तोवे चक्रियतां मदनुग्रहात् रुद्रान् प्रपद्ये वरदान् सर्वानप्सुसदस्तथा सर्वानप्सुसदश्चैव प्रपद्ये प्रयतः स्थितः देव-मंशुसदं वह्निं प्रपद्येऽघनिसूदनम् आपः पुण्याः प-वित्राश्च प्रपद्ये शरणं तथा रुद्राश्चाग्निश्च सर्पश्च वरु-णस्त्वाप एव शमयन्त्याशु मे पापं माञ्च रक्षन्तुसर्वशः हिरण्यवर्णातिसृभिर्ज्जगतीति चतसृभिः ।शन्नोदेवीति तथा शन्नआपस्तथैव इदमापः प्रवहतेद्वृप्रचञ्च समुदीरयेत् एवं सम्मार्जनं कृत्वा च्छन्दआर्षञ्चदेवताः अघमर्षणसूक्तञ्च प्रपठेत् प्रयतः सदा छन्दो-ऽनुष्टुप् तस्यैव ऋषिश्चैवाघमर्षणः देवता भाववृ-त्तश्च पापक्षवे प्रकीर्त्तितः ततोऽम्भसि निमग्नः स्यान्त्रिःपठेदघमर्षणम् प्रदद्यान्मूर्द्धनि तथा महाव्याहृति-भिर्जलम् यथाश्वमेघः क्रतुराट् सर्वपापापनोदनः ।तथाघमर्षणं सूक्तं सर्वपापप्रणाशनम् अनेन वि-धिना स्नात्वा स्नातवान् धौतवाससा परिवर्तितवासास्तुतीर्थनामानि संजपेत् उदकस्यापदानात्तु स्नानशाटीं नपीडयेत् अनेन विधिना स्नातस्तीर्थस्य फलमश्नुते”