क्रियाशक्ति (kriyAzakti)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English क्रियाशक्ति kriyAzakti capability to act
क्रियाशक्ति kriyAzakti zakti or supernatural power as appearing in actions
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishShabdartha Kaustubha
Kannadaक्रियाशक्ति
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಜಗತ್ತಿನ ಸೃಷ್ಟಿಗೆ ಸಾಧನವಾದ ಪರಮಾತ್ಮನ ಶಕ್ತಿ
व्युत्पत्तिः - > क्रियैव शक्तिः
वाचस्पत्यम्
Sanskritक्रियाशक्ति स्त्री क्रियैव शक्तिः । जगदुत्पपत्तिसाधनेपरमश्वेरस्य शक्तिभेदे । सा च ब्राह्मीरूपा यथोक्तं शा०ति० पदार्थादर्शे च “सच्चिदानन्दविभवात् सकलात् प-रमेश्वरात् । आसीच्छक्तिस्ततोनादोनादाद्विन्दुसमुद्भवः ।परशक्तिमयः साक्षात् त्रिधाऽसौ भिद्यते पुनः ।विन्द र्नादोवीजमिति तस्य भेदाः समीरिताः । विन्दुःशिवात्मको वीजं शक्तिर्नादस्तयोर्मिथः । समवायः समा-ख्यातः सर्व्वागमविशारदैः । रौद्री विन्दोस्ततोनादा-ज्ज्येष्ठा वीजादजायत । वामा, ताभ्यः समुत्पन्नारुद्रब्रह्मरमाधिपाः । ते ज्ञानेच्छाक्रिवात्मानो वह्नीन्द्व-र्कन्वस्वरूपिणः” शा० ति० । व्याख्यातमेतत् पदार्थादर्शे“अविद्याशवलितत्येन जडत्वे कथं तस्य सूष्टिकर्त्तृत्व-मिति? शङ्कां वारयति सच्चिदानन्दविभवादिति अनेना-विद्योपहितत्वेऽपि तस्य न स्वरूपहानिरित्यर्थः । सक-लाच्छक्तिरासीदिति योजना । शक्तिसहितोदेवः पुनःशक्तिस्तस्मात् सा कथमासीदिति? चेत् सत्यं या अना-दिरूपा चैतन्याध्यासेन महाप्रलये सूक्ष्मा स्थिता तस्या-गुणवैषम्यानुगुणतया सात्विकराजसतामसस्रष्टव्यप्रपञ्च-कार्य्यसाधने उच्छूनरूपत्वमेवोपचारादुत्पत्तिः । इदंसांख्यमतेनोक्तम् । प्रयोगसारे “तस्माद्विनिर्गता शक्तिःसर्वगा विश्वसम्भवा” । वायुसहि० “शिवेच्छया परा शक्तिःशिवतत्त्वैकतां गता । ततः परिस्फुरत्यादौ सर्गे तैलं ति-नादिवेति” । पञ्चरात्रेऽपि “एवमालोच्य सर्गादौ सच्चि-दानन्दरूपिणीम् । समस्ततत्त्वसंबन्धत्वात् स्फर्त्त्यधिष्ठातृरूपिणीम् । व्यक्तां करोति तां नित्यां प्रकृतिंपरमः पुमान्” तस्या एव नादविन्दू सृष्ट्य पयोम्यवस्थारूपौ तदुक्तं प्रयोगसारे “नादात्मना पबुद्धा सा निरामयपदोन्मुखी । शिवोन्मुखी यदा शक्तिः पुंरूपा सा तदास्मृता । सैव सर्गक्षमा” अन्यत्रापि “अभिव्यक्ता परा शक्तिरविनाभावलक्षणा । अखण्डा परचिच्छक्तिर्मता चिद्रु-पिणी विभुः । समस्ततत्त्वभावेन विवर्त्तेच्छासमन्वि-ता । प्रयाति विन्दुभावं च क्रियाप्राधान्यलक्षणम्” ।इच्छाशक्त्यादिरूपतया विन्दीस्त्रैविध्यमाह परेति सा-क्षात् परशक्तिमयः अतः पश्चात्तदवस्थात्मकत्वमेवोक्तम्अमौ त्रिधा भिद्यते । एतौ नादबिन्दू प्रथमोक्तनादविन्द-भ्यामन्यौ तदुक्तं “स विन्दुर्भवति त्रिधा” । विन्द्वादेर्भे-दत्रयस्वरूपमाह विन्दुरिति । ततस्तस्मात् विन्दोः रौद्रीयतस्तस्याः शिवमयत्वम् अतोऽन्वर्थताऽपि । नादाज्ज्ये-ष्ठेति । सर्वश्रेष्ठत्वेनावस्थितत्वेनार्न्वर्थता ज्ञेया । वी-जाद्वामा अजायतेति सम्बन्धः तस्याः सुन्दरत्वादन्वर्थत्वम् ।तदुक्तं प्रयोगसारे “विन्दुः शिवात्मकस्तत्र वीजं शक्त्या-त्मकं स्मृतम् । तयोर्योगे भवेन्नादस्तेभ्यो जातास्त्रिश-क्तयः । रौद्री विन्दोः समुद्भूता ज्येष्ठा नादादजायत ।वामा वीजादभूच्छक्तिस्ताभ्यो देवास्त्रयो ऽभवन्” । ते इतिज्ञानमिच्छा क्रिया च तदात्मानस्ते रुद्रब्रह्मरमाधिपाःक्रमेणच्छाशक्तिक्रियाशक्तिज्ञानशक्तिस्वरूपाः । अतएवरुद्रादयः निरोधकाले वह्नीन्द्वर्क स्वरूपिणः शक्तेरेवावस्था-विशेषा ज्ञेयाः एषामिच्छाक्रियाज्ञानित्मकशक्तित उत्पन्नत्वात् । वक्ष्यते च “इच्छाज्ञानक्रियात्मानः” इति । ईश्वर-प्रत्यभिज्ञायाम् “यतैच्छति तज्ज्ञातुं कर्त्तुं वा स्वेच्छयाक्रियाम् । अनन्तरं हि तत् कार्य्यज्ञानं दर्शनशक्तितः ।ज्ञानशक्तिस्तया ज्ञेयोयोऽसौ स्थूलसमुद्यमः । सा क्रियाश-क्तिरुदिता यतः सर्व्वं जगत् सृजेत्” गोरक्षसंहितायाम्“इच्छा क्रिया तथा ज्ञानं रौद्री व्राह्मी तु वैष्णवी ।त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरोमिति”
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
