क्रियाविशेषण (kriyAvizeSaNa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishक्रियाविशेषण - kriyAvizeSaNa - - adverb [ Gram. ]
विशेषण - vizeSaNa - - adverb
गतिमत् - gatimat - - connected with a preposition or some other adverbial prefix
कति - kati - - it may be used as an adverb with cid in the sense of oftentimes
तरम् - taram - added in older language to adverbs and in later language to verbs to intensify their meaning [ suffix - Gramm. ]
तम - tama - - added (in older language) to adverbs and (in later language) to verbs , intensifying their meaning
गति - gati - - term for prepositions and some other adverbial prefixes when immediately connected with the tenses of a verb or with verbal derivatives
क्रियाविशेषण kriyAvizeSaNa adverb [ Gram. ]
क्रियाविशेषण kriyAvizeSaNa that which defines an action more closely
Monier Williams Cologne
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiक्रियाविशेषणम्
क्रिया-विशेषणम् -
क्रिया की विशेषता प्रकट करने वाला शब्द
क्रियाविशेषणम्
क्रिया-विशेषणम् -
विधेय विशेषण
Shabdartha Kaustubha
Kannadaक्रियाविशेषण
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಧಾತ್ವರ್ಥದಿಂದ ಉಕ್ತವಾದ ಕ್ರಿಯೆಯ ರೀತಿ-ಕಾಲ-ದೇಶಾದಿ ವಿಶೇಷ ವಿಷಯಗಳನ್ನು ತಿಳಿಸುವ ಪದ /ಧಾತುವಿನ ಅರ್ಥದ ವಿವರವನ್ನು ತಿಳಿಸುವ ಪದ
व्युत्पत्तिः - > क्रियाया विशेषणम्
Abhyankara Grammar
Englishक्रियाविशेषण determinant or modifier of a verbal activity
cf. क्रियाविशेषणं चेति वक्तव्यम् । सुष्टु पचति दुष्टु पचति M.Bh. on II.1.1
nouns used as Kriyāviśeṣaṇa are put in the neuter gender, and in the nom. or the acc. case in the sing. number
cf. क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्गता च Pari.Bhāśkara Pari.56.
वाचस्पत्यम्
Sanskritक्रियाविशेषण ६ त० । धात्वर्थसाध्यरूपक्रियायाः शाब्द-बोधे विशेषणत्वेन भासमाने पदार्थे । शब्दार्थरत्ने विवृतिः“आख्यातं सकारकविशेषणमिति” भाष्योक्तवाक्यलक्षणेविशेषणपदस्य कारकविशेषणक्रियाविशेषणोभयपरतयाकारकविशेषणानां क्रियाविशेषणानां कारकभिन्नसम्बो-धनादीनां च वाक्यघटकत्वम् । तानि च वाक्यपदीयेकतिचित् संगृह्य प्रदर्शितानि यथा “संबोधनान्तं कृत्वो-ऽर्थः कारकं प्रथमोवतिः । धातुसम्बन्धाधिकारनिष्पन्नम-नमस्तनञ् । तथा यस्य च भावेन षष्ठी चेत्यु दितंद्वयम् । सम्बन्धश्चाष्टकस्यास्य क्रिययैवावधार्य्यताम्” ।अत्र यद्यपि सम्बोधनस्य सर्व्वत्र प्रकृतक्रियान्वयित्वं नसम्भवति तथापि जानीहीत्यध्याहृतक्रियान्वयितया त-स्याश्च प्रकृतक्रियायामन्वयात् परम्परया भवत्येव प्रकृत-क्रियान्वयित्वम् । तथाहि “सिद्धस्याभिमुखीभावमात्रंसम्बोधनं विदुः । प्राप्ताभिमुख्यः सम्बोध्यः क्रियासुविनियुज्यते” इति वाक्यपदीये क्रियासु नियोज्यस्यैवसंबोध्यतोक्त्या विनियोगविषयक्रियायामेव तस्य माधुत्वात्ब्रजानि देवदत्तेत्यादौ तु देवदत्तस्य गमनक्रियायां वि-नियोगाभावेनाध्याहर्त्तव्यायां जानीहीत्यादिक्रियाया-मेवान्वयौचित्यात् तत्क्रियायाञ्च व्रजानीत्यादिक्रियायाविषयत्पादिसम्बन्धेन विशेषणत्वादेकवाक्यत्वम् । अन्यथाव्रजानि देवदत्तेत्यनयोरुभयवाक्यघटकत्वे तयोश्च परस्पर-नन्वयेनैकवाक्यत्वाभावेन समानवाक्यमात्रविषयनिघातानुप-पत्तेः । तथाहि पदादित्यधिकृत्य सर्व्वमनुदात्तमपदादा-विति” चोपक्रम्य आमन्त्रितस्य चेति” सूत्रेण अष्टमाध्यायेपदादुत्तरवर्त्तिनो ऽपादादिस्थितस्यामन्त्रितस्य षष्ठाध्याय-विहिताद्युदात्तत्वं निहत्य सर्व्वामुदात्तत्वं विहितं वा-र्त्तिककारेण च “समानवाक्ये निघातयुष्मदस्मदादेशाः”इत्यनेन आद्युदात्तत्वनिवातः एकवाक्यएव ध्यवस्थापि-तोऽतः ब्रजानि देवदत्तेत्यनयोरुक्तरीत्येकवाक्यत्वएवनिघातो नान्यथेति । उक्तञ्ज वाक्यपदीये “संबोधनपदं यच्चतत् क्रियायाविशेषणम् । व्रजानि देवदत्तेति निघातोऽत्रतथासतीति” । अत्रेदं बोध्यम् विशेष्यतेऽनेनेति व्युत्प-त्त्या विशेषणपदं भेदाभेदान्यतरसम्बन्धेनान्वयिविशेषणपरंतत्र कारकादीनां भेदसम्बन्धेन क्रियायामन्वयात् भेदवि-शेषणत्वम् स्त्रोकं पचतीत्यादौ तु विक्रित्तिरूपधात्वर्थफले, द्रुतं गच्छतीत्यादौ धत्वर्थव्यापारे गत्यादौ च अभेदेनान्व-यात्स्तोवादेरभेदविशषणत्वम् । अत्रायं भेदः साध्यरूपक्रि-याया विशेषणत्वे तस्याश्च लिङ्गसंख्यान्वयित्वाभावेन तद्विशे-षणस्य साममान्यत्वात् क्लीवता उत्सर्गतोभावाख्यातवदेकव-चनान्तता च तेन स्तोकं पच्यते इत्यादि साधु । घञद्यान्तेतु साष्यसिद्धोभयक्रिययोर्धातुप्रत्ययाभ्यां बोधनस्य क्रिया-शब्दे दर्शितत्वेन धातुबोध्यसाध्यरूपक्रियाविशेषणत्वविव-क्षायामेकवचनक्लीवता घञ्वाच्यसिद्धक्रियान्वयविवक्षायां तुविशेष्यस्य लिङ्गसंख्यान्वयित्वेन तद्विशेषणस्य द्विवचनपुं-स्त्वत्वादि । अतएव “सञ्चारो रतिमन्दिरावधि सखीकर्ण्णावधि व्याहृतमिति” “आगमीनिष्फलस्तत्रभुक्तिः स्तो-कापि यत्र नो” इति च प्रयोगः संगच्छते । फलविशिष्टस्यकर्मणः कर्म्मसंज्ञाविधानेन व्यपदेशिवद्भावपरिभाषयासाध्यक्रियाविशेषणस्य कर्म्मत्वम् तेन स्तोकभीशब्दस्यकारकपर्व्वकत्वात् यण् । तत्र पदसाधुतामात्रार्थं द्विती-यामात्रविधाने तन्न स्यात् इति बोध्यम् । अस्य च एकव-चनान्ततेत्युक्तिरप्यौत्सर्गिकी क्वचित् द्विवचनादिप्रयोगो-भवत्येव उक्तञ्च हरिणा “एकत्वेऽपि क्रियाख्याते साधना-श्रयसंख्यया । भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रयइति” । उत्सर्गतएकत्वे सत्यपि साधनाश्रयसंख्ययाख्यातेक्रिया भिद्यते इत्यर्थः । अत्राख्यात इत्युपादानात्आख्यातार्थाश्रयसंख्ययैव क्रियाभेदो नतु तृतीयाद्युप-स्थाप्याश्रयसंख्ययापि तेन चैत्राभ्यां सुप्यते इत्यादौ नद्विवचनादि नवा नामार्थलिङ्गेन क्रियाभेदो लिङ्गस्येतरपदोपात्तत्वात् । एवञ्च लिङ्गसंख्यानन्वयित्वरूपासत्व-लक्षणे संख्याविशेषस्य साक्षादनन्वयित्वयिवक्षणाल्लिङ्गमा-त्रस्य वा तथात्वविवक्षणान्न दोषैत्यनुसन्धेयम् । उष्ट्रा-सिका आस्यन्ते हतशायिकाः शय्यन्ते इत्यादि भाव्योदा-हरणे च उपमानोष्ट्रासनादिबाहुल्येनोपमेयासनादेर्बा-हु त्यस्य विवक्षणाष्ट्रवेऽपि बहुवचनादीत्याकरे स्पष्टम् ।उष्ट्रासिकापदञ्च द्वितीयाबहुवचनान्तं क्रियाविशेषणतयाद्वितोयोत्पत्तेर्बाहुत्येनैवोपमानविवक्षणात् बहुबवचनम्”अत्र मतभेदेन शब्दशक्ति प्र० विशेषोदर्शितो यथा“भावविहितानामपि घञादीनामुक्तैव गतिः तत्रापिभावपदस्य धत्वर्थस्वरूपपरत्यात् । अन्यथा पाकं पश्ये-त्यादौ धत्वर्थस्य पचनादेः कर्म्मत्वादावन्वयापत्तेः सुबर्येधात्वर्थस्यान्वयस्याव्युत्पन्नत्वात् इत्यमेव च स्तोकः पाकइत्यादिप्रयोगस्य परिशिष्टाद्युक्तस्य प्रामाण्यम् अन्यथास्तोकादीनां धत्वर्थे विशेषणत्वे नियमतो द्वितीयापत्तेःअतएव “सञ्चारोरतिमन्दिरावधि सखीकर्णावधिव्याहृतम्”इत्यादिकं काव्यम् “आगमोनिष्फलस्तत्र भुक्तिः स्तोकापियत्र नो” इत्यादिः स्मतिश्च सङ्गच्छतैति नव्याः । स्वोत्तर-प्रत्ययार्थसाकाङ्क्षस्यैव धातोरर्थे विशेषणतापन्नस्य बोधनेतदर्थकनाम्नोद्वितीयाद्यपेक्षा नतु धातुमात्रस्य तथाच स्तोकःपाक इत्यादिरेव प्रमाणं नतु स्तोकं पाकैत्यादिः ।पृथग्रूपक्रियाया विशेषणं कर्म्मेत्याद्यनुशिष्टेरपितत्रैव तात्पर्य्यात् । अतएव स्तोकं स्थीयते साधु गतंचकितं द्रष्टव्यमित्यादौ धात्वर्थस्य तिङाद्यर्थकालादिसा-काङ्क्षत्वान्न तद्विशेषणस्य द्वितीयाद्यनुपपत्तिरिति तुशाब्दिकसम्प्रदायः” ।भेदसम्बन्धेन क्रियायामन्वयिविशेषणे तु पौनःपुन्येनगच्छति अतिशयेन पचति समेनैति विषमेनैतीत्यादिषुप्रकृत्यादि० तृतीया । क्वचित् धात्वर्थस्य करणत्वेनान्वयेतद्विशेषणोभूतात् तृतीयादि यथा स्वर्गकामोऽश्वमेधेनयजेत” इत्यादौ यागेनेष्टं भावयेदिति भाट्टमते यागस्य क-रणतया भावनायामन्वयात् अश्वमेधस्य तत्राभेदविशेषण-त्वेन तद्वद्विभक्तिकत्वम् । अन्यमते तु नाम्ना शिव इत्यादि-वत् अभेदे तृतीयेति भेदः । मुग्धबोधे “कर्मक्रियाविशेषणे-त्यादि” कर्मसंज्ञाद्वितोयाविधानञ्च अभेदान्वयिविशेषणप-रम् । भेदविशेषणे तु तृतीयैष । तत्रायं विशेषः क्रिया-याम् अभेदसम्बन्धेनान्वयविवक्षायां द्वितीया । अभेद-प्रकारकान्वयविवक्षयां तु तृतीया ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
