क्रियार्थ (kriyArtha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
EnglishApte Hindi
Hindiक्रियार्थ
वि* क्रिया-अर्थ -
वैदिक निषेध जिसके द्वारा किसी कर्तव्य में लगने का निर्देश किया जाता है
क्रियार्थ
वि* क्रिया-अर्थ -
किसी कार्य के लिए उपयोगी
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Abhyankara Grammar
Englishक्रियार्थ (adj. to क्रिया) lit. meant or in- tended for another action
e g. भोक्तुं व्रजति where गमनक्रिया is intend- ed for भोजनक्रिया
cf. तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् P.III.3.10.
वाचस्पत्यम्
Sanskritक्रियार्थ क्रिया अनुष्ठानमर्थोऽभिधेयोयस्य । कर्त्तव्यवि-धिबोधके वेदादिवाक्यभेदे तादृशवाक्यखौव प्रामाण्यम्मीमांसायां स्थापितं यथा“आम्नायस्य क्रियार्थत्वादानार्थक्यमतदार्थानाम्” जै० सू० ।“क्रिया कथमनुष्ठेया इति तां वदितुं समाम्नातारो वा-क्यानि समासनन्ति यानि क्रियां नावगमयन्ति क्रिया-सम्बद्धं वा किञ्चित् तान्येव भूतमर्थमन्वाचक्षते” “अत-स्तेषामानर्थक्यम् (अप्रामाण्यम्)” इति च शवरमा० ।“चोदनालक्षणोऽर्थो धर्म्मः” जै० सू० । “चोदनेति क्रियायाःप्रवर्त्तकं वचनमाहुः । चोदना हि भूतं भवन्तं भविष्यन्तंसूक्ष्मं व्यवहितं विप्रकृष्टमित्येव्रंजातीयकमर्थं शक्नो-त्यवगमयितुं नान्यत् किञ्चनेन्द्रियमिति” भा० । तेन क्रि-याप्रवर्त्तकवेदभागानामेव प्रामाण्यम् अर्थवादानां भू-तार्थानां तु क्रियार्थेन सहैक वाक्यत्वाद् प्रामाण्यं यथाहतत्रैव “विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः”जै० सू० । “वायव्यं श्वेतमालभेत भूतिकामः” “वायु-र्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागेनोपधावतीति सए-वैनं नूतिं गमयतीति” वायुर्वैक्षेपिष्ठा देवतेत्यत्र यद्यपिक्रिया नावगम्यते क्रियासम्बद्धं किञ्चित्, तथापि विध्यु-द्देशैनैकवाक्यत्वात् प्रमाणं भूतिकामैत्येवमन्तोविध्यु-द्देशः तेनैकवाक्यभूतो वायुर्वै क्षेपिष्ठा देवतेत्येवमादिः” ।“पदानां साकाङ्क्षत्वात् विधेः स्तुतेश्चैकवाक्यत्वं भवतिभूतिकाम आलभेत, कस्मात्? यतो वायुःक्षेपिष्ठेति” ।“स्तुत्यर्थेम विधीनां स्युः स्तुतिशब्दाः स्तुवन्तः क्रियां, प्ररोचयमानाः अनुष्ठातॄणामुपकरिष्यन्ति क्रियायाः” इतिच भा० । “तद्भूतार्थानां तु क्रियार्थेन समाम्नायः” जै०सू० तेन सहैकवाक्यात् प्रामाण्यमिति स्थितम् । तदेतन्मतंविशदीकृत्य पूर्बपक्षीकृत्य शा० सू० भाष्याभ्यां निराकृतं यथा“कथं पुनर्ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते? यावता ‘आ-म्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्” इति क्रिया-बरत्वं शास्त्रस्य प्रदर्शितम्, अतोवेदान्तानामानर्थक्यम्, अ-क्रियार्थत्वात् । कर्तृदेवतादिप्रकाशनार्थत्वेन वा क्रियावि-धिशेषत्वमुपासनादिक्रियान्तरविधानार्थत्वं वा । न हि प-रिनिष्ठितवस्तुस्वरूपप्रतिपादनं सम्भवति प्रत्यक्षादिवि षय-त्वात् परिनिष्ठितवस्तुनः । तत्प्रतिपादने च हेयोपादेय-रहिते पुरुषार्थाभावात् । अत एव “सीऽरोदीत्” इत्या-दीनामानर्थक्यं मा भूदिति “विधिना त्वेकवाक्यत्वात् स्तु-त्यर्थेन विधीनां स्युः” इति स्तावकत्वेनार्थवत्त्वमुक्तम् । म-न्त्राणाञ्च “इषे त्वा” इत्यादीनां क्रियातत्साधनाभिधायित्वेनकर्मममबायित्वमुक्तम् । न क्वचिदपि वेदवाक्यानां विधि-संस्पर्शमन्तरेणार्थवत्ता दृष्टा उपपन्ना वा । न च परि-निष्ठिते वस्तुस्वरूपे विधिः सम्भवति, क्रियाविषयत्वा-द्विधेः । तस्मात् कर्म्मापेक्षितकर्त्तृदेवतादिस्वरूपप्रकाशनेनक्रियाविधिशेषत्वं वेदान्तानाम् । अथ प्रकरणान्तरभया-न्नैतदभ्युपगम्यते तथापि स्ववाक्यगतोपासनादिकर्मपरत्वम् ।तस्मान्न ब्रह्मणः शास्त्रयोनित्वमिति प्राप्ते उच्यते” भाष्यम् ।“तत्तु समन्वयात्” शारीरकसूत्रम् ।“तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । तद् ब्रह्म सर्वज्ञं सर्वशक्तिजगदुत्पत्तिस्थितिलयकारणं वेदान्तशास्त्रादवगम्यते । कथ-म्? समन्वयात् । सर्वेषु हि वेदान्तेषु वाक्यानि तात्-र्य्येणैव तस्यार्थस्य प्रतिपादकत्वेन समनुगतानि “सदेवसौम्येदमग्र आसीत्” “एकमेवाद्वितीयं ब्रह्म” “आत्मा वाइदमेक एवाग्र आसीत्” “तदेतद् ब्रह्मापूर्वमनपरमनन्त-रमबाह्यम्” “अयमात्मा ब्रह्म सर्व्वानुभूः” “ब्रह्मवेदमृतं पुर-स्ताद्” इत्यादीनिं । न च तद्गतानां पदानां ब्रह्मस्वरूप-विषये निश्चिते समन्वयेऽवगम्यमानेऽर्थान्तरकल्पना युक्ता, श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् । न च तेषां कर्त्तृदेवतादि-स्वरूपप्रतिपादनपरतावसीयते । “तत् केन कं पश्येद्”इत्यादिक्रियाकारकफलनिराकरणश्रुतेः । न च परिनि-ष्ठितवस्तुस्वरूपत्वेऽपि प्रत्यक्षादिविषयत्वम् । “तत्त्वम-सि” इति ब्रह्मात्मभावस्य शास्त्रमन्तरेणानवगम्यमानत्वात् ।यत्तु हेयोपादेयरहितत्वादुपदेशानर्थक्यमिति नैष दोषःहेयोपादेयशून्यब्रह्मात्मावगमादेव सर्वक्लेशप्रहाणात्पुरुशार्थसिद्धेः” । तत्रैव सूत्रे व्याख्यानशेषे“यदपि शास्त्रतात्पर्य्यबिदामनुक्रमणम् । “दृष्टो हि त-स्यार्थः कर्मावबोधनमित्येवमादिः” तद्धर्म्मजिज्ञामाविषयत्वा-द्विधिप्रतिषेधशास्त्राभिप्रायं द्रष्ठव्यम् । अपि च आम्रा-यस्य क्रियार्थत्वादानाथक्यमतदर्थानाम्” इत्येतदेकान्ते-नाम्युपगच्छतां भूतोपदेशानर्थक्यप्रसङ्गः प्रवृत्तिनिवृत्ति-विधितच्छेषव्यतिरेकेण भूतञ्चेद्वस्तूपदिशति भव्यार्थ-त्वेन„ कूटस्थनित्यं भूतं नोपदिशतीत्यत्र को हेतुः ।न हि भूतमुपदिश्यमानं क्रिया भवति । अक्रियात्वेऽपिभूतस्य क्रियासाधनत्वात् क्रियार्थ एव भूतोपदेश इतिचेत्, नैष दोषः क्रियार्थत्वेऽपि क्रियानिर्वर्त्तनशक्ति-मद्वस्तूपदिष्टमेव । क्रियार्थन्तु प्रयोजनं तस्य । न चैता-वता वस्त्वनुपदिष्टं भवति । यदि नामोपदिष्टं किं तवंतेन स्यादिति? उच्यते, अनवगतात्मवस्तूपदेशश्च तथैवभवितुमर्क्षति, तदवगत्या मिथ्याज्ञानस्य संसारहेतोर्नि-वृत्तिः प्रयोजन क्रियत इत्यविशिष्टमर्थवत्त्वं क्रियासाध-नवस्तूपदेशेन । अपि च “ब्राह्मणो न हन्तव्यः” इतिचैवमाद्या निवृत्तिरुपदिश्यते । न च सा क्रिया नापिक्रियासाधनम् । अक्रियार्थानामुपदेशोऽनर्थकश्चेत् ब्रा-ह्मणो न हन्तव्यः” इत्यादिनिवृत्त्युपदेशानामानर्थक्यंप्राप्तं, तच्चानिष्टम् । न च स्वभावप्राप्तहन्त्यर्थानुरागेणनञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुं हननक्रियानिवृ-त्त्यौदासीनव्यतिरेकेण । नञश्चैष स्वभावी यत् स्वसम्ब-न्धिनोऽभावं बोधयति, अभावबुद्धिश्चौदासीन्यकारणं साच दग्धेन्धनाग्निवत् स्वयमेवोपशाम्यति, तस्मात् प्रसक्त-क्रियाया निवृत्त्यौदासीन्यगेव “ब्राह्मणो न हन्तव्यः”इत्यादिषु प्रतिषेधार्थं मन्यामहे अन्यत्र प्रजापतिव्रता-दिभ्यः । तस्मात् पुरुषार्थानुपयोग्युपाख्यानादिभूतार्थ-वाक्यानामानर्थक्याभिधानं द्रष्टव्यम् । यदप्युक्तं कर्त्त-व्यविध्यनुप्रवेशमन्तरेण वस्तुमात्रमुच्यमानमनर्थकं स्यात्(सप्तद्वीपा वसुमतीत्यादिवदिति) तत् परिहृतं रज्जुरियंनायं सर्प इति वस्तुमात्रकथनेऽपि प्रयोजनस्य दृष्टत्वात्”भा० । क्रिया अर्थः प्रयोजनं यस्य । २ क्रियानिमित्तेत्रि० । “तुमुण्ण्वुलौ क्रियार्थायां क्रियायाम्” पा० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
