| YouTube Channel

क्रियायोगः (kriyAyogaH)

 
Apte Hindi
Hindi
क्रियायोगः
पुं*
क्रिया-योगः -
क्रिया के साथ संबंध
क्रियायोगः
पुं*
क्रिया-योगः -
तरकीब और साधनों का प्रयोग
शब्दकल्पद्रुमः
Sanskrit
क्रियायोगः,
पुं,
(क्रियैव योगः योग उपायः ।) देवा-राधनतदालयादिकरणरूपपुण्यक्रिया यथा, --नारद उवाच ।“क्रियायोगः कथं प्रोक्तस्त्वया मे प्रपितामह ! ।तदहं श्रोतुमिच्छामि फलं चास्य यथातथम्
ब्रह्मोवाच ।ज्ञानयोगस्तु योगस्य यस्तु साधनमात्मना ।यस्तु वाह्यार्थसंयोगः क्रियायोगः उच्यते
प्रधानं कारणं योगो मुक्तेर्मुनिवरोत्तम ! ।क्रियायोगस्तु योगस्य परमं तात ! साधनम्
यदेतद्भवता पृष्टं तदिहैकमनाः शृणु ।यैस्तु देवालयं विष्णोः शुभं दारुमयं कृतम्
कारयेन्मृण्मयं वापि शृणु तस्य फलं मुने ! ।अहन्यहनि योगेन यजतो यन्महाफलम्
प्राप्नोति तत् फलं विष्णोर्यः कारयति मन्दिरम् ।कुलानां शतमागामि समतीतं तथा शतम्
कारयेद्भगवद्धाम नयत्यच्युतमन्दिरम् ।सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु
विष्णोरालयविन्यासप्रारम्भादेव नश्यति ।पतितं पतमानन्तु तथार्द्धपतितं तथा
समुद्धृत्य हरेर्द्धाम द्विगुणं फलमाप्नुयात्
“प्रतिमां लक्षणवतीं यः कुर्य्याच्चैव मानवः
केशवस्य परं लोकमक्षयं प्रतिपद्यते ।अनुज्ञातो मया राज्ये यमो राजाथ किङ्कराः
केवलं ये जगद्धाममनन्तं समुपाश्रिताः ।भवद्भिः परिहार्य्यास्ते तेषां नास्तीह संस्थितिः
नमः कृष्णाच्युतानन्त वासुदेवेत्युदीरितम् ।यैर्भावभावितैर्दूतास्ते त्याज्याः सुदूरतः
दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति ।श्रद्धापुरःसरैर्नित्यं ते त्याज्याः सुदूरतः”
इत्याद्ये वह्निपुराणे वैष्णवक्रियायोगे यमानुशासन-नामाध्यायः
तथा पातञ्जले ।“तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगाः”
)