| YouTube Channel

क्रियाभ्यावृत्ति (kriyAbhyAvRtti)

 
Shabdartha Kaustubha
Kannada
क्रियाभ्यावृत्ति
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕ್ರಿಯೆಯ ಪೌನಃಪುನ್ಯ /ಕಾರ್ಯವು ಮತ್ತೆ ಮತ್ತೆ ಆಗುವುದು
व्युत्पत्तिः - > क्रियाया अभ्युपगमः
प्रयोगाः - > "सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्"
उल्लेखाः - > पा० सू० ५-४-१७
वाचस्पत्यम्
Sanskrit
क्रियाभ्यावृत्ति स्त्री क्रियाया अभ्यावृत्तिः क्रियायाःपौनपुन्ये “क्रियाभ्यावृत्तिगणने कृत्वसुच्” पा० ।विवृतमेतदस्माभिः शब्दार्थरत्ने यथा“क्रियायाएव पौनःपुन्यसम्भवेनाभ्यावृत्तिपदेनैव क्रिया-प्राप्तौ पुनः क्रियाग्रहणेन इतराशे विशेषणतानापन्नसा-ध्यक्रियाया एवाभ्यावृत्तौ तेषां साधुत्वज्ञापनात् पञ्चकृत्वः-पचतीत्येव प्रयोगः नतु पञ्चकृत्वःपाकैत्यपि केचित्तु“द्विर्व्वचनेऽचीति” पा० निर्द्देशात् साध्यरूपकियान्वयेएव तेषां साधुत्वं तेन भावघञत्तादावपि धातुना साध्य-क्रियाया अभिधानात् पञ्चकृत्वः पाक इत्यपि भवत्येव ।सिद्धरूपक्रियायां तदन्वयविवक्षायां तु नैवं तेन तत्र पञ्चइत्येव स्यादिति प्राहुः”