| YouTube Channel

क्रियाद्वेषी (kriyAdveSI)

 
शब्दकल्पद्रुमः
Sanskrit
क्रियाद्वेषी, [न्]
पुं,
(क्रियां व्यवहाराङ्गसाधनंसाक्षिलेख्यादिकं द्वेष्टि द्विष् + णिनिः ।)साक्ष्यलिखितभुक्तियुक्तिशपथद्वेष्टा चं व्यव-हारविषये पञ्चधा हीनान्तर्गतहीनविशेषः ।यथाह, -- व्यवहारतत्त्वे नारदः ।“अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः ।आहूतप्रपलायी हीनः पञ्चविधः स्मृतः”
(तल्लक्षणं यथा वीरमित्रधृतकात्यायनवचने ।“लेख्यञ्च दाक्षिणञ्चैव क्रिया ज्ञेया मनीषिभिः ।तां क्रियां द्वेष्टि यो मोहात् क्रियाद्वेषी उच्यते”
)कर्म्मद्वेष्टरि त्रि