| YouTube Channel

क्रिमि (krimi)

 
शब्दसागरः
English
क्रिमि
m.
(-मिः)
1. A worm, an insect.
2. Lac, which is the accumula-
tion of an insect.
3. A worm in the intestines.
E.
क्रम् to go, इन्
Unadi affix, and इट् inserted
also कृमि.
Capeller Eng
English
क्रि॑मि v. कृमि.
Yates
English
क्रिमि (मिः) 2.
m.
A worm
lac.
Spoken Sanskrit
English
क्रिमि - krimi -
m.
- worm
क्रिमि - krimi -
m.
- insect
Wilson
English
क्रिमि
m.
(-मिः)
1 A worm, an insect.
2 Lac, which is the accumulation of an insect.
3 A worm in the intestines.
E.
क्रम to go, इन् Uṇādi affix, and इट् inserted
also कृमि.
Apte
English
क्रिमिः [krimiḥ] का [kā], का
f.
A worm
क्रिमिकाण्डजन्तुकीर्णाम् (रसाम्) Bu. Ch.5.5.
An insect
see कृमि.
Comp.
-जम् aloewood. -शैलः an ant-hill.
Apte 1890
English
क्रिमिः 1 A worm.
2 An insect. see कृमि.
Comp.
जं aloewood.
शैलः an ant-hill.
Monier Williams Cologne
English
क्रि॑मि for कृ॑मि, q.v.
Monier Williams 1872
English
क्रिमि क्रिमि, इस्, m. a worm, an insect, &c.,
and the words derived and compounded with क्रिमि।
See under कृमि।
Macdonell
English
क्रिमि krími, incorrect spelling of kṛmi.
Apte Hindi
Hindi
क्रिमिः
पुं*
- "क्रम् + इन्, इत्वम्"
कीड़ा
क्रिमिः
पुं*
- "क्रम् + इन्, इत्वम्"
कीट
क्रिमिः
पुं*
- "क्रम् + इन्, इत्वम्"
"कीड़ों से भरा हुआ, कीटयुक्त"
क्रिमिः
पुं*
- "क्रम् + इन्, इत्वम्"
कीड़े
क्रिमिः
पुं*
- "क्रम् + इन्, इत्वम्"
गधा
क्रिमिः
पुं*
- "क्रम् + इन्, इत्वम्"
मकड़ी
क्रिमिः
पुं*
- "क्रम् + इन्, इत्वम्"
लाख
Shabdartha Kaustubha
Kannada
क्रिमि
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಹುಳು /ಕೀಟ
निष्पत्तिः - > क्रमु (पादविक्षेपे) - "इन्" (उ० ४-१२१)
प्रयोगाः - > "व्रणी पूयक्लिन्नः क्रिमिकुलशतैरावृततनुः"
उल्लेखाः - > भर्तृ० २-७८
क्रिमि
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕೃಮಿ ರೋಗ
L R Vaidya
English
krimi {% m. %} 1. A worm
2. an insect. See कृमि.
अभिधानचिन्तामणीशिलोच्छः
Sanskrit
--source--
कृमिः क्रिमिरपि गण्डूपदः किञ्चुलुकोऽपि १०८
-wordlist-
क्रिमि (पुं), किञ्चुलुक (पुं)
Vedic Reference
English
Krimi. See Kṛmi.
शब्दकल्पद्रुमः
Sanskrit
क्रिमिः,
पुं,
(क्रमु पादविक्षेपे “क्रमितमिशतिस्तं-भामत इच्च” उणां १२१ इति इन् कित्अत इच्च ।) कीटः द्रुमामयः इत्यमरटीकायांभरतः
रोगविशेषः तस्य प्रकारो यथा, --“क्रिमयस्तु द्विधा प्रोक्ता वाह्याभ्यन्तरभेदतः ।वहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्व्विधाः
नामतो विंशतिविधा वाह्यास्तत्र मलोद्भवाः ।तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः
बहुपादाश्च सूक्ष्माश्च यूका लिख्याश्च नामतः ।द्विधा ते कोठपिडका कण्डूगण्डान् प्रकुर्व्वते
*
निदानम् यथा ।“अजीर्णभोजी मधुराम्लनित्योद्रवप्रियः पिष्टगुडोपभोक्ता ।व्यायामवर्जी दिवाशयानोविरुद्धभुक् संलभते क्रमींश्च”
पुरीषजनिदानं यथा, --“मांसपिष्टान्नलवणगुडशाकैः पुरीषजाः”
*
कफजनिदानं यथा, --“मांसमाषगुडक्षीरदधिशुक्तैः कफोद्भवाः”
रक्तजनिदानं यथा, --“विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि”
अभ्यन्तरक्रिमिलक्षणं यथा, --“ज्वरो विवर्णता शूलं हृद्रोगच्छर्द्दनं भ्रमः ।भक्तद्वेषोऽतिसारश्च संजातक्रिमिलक्षणम्”
कफजरूपं यथा, --“कफादामाशये जाता वृद्धाः सर्पन्ति सर्व्वतः
पृथुब्रध्ननिभाः केचित् केचिद्गण्डूपदोपमाः ।रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाणवः
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते ।अन्त्रादा उदरावेष्टा हृदयादा महागुदाः
चुरवो दर्भकुसुमाः सुगन्धास्ते कुर्व्वते ।हृल्लासमास्यस्रवणमविपाकमरोचकम्
मूर्च्छाच्छर्द्दिज्वरानाहकार्श्यक्षवथुपीनसान्”
*
रक्तजरूपं यथा, --“रक्तवाहिशिरास्थाना रक्तजा जन्तवोऽणवः
अपादा वृत्तताम्राश्च सौक्ष्मात् केचिददर्शनाः ।केशादा रोमविध्वंसा रोमद्वीपा उडुम्बराः
षट् ते कुष्ठैककर्म्माणः सहसौरसमातरः”
विड्जरूपं यथा, --“पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः ।वृद्धास्ते स्युर्भवेयुश्च ते यदामाशयोन्मुखाः ।तदास्योद्गारनिश्वासविड्गन्धानुविधायिनः
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः ।ते पञ्च नाम्ना क्रिमयः ककेरुकमकेरुकाः
सौस्वरादाः सशूलाख्या लेलिहा जनयन्ति हि”
विमार्गगक्रिमिलक्षणं यथा, --“विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः ।रोमहर्षाग्निसदनगुदकण्डूर्विमार्गगाः”
इति माधवकरः
(अस्य सहेतुकलक्षणचिकित्सितानि यथा, --“इह खल्वग्निवेशविंशतिविधाः क्रिमयः पूर्व्व-मुक्ता नानाविधेन प्रविभागेनान्यत्र सहजेभ्यः ।ते पुनः प्रकृतिभिर्भिद्यमानाश्चतुर्व्विधास्तद्यथा ।पुरीषजाः श्लेष्मजाः शोणितजाः मलजाश्चेति ।तत्र मलो वाह्यश्चाभ्यन्तरश्च तत्र वाह्येमले जातान् मलजान् सञ्चक्ष्महे, तेषां समुत्थानंमृजावर्ज्जनं, स्थानकेशश्मश्रुलोमपक्ष्मवासांसि, संस्थानमणवस्तिलाकृतयो बहुपादा वर्णः कृष्णःशुक्लश्च, नामानि यूकाः पिपीलिकाश्चेति, प्रभावःकण्डूजननं कोठपिडकाभिनिर्व्वर्त्तनञ्च, चिकि-त्सितं त्वेषामपकर्षणं मलोपघातो मलकराणाञ्चभावानामुपसेवनमिति शोणितजानान्तु कुष्ठैःसमानं समुत्थानं, स्थानं रक्तवाहिन्यो धमन्यः, संस्थानमणवो वृत्ताश्चापादाश्च सूक्ष्मत्वाच्चैके भव-न्त्यदृश्याः, वर्णस्ताम्रः, नामानि केशादा लोमादालोमद्वीपाः सौरसा औदुम्बरा जन्तुमातर इति ।प्रभावः केशश्मश्रुनखलोमापध्वंसो ब्रणगतानाञ्चहर्षकण्डूतोदसंसर्पणान्यवृद्धानाञ्च त्वक्सिरास्नायु-मांसतरुणास्थिभक्षणमिति, चिकित्सितमप्येषांकुष्ठैः समानं तदुत्तंरकालमुपदेक्ष्यते ।श्लेष्मजाः क्षीरगुडतिलमत्स्यानूप-मांस-पिष्टान्न-परमान्नकुसुम्भस्नेहाजीर्ण-पूतिक्लिन्नसङ्कीर्ण-विरु-द्धासात्म्यभोजनसमुत्थानाः तेषामाशंयः स्थानंप्रवर्द्धमानास्तूर्द्ध्वमधो वा विसर्पन्ति, उभयतो वा ।संस्थानवर्णविशेषास्तु श्वेताः पृथुब्रध्नसंस्थानाःकेचित्, केचिद्वृत्तपरिणाहाः गण्डूपदाकृतयश्चश्वेतास्ताम्रावभासाः, केचिदणवो दीर्घास्तन्त्वा-कृतयः श्वेताः तेषां त्रिविधानां श्लेष्मनिमित्तानांक्रिमीणां नामानि, अन्त्रादा, उदरादा, हृदया-दाश्चुरवो दर्भपुष्पाः, सौगन्धिकाः, महागुदाश्चइति प्रभावो हृल्लासास्यसंस्रवणमरोचका वि-पाको ज्वरो मूर्च्छाजृम्भाक्षवथुरानाहोऽङ्गमर्द्दःछर्द्दिः कार्श्यं पारुष्यमिति ।पुरीषजास्तुल्यसमुत्थानाः श्लेष्मजैस्तेषां स्थानंपक्वाशयः प्रवर्द्धमानास्त्वधो विसर्पन्ति यस्यपुनरामाशयाभिमुखाः स्युस्तदनन्तरं तस्योद्गार-निःश्वासाः पुरीषगन्धिनः स्युः संस्थानवर्णविशे-षास्तु सूक्ष्मवृत्तपरीणाहाः श्वेता दीर्घोर्णांशुक-सङ्काशाः केचित् केचित् पुनः स्थूलवृत्तपरी-णाहाः श्यावनीलहरित पीताः तेषां नामानिककेरुकमकेरुकाः लेलिहाः शालूवकाः सौसुरा-दाश्चेति प्रभावः पुरीषभेदः कार्श्यं पारुष्यं लोम-हर्षाभिनिर्व्वर्त्तनञ्च तत्र वास्य गुदमुखं परितु-दन्तः कण्डूश्चोपजनयन्तो गुदमुखं पर्य्यासते सजातहर्षो गुदान्निष्क्रमणमतिवेलं करोति !इत्येषश्लेष्मजांनां पुरीषजानाञ्च क्रिमीणां समु-त्थानादिविशेषः चिकित्सितन्तु खल्वेषां समा-सेनोपदिश्य पश्चाद्विस्तरेणोपदेक्ष्यते तत्र सर्व्व-क्रिमीणामपकर्षणमेवादितः कार्य्यम् ततः प्रकृ-तिविघातोऽनन्तरं निदानोक्तानां भावानामनुप-सेवनमिति ।तत्रापकर्षणं हस्तेनाभिमृश्यापनयनमुपकरण-वतानुंपकरणेन वा स्थानगतानान्तु क्रिमीणांभेषजेनापकर्षणं न्यायतश्चतुर्विधमिति तद्-यथा, -- शिरोविरेचनं वमनं विरेचनमास्थापन-मित्यपकर्षणविधिः ।प्रकृतिविघातस्त्वेषां कटुतिक्तकषायक्षारो-ष्णानां द्रव्याणामुपयोगो यच्चान्यदपि किञ्चित्श्लेष्मपुरीषप्रत्यनीकभूतं तत्स्यादिति प्रकृति-विघातः ।अनन्तरं निदानोक्तानां भावानामनुपसेदनम् ।यदुक्तं निदानविधौ, तस्य वर्ज्जनं तथाविध-प्रायाणां चापरेषां द्रव्याणामिति लक्षणतश्चिकि-त्सितमनुव्याख्यातमेतदेव पुनर्विस्तरेणोपदेक्ष्यते ।अथैनं क्रिमिकोष्ठमातुरमग्रे षड्रात्रं सप्त-रात्रं वा स्नेहस्वेदाभ्यामुपपाद्य श्वोभूते एनंसंशोधनं पाययितास्मीति, क्षीरदधिगुडतिल-मत्स्यानूपमांसपिष्टान्नपरमान्नकुसुम्भस्नेह सम्प्रयुक्तै-र्भोज्यैः सायम्प्रातरुपपादयेत् समुदीरणार्थञ्चैवक्रिमीणाङ्कोष्ठाभिसरणार्थञ्च भिषगथ व्युष्टायांरजन्यां सुखोषितं सुप्रजीर्णभुक्तञ्चाज्ञायास्थाप-नवमनविरेचनैस्तदहरेवोपपादयेत् उपपादनी-यश्चेत्स्यात् सर्व्वान् परीक्ष्य विशेषान् समीक्ष्यसम्यक् अथाहरेति ब्रूयात् मूलक-सर्षपलशुनक-रञ्ज-शिग्रु-खरपुष्पभूस्तृण-सुमुख-सुरस-कुठेरक-कण्डीर-कालमालपर्णासक्षवकफणिज्झकानि स-र्व्वाण्यथवा यथालाभम् तान्याहृतान्यभिसमीक्ष्यखण्डशश्छेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालितायां स्थाल्यां समावाप्य गोमूत्रेणार्द्धोदकेनाभ्या-सिच्य साधयेत् सततमवघट्टयन् दर्व्व्या तमु-पयुक्तं भूयिष्टेऽम्भसि गतरसेष्वौषधेषु स्थाली-मवतार्य्य सुपरिपूतं कषायं सुखोष्णं मदनफल-विडङ्गकल्कतैलोपहितं सर्ज्जिकालवणमभ्यासिच्यवस्तौ विधिवदास्थापयेदेनम्” ।“मदनफलपिप्पलीकषायेष्वञ्जलिमात्रेण त्रिवृत्कल्काक्षमात्रामालोड्य पातुमस्मै प्रयच्छेत् तदस्यदोषमभयतो निर्हरति साधु एवमेव कल्पो-क्तानि वमनविरेचनानि संसृज्य पाययेदेनं बुद्ध्यासर्व्वविशेषानवेक्षमाणः ।अथैनं सम्यग्विरिक्तं विज्ञायापराह्णे शैख-रिककषायेण सुखोष्णेन परिषेचयेत् तेनैव चकषायेण वाह्याभ्यन्तरान् सर्व्वोदकार्थान् कारयेत्शश्वत् तदभावे वा कटुकतिक्तकषायाणामौष-धानां क्वाथैर्मूत्रक्षारैर्वा परिषेचयेत् परिषिक्तञ्चएवं निवातमागारमनुप्रवेश्य पिप्पलीपिप्पली-मूलचव्यचित्रकशृङ्गवेरसिद्धेन यवाग्वादिना क्रमे-णोपक्रामयेत् विलेप्याक्रमागतञ्चैनमनुवासयेत्विडङ्गतैलेनैकान्तरं द्विस्त्रिर्व्वा यदि पुनरस्याति-प्रवृद्धान् शीर्षादीन् क्रिमीन् मन्येत, शिरस्येवा-भिसर्पतः कदाचित् ततः स्नेहस्वेदाभ्यामस्य शिरउपपाद्य, विरेचयेदपामार्गतण्डुलादिना शिरो-विरेचनेन ।यस्त्वभ्याहार्य्यविधिः प्रकृतिविघातोक्तः क्रिमीणांसोऽनुव्याख्यास्यते मूषिकपर्णीं समूलाग्रप्र-तानामपहृत्य खण्डशश्छेदयित्वा उदूखले क्षोद-यित्वा पाणिभ्यां पीडयित्वा रसं गृह्णीयात् ।तेन रसेन लोहितशालितण्डुलपिष्टं समालोड्यपूपलिकां कृत्वा विधूमेष्बङ्गारेषूपकुड्य विडङ्गतैल-लवणोपहितां क्रिमिकोष्ठाय भक्षयितुमुप-यच्छेत् तदनन्तरमम्लकाञ्जिकमुदश्विद्वा पिप्प-ल्यादि पञ्चवर्गसंसृष्टं सलवणमनुपाययेत्” ।“अथाश्वशकृदाहृत्य महति किलिञ्जे प्रती-र्य्यातपे शोषयित्वोदूखले क्षोदयित्वा दृशदिपुनः सूक्ष्माणि चूर्णानि कारयित्वा विडङ्गकषा-येण त्रिफलाकषायेण वा अष्टकृत्वो दशकृत्वोवा आतपे सुपरिभाषितानि भावयित्वा दुशदिपुंनः सूक्ष्माणि चूर्णानि कारयित्वा नवे कलसेसमवाप्यानुगुप्तं निधापयेत् तेषान्तु खलु चूर्णानांपाणितलं पूर्णं यावद्वा साधु मन्येत क्षौद्रेण संसृज्यक्रिमिकोष्ठाय लेढुम्प्रयच्छेत्
तथा भल्लातकास्थीन्याहार्य्य कलसप्रमाणेनसम्पोथ्य स्नेहभाविते दृढे कलसे सूक्ष्मानेकच्छिद्र-ब्रध्रे मृदावलिप्ते समवाप्योडुपेन पिधाय भूमा-वाकण्ठं निखातस्य स्नेहभावितम्यैव दृढस्योपरिकुम्भस्यारोप्य समन्तात् गोमयैण्पचित्य दाह-येत् यदा जानीयात् साधु दग्धानि गोम-यानि विगतस्नेहानि भल्लातकास्थीनीति ततस्तंकुम्भमुद्धारयेत् अथ तस्मात् द्वितीयात् कुम्भात्तंस्नेहमादाय विडङ्गतण्डुलचूर्णैः स्नेहार्द्धमात्रैः प्रतिसंसृज्यातपे सर्व्वमहः स्थापयित्वा ततोऽस्मै मात्रांप्रयच्छेत् पानाय तेन साधु विरिच्यते विरि-क्तस्य चानुपूर्व्वी यथोक्ता”
“अथाहरेति ब्रूयात् शारदान्नवांस्तिलान्सम्पदुपेतानाहृत्य सुनिष्पूतान्निष्पूय सुशुद्धान्शोधयित्वा विडङ्गकषाये सुखोष्णे प्रक्षिप्यसुनिर्ष्वापितान् निर्व्वापयेत् आदोषशमनात् ।गतदोषानभिसमीक्ष्य सप्रलूनान् प्रलुच्य पुनरेवसुनिष्पूतान्निष्पूय सुशुद्धान् शोधयित्वा विडङ्ग-कषायेण त्रिःसप्तकृत्वः सुपरिभावितान् भाव-यित्वातपे शोधयित्वोदूखले संक्षुद्य दृशदि पुनःश्लक्ष्णपिष्टान् कारयित्वा द्रोण्यामभ्यवधाय वि-डङ्गकषायेण मुहुर्मुहुरवसिञ्च्य पाणिमर्द्दं मर्द्द-येत् तस्मिन् खलु प्रपीड्यमाने यत्तैलमुपदियात्तत्पाणिभ्यां पर्य्यादाय शुचौ दृढे कलसे समा-सिच्यानुगुप्तन्निधापयेत् अथाहरेति ब्रूयात्तिल्वकोद्दालकयोर्द्वौ विल्वमात्रौ पिण्डौ श्लक्ष्ण-पिष्टौ विडङ्गकषायेण, ततोऽर्द्धमात्रौ श्यामा-त्रिवृतयोरर्द्धमात्रौ दन्तीद्रवन्त्योरतो अर्द्धमात्रौ-चव्यचित्रकयोरित्येतत् सम्भारं विडङ्ग-कषाय-स्यार्द्धाढकमात्रेण प्रतिसंसृज्य ततस्तैलप्रस्थमावाप्यसर्व्वमालोड्य महति पर्य्योगे समासिच्याग्नावधि-श्रित्य महत्यासने सुखोपविष्टः सर्व्वतः स्नेहमव-लोकयन्नजस्रं मृद्वग्निना साधयेद्दर्व्व्या सततमव-घट्टयन् यदा जानीयाद्विरमति शब्दः, प्रशा-म्यति फेणः, प्रसादमापद्यते स्नेहो यथास्वङ्गन्ध-वर्णरसोत्पत्तिः संवर्त्तते, भेषजमङ्गुलिभ्यां मृद्य-मानमनतिमृदुमनतिदारुणमनङ्गुलिग्राहि चेति ।सकालस्तस्यावतारणाय ततस्तमवतीर्णं हृतंशीतीभूतं महता वाससा परिपूय शुचौ दृढेकलसे समासिच्य पिधानेन पिधाय शुक्लेनवस्त्रपट्टेनाच्छाद्य सूत्रेण सुबद्धं अनुगुप्तन्निधाप-येत् ततोऽस्मै मात्राम्प्रयच्छेत् पानाय तेनसाधु विरिच्यते सम्यगपहृतदोषस्य चास्यानु-पूर्व्वी यथोक्ता ततश्चैनमनुवासयेदनुवासन-काले”
“इत्येतत् द्वयानां श्लेष्म-पुरीष-सम्भवानांक्रिमीणां समुत्थानस्थानमंस्थानवर्ण-नाम-प्रभाव-चिकित्सितविशेषा व्याख्याताः सामान्यतः वि-शेषतस्त्वल्पमात्रमास्थापनानुवासनानुलोमहरणंभूयिष्ठं तेष्वौषधेषु पुरीषजानां क्रिमीणां चिकि-त्सितं कार्य्यं मात्राधिकं पुनः शिरोविरेचनवमनो-पशमनभूयिष्ठं तेष्वौषधेषु श्लेष्मजानां क्रिमीणांचिकित्सितं कार्य्यम् इत्येष क्रिमिघ्नो भेषज-विधिरनुव्याख्यातो भवति”
इति चरके विमान-स्थाने सप्तमोऽध्यायः
*
“सूतं गन्धं मृतं लौहं मरिचं विषमेव ।मुस्तकं त्रिफला शुण्ठी धातकी सरसाञ्जनम्
त्र्यूषणं मुस्तकं पाठा बालकं विल्वमेव ।एतानि समभागानि स्वरसैर्भृङ्गजैस्तथा
वराटिका प्रमाणेन भक्षणाय विशेषतः ।क्रिमिरोगविनाशाय क्रिमिरोगविनाशनः”
इति क्रिमिरोगारिरसः
*
“क्रमेण वृद्धं रसगन्धकाज-मोदा विडङ्गं विषमुष्टिका ।पलाशवीजञ्च विचूर्ण्यमस्यनिष्कप्रमाणं मधुनावलीढम्
पिवेत् कषायं षनजं तदूर्द्ध्वंरसोऽयमुक्तः क्रिमिमुद्गराख्यः ।क्रिमीन्निहन्यात् क्रिमिजांश्च रोगान्सन्दीपयत्यग्निमयं त्रिरात्रात्”
इति क्रिमिमुद्गरो रसः
इति वैद्यकरसेन्द्रसारसंग्रहे क्रिमिरोगाधिकारे
*
अथास्य पथ्यापथ्यविधिः पथ्यानि यथा, --“आस्थापनं कायशिरोविरेचनंधूमः कफघ्नानि शरीरमार्ज्जना ।चिरन्तना वैणवरक्तशालयःपटोलवेत्राग्ररसोनवास्तुकम्
हुताशमन्दारदलानि सर्षपानवीनमोचं वृहतीफलान्यपि ।तिक्तानि नाली दलानि मौषिकंमांसं विडङ्गं पिचुमर्द्दपल्लवम्
पथ्या तैलन्तिलसर्षपोद्भवंसौवीरशुक्तञ्च तुषोदकं मधु ।पचेलिमं तालमरुष्करं गवांमूत्रञ्च ताम्बूलसुरामृगाण्डजम्
औष्ट्राणि मूत्राज्यपयांसि रामठंक्षाराजमोदा खदिरञ्च वत्सकम् ।जम्बीरनीरं सुषवी यमानिकाक्षाराः सुराह्वा गुरुशिंशपोद्भवाः
तिक्तः कषायः कटुको रसोऽप्ययंवर्गो नराणां क्रिमिरोगिणां सुखः”
*
अपथ्यानि यथा, --“छर्द्दिञ्च तद्वेगविधारणञ्चविरुद्धपानाशनवह्णिनिद्राम् ।द्रवञ्च पिष्टान्नमजीर्णताञ्चघृतानि माषान् दधिपत्रशाकम्
मांसं पयोऽम्लं मधुरं रसञ्चक्रिमीन् जिघांसुः परिवर्ज्जयेच्च”
इति वैद्यकक्रिमिरोगपथ्यापथ्यविधिग्रन्थे
)
वाचस्पत्यम्
Sanskrit
कृ(क्रि)मि
पु०
क्रम--इन् अतैत्त्वम् “भ्रमेः सम्प्रसारणञ्च” उ०इत्यतः सम्प्रसारणानुवृत्तौ सम्प्रवा क्षुद्रजन्तुभेदे उज्ज्व-ल० “लुम्पन्ति कीटकृमयः परितस्तथैते” नागार्ज्जनीयेऋकारयुक्तपाठः लक्षायां कृमियुक्ते खरे गर्द्दभे चमेदि० रोगभेदे
पु०
तन्निदानादि सुश्रुते उक्तं यथा“अथातः कृमिरोगमध्यायं व्याख्यास्यामः अजीर्ण्णाध्यश-नासात्म्यैर्व्विरुद्धमलिनाशनैः अव्यायामदिवास्वप्नगुर्व्व-तिस्निग्धशीतलैः माषपिष्टान्नविदलविसशालूकषेरुकैः ।पर्ण्णशाकसुराशुक्तदधिक्षीरगुडेक्षुभिः पललानूपपिशित-पिन्याकपृथुकादिभिः स्वाद्वम्लद्रवपानैश्च श्लेष्मा पित्तञ्चकुप्यति कृमीन् बहुविधाकारान् करोति विविधाश्रयान् ।आमपक्वाशयस्तेषां प्रसवः प्रायशः स्मृतः विंशतेः कृमि-जातीनां त्रिविधः सम्भवः स्मृतः पुरीषकफरक्तानि तेषावक्ष्यामि लक्षणम् अयवा वियवाः किप्पा श्चिप्यागण्डू-पदास्तथा चूरवो द्विमुखाश्चैव सप्तैवैते पुरीषजाः श्वेताःसूक्ष्मास्तुदन्त्येते गुदं प्रतिसरन्ति तेषामेवापरे पुच्छैः पृ-थवश्च भवन्ति हि शूलाग्निमान्द्यपाण्डुत्वविष्टम्भबलस-ङ्क्षयाः प्रसेकारुचिहृद्रोगविड्भेदास्तु पुरीषजैः रक्तागण्डूपदा दोर्घा गुदकण्डूनिपातिनः शूलाटोपशकृ-द्भेदपक्तिनाशकराश्चते दर्भपुष्पाः महापुष्पाः प्रलूना ३टिपिटा स्तथा पिपीलिका दारुणाश्च कफकोपसमु-द्भवाः रोमशा रोममूर्द्धानः सपुच्छाः श्यावमण्डलाः ।मूढधान्याङ्गुराकाराः शुक्लास्ते तनवस्तथा मज्जादा १नेत्रलेढार स्तालुश्रोतभुज स्तथा शिरोहृद्रोगवमथुप्रति-श्यायकराश्चते केशरोमनखादाश्च दन्तादाः किक्कि-शा स्तथा कुष्ठजाश्र परीमर्प्पा ज्ञेयाः शोणितसम्भ-वाः ते सरक्ताश्र कृष्णाय स्रिग्धाश्च पृथयस्तथा रक्ता-धिष्ठानजान् प्रायोविकारान् जनयन्ति ते माषपिष्टान्न-लवणगुडशाकैः पुरीषजाः मांसमाषगुडक्षीरदधिशुक्तैःकफोद्भवाः विरुद्धाजीर्णशाकाद्येः शोणितोत्था भवन्तिहि ज्वरो विवर्णता शूलं हृद्रोगः मदसंभ्रमः ।भक्तद्वेषोऽतिसारश्च सञ्जातकृमिलक्षणम् दृश्यास्त्रयो-दशाद्यास्तु कृमीणां परिकीर्त्तिताः केशादाद्यास्त्व-दृश्यास्ते द्वावाद्यौ परिवर्जयेत् एषामन्यतमं ज्ञात्वाजिघांसुः म्निग्वमातुरम्” “तुदन्त्यामत्वचं र्दशा मश-कामत्कुणादयः रुदन्तं विगतज्ञानं क्रिमयः क्रिमिलंयथा” भाग०, ३, ३१, २८, स्वार्थे तत्रार्थे “ततो भक्षयतस्तस्य फलात् कृमिरभू-दणुः सत्यवागस्तु मुनिः कृमिर्मां दशतामयम्” ।“एवमुक्त्वा राजेन्द्रो ग्रीवायां सन्निवेश्य तम् कृमिकंप्राहसत्तूर्ण्णं मुमूर्षुर्नष्टचेतनः” भा० आ० ४३ अ०
क्रिमि
पु०
क्रम--इन् अतैच्च कृमौ क्षुद्रजन्तौ उज्ज्वल०२ रोगभेदे कृमिशब्दे २१९४ पृ० विवृतिः “क्रमयस्तु द्विधा-प्रोक्ताः वाह्याभ्यन्तरभेदतः बहिर्मलकफासृग्विड्जन्म-भेदाच्चतुर्वधाः नामतो विंशतिविधा बाह्यास्तत्र मलो-द्भवाः” “तिलप्रमाणसंस्थानवर्ण्णाः केशाम्बराश्रयाः ।बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः” माधवः ।“क्रिमयः क्रभिलं यथा” भाग० ३, ३१, २८,
Capeller
German
क्रि॑मि s. कृ॑मि.
Burnouf
French
क्रिमि क्रिमि
m.
ver, insecte.
Cochenille, carmin
cf.
कृमि।
क्रिमिकण्ठक
m.
, cf. कृमिकण्ठक।
क्रिमिघ्न
m.
, cf. कृमिघ्न। -- क्रिमिघ्नी
f.
serratula ou
conyza anthelminthica, bot.
क्रिमिज
n.
bois d'aloès
cf. अगुरु।
क्रिमिजा
f.
carmin, cochenille.
क्रिमिचत्रु
m.
erythrina fulgens, plante papilionacée dont le suc
est anthelminthique.
क्रिमिशात्रव
m.
(शत्रु) mimosa fétide, bot.
क्रिमीशैल
m.
(शैल) fourmilière.
Stchoupak
French
क्रिमि-
= कृमि-।