| YouTube Channel

क्रान्तिसाम्य (krAntisAmya)

 
वाचस्पत्यम्
Sanskrit
क्रान्तिसाम्य
न०
त० ग्रहाणां तुल्यक्रान्तौ यद्यपि सर्वग्रहाणां क्रान्तिसाम्यमस्ति तथापि चन्द्रार्कयोः क्रान्ति-साम्यस्य मङ्गलकार्य्ये वर्ज्जनीयता १८६५ पृ० उपयमशब्देविस्तरेण दर्शिता क्रान्तिसाम्ये ग्रहाणामवनत्यभावःसू० सि० दर्शितोयथा “अक्षोदग्मध्यभक्रान्तेः साम्येनावनतेरपि” सू० सि०“अक्षांशा उत्तरा ये मध्यभस्य मध्यलग्नस्य क्रान्त्यं-शाः अत्र मध्यलग्नशब्देन दशमभावस्त्रिभोनलग्नं वाग्राह्यमुभयपक्षेऽप्यदोषः अनयोस्तुल्यत्वेऽवनतेर्नतेःअपिशब्दाद् सम्भवो अभाव इत्यर्थः” रङ्गनाथः