| YouTube Channel

क्रान्तिवृत्त (krAntivRtta)

 
Monier Williams Cologne
English
क्रान्ति—वृत्त
n.
=
-मण्डल Comm. on
Sūryas.
v, 1.
Apte Hindi
Hindi
क्रान्तिवृत्तम्
नपुं*
क्रान्ति-वृत्तम् -
सूर्य का भ्रमण मार्ग
L R Vaidya
English
krAMti-vftta {% n. %} the ecliptic.
वाचस्पत्यम्
Sanskrit
क्रान्तिवृत्त
न०
सि० शि० उक्ते--क्रान्तिवलयाकारे वृतक्षेत्रे ।तन्निवेशनप्रकारादि गोलबन्धे तत्रोक्तं यथा“याग्योत्तरक्षितिजवत् सुदृढं विदध्यादाधारवृत्तयुगलं ध्रुव-यष्टिबद्धम् षष्ट्यङ्कमत्र सममण्डलवत् तृतीयं नाड्याह्वयंच विषुबद्वलयं तदेव” सि० शि० यथा खगोले क्षितिजंयाम्योत्तरं तदाकारमपरमाधारवृत्तद्वयं ध्रुवयष्टिस्थंकृत्वा तदुपर्यन्यत् तृतीयं सममण्डलाकारं घटीषष्ट्याचाङ्कितं कार्यम् तन्नाडीवृत्तं विषुवद्वृत्तसंज्ञं “इदा-नीं क्रास्तिवृत्तमाह” प्रमि० “क्रान्तिवृत्तं विधेयं गृहाङ्कंम्रमत्यत्र भानुश्च भार्धे कुभा भानुतः क्रान्तिपातः प्रतीपंतथा प्रस्फुटाः क्षेपपाताश्च तत्स्थानकान्यङ्कयेत्” सि० शि०“अथान्यत् तत्प्रमाणमेव वृत्तं कृत्वा तत्र मेषादिं प्रकल्प्यद्वादशराशयोऽङ्क्याः तत् क्रान्तिवृत्तसंज्ञम् तस्मिन्वृत्ते रविर्भ्रमति तथा रवेर्भार्धान्तरे भूभा तथातत्र क्रान्तिपातो मेषादेर्विलोमं भ्रमति तथा ग्रहाणांविक्षेपपाताः प्रस्थुटा विलोमं भ्रमन्ति अतः क्रान्ति-पातादीनां स्थानानि तत्राङ्क्यानि इदानीं क्रान्तिवृत्तस्यनिवेशनमाह” प्रमि०“क्रान्तिपाते पाताद्भषट्कान्तरे नाडिकावृत्तलग्नंविदध्यादिदम् पाततः प्राक् त्रिभे सिद्धभागैरुदग्-दक्षिणे तैश्च भागैर्विभागेऽपरे” सि० शि०“क्रान्तिपातचिह्नात् षड्भेऽन्तरेऽन्यच्चिह्नं कार्यम् तेचिह्ने नाडीवृत्तेन संसक्ते कृत्वा पातचिह्नादग्रतस्त्रिभेऽ-न्तरे नाडीवृत्ताद्भागचतुर्विंशत्योत्तरतो यथा भवत्यपरवि-भागे त्रिभेऽन्तरे दक्षिणतश्च तैर्भागैर्यथा भवति तथाबध्नीयात्” प्रमि० अविकंक्रान्तिशब्दे दृश्यम् क्रान्ति-बलयक्रान्तिमण्डलादयोऽप्यत्र