क्रान्तिपात (krAntipAta)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiक्रान्तिपातः
क्रान्ति-पातः -
वह बिंदु जहाँ क्रांतिवलय विषुवत रेखा से मिलता है
वाचस्पत्यम्
Sanskritक्रान्तिपात क्रान्त्यर्थं पातः विषुवत्क्रान्तिवलययोःअश्वधातादिवत् चतुर्थ्यर्थे ६ त० । सि० शि० उक्ते क्रान्ति-निमित्ते विषुवत्क्रान्तिवृत्तयोः संपाते । सि० शि० तद्विवृतिर्यथाविषुवत्क्रान्तिवलययोः संपातः क्रान्तिपातः स्यात् । तद्भ-गणाः सौरोक्ता व्यस्ता अयुतत्रयं कल्पे । अयनचलनंयदुक्तं मुञ्जालाद्यैः स एवायम् । तत्पक्षे तद्भगणाःकल्पे गोऽङ्गर्तुनन्दगोचन्द्राः । तत्संजातं पातं क्षित्प्वाखेटेऽपमः साध्यः । क्रान्तिवशाच्चरमुदयाश्चरदललग्नागमेतत क्षेप्यः सि० शि० । “क्रान्त्यर्थं पातः क्रान्तिपातः । पातोनाम सपातः । कयोः विषुवत्क्रान्तिवलययोः । नहितयोर्मेषादावेव संपातः । किंतु तस्यापि चलनमस्तियेऽयनचलनभागाः प्रसिद्धास्त एव विलोमगस्य क्रान्तिपातस्य भागाः । मेषादेः पृष्ठतस्तावद्भागान्तरे क्रान्तिवृत्तेविषुवद्वृत्तं लम्बमित्यर्थः । नहि क्रान्तिपातो नास्तीतिवक्तुं शक्यते प्रत्यक्षेण तस्योपलब्धत्वात् । उपलब्धिप्र-कारमग्रे वक्ष्यति । तत् कथं ब्रह्मगुप्तादिभिर्निपुणैरपिनोक्तः? इति चेत् । तदा खल्पत्वात् तैर्नोपलब्धः । इदानींबहुत्वात् साम्प्रतैरुपलब्धः । अत एव तस्य गतिरस्तीत्य-वगतम् । यद्येवमनुपलब्धोऽपि सौरसिद्धान्तोक्तत्वादागम-प्रामाण्येन भगणपरिध्यादिवत् कथं तैर्नोक्तः? सत्यम्अत्र गणितस्कन्ध उपपत्तिमानेवागमः प्रमाणम् । तर्हिमन्दोच्चपातभगणा आगमप्रामाण्येनैव कथं तैरुक्ताः? इतिनच वक्तव्यम् । यतो ग्रहाणां मन्दफलाभावस्थानानिप्रत्यक्षेणैवोपलभ्यन्ते । तान्येव मन्दीच्चस्थानानि । या-न्येव विक्षेपाभावस्थानानि नान्येव पातस्थानानि । किं तुतेषां गतिरस्ति नास्ति वेति सन्दिग्धम् । तत्र मन्दोच्च-पातानां गतिरस्ति चन्द्रमन्दोच्चपातवदित्यनुमानेनसिद्धा । सा च कियती तदुच्यते । यैर्मगणैरुपलब्धि-स्थानानि तानि गणितेनागच्छन्ति तद्भगणसंभवा वार्षिकीदैनन्दिनी वा गतिर्ज्ञेया । नन्वेवं यद्यन्यैरपि भगणै-स्तान्येव स्थानान्यागच्छन्ति तदा कतरस्या गतेःप्रामाण्यम् । सत्यम् तर्हि साम्प्रतोपलब्ध्यनुसा रणीकापि गतिरङ्गीकर्तव्या । यदा पुनर्महता कालेन महद-न्तरं भविष्यति तदा महामतिमन्तो ब्रह्मगुप्तादीनां समा-नधर्माण एवोत्पत्स्यन्ते । ते तदुपलब्ध्यनुसारिणीं गति-मुररीकृत्य शास्त्राणि करिष्यन्ति । अत एवायं गणित-स्कन्धो महामतिमद्भिर्धृतः सन्ननाद्यन्तेऽपि काले खिल-त्वं न याति । अतोऽस्य क्रान्तिपातस्य भगणाः कल्पे-ऽयुतत्रयं तावत् सूर्यसिद्धान्तोक्ताः । तथा मुञ्जालाद्यैर्य-दयनचलनमुक्तं स एवायं क्रान्तिपातः । ते गोऽङ्गर्तु-नन्दगोचन्द्रा १९९६६९ उत्पद्यन्ते । अथ च थे वा तेवा भगणा भवन्तु । यदा येऽंशा निपुणैरुलभ्यन्ते तदास एव क्रान्तिपात इत्यर्थः । तं तिलोमगं क्रान्तिपातंग्रहे प्रक्षिप्य क्रान्तिः साध्या” प्रमिता० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
